अथ तेषां योगानामेकतमस्मिन्नराश्च ये जाताः।
तेषां दशानुनयनं स्पष्टं वक्ष्यामि यत्नतश्चाहम्।।1।।
मययवनसिद्धसेनप्रबोधमाण्डव्यविष्णुगुप्ताद्यैः।
आयुर्दायविभागो नॄणां सम्यक् पुरातनैः कथितः।।2।।
पिण्डायु
एकोंनविंशतिसमा भानोश्चन्द्रस्य पञ्चकृतिरब्दाः।
भौमस्य तु तिथिसंख्या बुधस्य षट्कद्वयं निवनिर्दिष्टम्।।3।।
पञ्चदशाब्दाश्च गुरोः शुक्रस्याप्येकविंशतिः कथिताः।
मन्दस्य विंशतिसमाः परमोच्चस्था ग्रहाः प्रयच्छन्ति।।4।।
स्वोच्चादर्धं नीचे तदन्तरस्थेऽनुपाततः कल्प्यम्।
विधिनैवं खेचराणां दशानुनयनं क्रमेण कर्त्तव्यम्।।5।।
नीचोच्चविवरगगतिं स्वदशापिण्डेन ताडयेद्धीमान्।
षष्ट्यादिशेषणीयं वर्षान्तं कल्पयेद्यथान्यायम्।।6।।
यद्युच्चान्तिकविवरं पिण्डाच्छोध्यं ग्रहस्य तस्यायुः।
नीचसमीपाद्विवरं पिण्डार्धयुतं ग्रहस्य तस्यायुः।।7।।
मूढारिदृश्यहरणं युद्धासुरसंनिकर्षहरणं च।
हरणानि ज्ञात्वैवं गुरूपदेशेन कर्त् व्यम्।।8।।
तस्यैवमंशकदशामेवं कृत्वा व्ययादिहरणं च।
पूर्वदशासु समार्धं त्यक्त्वा शेषं ग्रहस्य शुद्धायुः।।9।।
एकद्वित्रिचतुर्थपञ्चमरसान् भागान् हरन्ति व्यया-
द्वामं यात्सुपदक्रमेण भवने पापेषु सत्सूक्तवत्।
अर्थं याति शुभाशुभैस्तु सहिते पापस्य भागं हरेत्
त्र्याद्येष्वेकगतेषु वीर्थिहरणं कुर्यान्न शेषेषु च।।10।।
त्र्यंशं रिपोर्भवनगेऽवनिजं च मुक्त्वा
चास्तं गतेऽर्धहरणं शनिशुक्रवर्जम्।
भङ्गे त्रिकांशमथवासुरसंनिकर्षे
चन्द्रार्कयोः क्षयमुपैति तदर्धकार्धम्।।11।।
होरेश्वरांशकसमानि ददाति लग्नं
लग्ने शुभे बलयुते चतुरंशयुक्तम्।
पापान्वितेऽपि विबले चतुरंशहीनं
होरादशा तु विधिना परिकल्पिता स्यात्।।12।।
उच्चनीचविधिनायुराप्यते यत्र सम्यगधियोगसम्भवः।
सद्गृहत्वमुपगच्छति लग्नं यत्र चास्तभवनं ग्रहयुक्तम्।।13।।
उच्चनीचदशामार्गं सामान्यं सर्वदेहिनाम्।
दशासंस्कारभेदेन द्विप्रकारं प्रचक्षते।।14।।
कुर्याद्दशासु सस्कारमंशकैर्बलवत्तरैः।
तयोर्बलाबलेनैव कल्पयेन्मतिमान्नरः।।15।।
अथांशायुः
राश्यंकला गुणिता द्वादशनवभिग्र्रहस्य भगणेभ्यः।
द्वादशहृतावशिष्टं वर्षाद्युपलक्षितं यथान्यायम्।।16।।
स्वांशत्रिभागनिजगृहवर्गोत्तमसंस्थिते द्वयं गुणकः।
वक्रोच्चयोस्त्रिगुणितं नीचेऽर्थं क्षीयते विशेषेण।।17।।
पूर्वोक्तहरणमस्मिन् कुर्याद्भौमस्य शत्रुहरणं च।
उदितनवांशकरसदृशानब्दानुदयस्य कल्पयेन्मतिमान्।।18।।
अंशोद्भवं विलग्नात्पैण्डं भानोर्निसर्गजं चन्द्रात्।
एतेषां यो बलवांस्तस्यामुं कल्पयेद्दायम्।।19।।
क्षेत्रोच्चमित्रभागे ग्रहैः समस्तैस्तदांशजनितश्च।
अर्केन्दुलग्नरहितैर्ग्रहैस्तदांशोद्भवो दशामार्गः।।20।।
अथ जीवशर्मायुः
अपरं दशानुनयनं स्वकीयमार्गेण जीवशर्मोक्तम्।
तस्मादायुर्दायं वक्ष्ये विषयप्रकारं च।।21।।
नीचोच्चविवरगकला विभज्य ननतायरैः समा लब्धा:।
रम्य नल नात गुणिता विभज्य तेनैव मासदिननाड्य:।।22।।
सय(17)यज्ञ(1)रुद्र(22)ज(8)बला(35)च्छोध्यं तुङ्गात्समीपतः पिण्डम्।
नीचसमीपात्पिण्डं विवरं यदि तेषु संयोज्यम्।।23।।
हरणं यत्पूर्वोक्तं प्रथमेऽप्यत्रापि कारयेत्प्राज्ञः।
मन्दसितमूढहरणं भौमस्य न शत्रुहरणं च।।24।।
होरायामुदितांशप्रमाणमायुर्ददाति लग्नं च।
पापग्रहे तु लग्ने चतुरंशस्त्यज्यतेऽन्यथा तु युतिः।।25।।
अर्थव्ययर्क्षौ ग्रहसंप्रयुक्तौ लग्नाव्द्ययार्थौ शशिलग्नराशेः।
ग्रहेण युक्तौ यदि जीवशर्ममतं गुरौ मध्यगतेऽम्बुगे वा।।26।।
सर्वे ग्रहा नीचसमीपसंस्थास्तत्प्रोक्तमार्गे बलवर्जितास्तु।
कश्चिद्ग्रहो लग्नगतोऽस्तगो वा तदा स्वरां (7) शेन दशा प्रकल्प्या।।27।।
अथ भिन्नाष्टवर्गे त्रिकोणशोधनम्
शशिचक्रं यथामार्गं निक्षिप्येष्टग्रहस्य च।
त्रिकोणशोधनं कुर्यादादौ सर्वेषु राशिषु।।28।।
त्रिकोणास्तु कथं प्रोक्तां मेषसिंहहयाः क्रमात्।
वृषकन्यामृगास्याश्च तुलाकुम्भयमास्तथा।।29।।
कर्किवृश्चिकमीनास्ते त्रिकोणाः स्युः परस्परम्।
त्रिकोणेषु च यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत्।।30।।
एकस्मिन् भवने शून्ये तत्त्रिकोण न शोधयेत्।
भवनद्वयशून्यत्वे शोधयेदन्यमन्दिरम्।।31।।
अर्थकाधिपत्यशोधनम्
समत्वे सर्वगेहेषु सर्वं संशोधयेद्बुधः।
एवं त्रिकोणं संशोध्य पश्चादेकाधिपत्यजम्।।32।।
क्षेत्रद्वये फलानि स्युर्यदि संशोधयेद्बुधः।
क्षीणेन सह चान्यास्मिंच्छोधयेद्ग्रहवर्जिते।।33।।
ग्रहयुक्ते फलैर्हीने ग्रहहीने फलाधिके।
ऊनेन सह चान्यस्मिंच्छोधयेद्ग्रहवर्जिते।।34।।
फलाधिके ग्रहोपेते चान्यस्मिन् सर्वमुत्यृजेत्।
सग्रहाग्रहतुल्यत्वे सर्वं संशोध्यमग्रहात्।।35।।
उभयोर्ग्रहसंयोगे न संशोध्यं कदाचन।
उभाभ्यां ग्रहहीनाभ्यां समत्वे सकलं त्यजेत्।।36।।
एकस्मिन् भवने शून्ये न संशोध्यं कदाचन।
कुलीरसिंहयो राश्योः पृथक् क्षेत्रफलं स्मृतम्।।37।।
राशिगुणाकारः
शोध्यावशिष्टं संस्थाप्य राशिमानेन वर्धयेत्।
ग्रहयुक्ते तु तद्राशौ ग्रहमानेन वर्धयेत्।।38।।
गोसिंहौ दशगुणितौ वसुभिर्मिथुनालिनौ।
वणिङ्मेषौ च मुनिभिः कन्यकामकरौ शरैः।।39।।
ग्रहगुणागारः
शेषाः स्वसंख्यागुणिताः राशीनां गुणकाः स्मृताः।
जीवारशुक्रसौम्या दशवसुसप्तेन्द्रियैः क्रमाद्गुणिताः।।40।।
बुधसंख्या शेषाणां राशिगुणा ग्रहगुणाः पृथक् कार्याः।
राशीनां गुणकारैश्च फलानि गुणयेत् पृथक्।।41।।
अथ ग्रहायुः
सति तत्र ग्रहैर्युक्ते गुणयेद्ग्रहसंख्यया।
एवं संगुण्य संयोज्य सप्तभिगुर्णयेत्पुनः।।42।।
सप्तविंशतिसंभक्तात्तस्माल्लब्धं तु वत्सराः।
शिष्टं रूपैर्नगैर्नीचैर्हत्वा हृत्वा पृथक् पृथक्।।43।।
हारेण तेन लब्धाः स्युर्मासाहर्घटिकाः क्रमात्।
सप्तविंशतिवर्षाणि मण्डलं परिकीर्तितम्।।44।।
तद्भागशुद्धाः संग्राह्या मण्डलाधिकवत्सराः।
अन्योन्यमर्धहरणं ग्रहयोगे तु कारयेत्।।45।।
नीचेऽर्धमस्तगेऽप्यर्धं हरणं तत्र कारयेत्।
शत्रुक्षेत्रे त्रिभागोनं दृश्यार्द्धहरणं तथा।।46।।
रणभङ्गे त्रिकांशोनं तथा पातेऽर्कचन्द्रयोः।
बहुले हरणे प्राप्ते कारयेद्बलवत्तरम्।।47।।
पश्चात्संयोज्य तत्सर्वं वाराङ्गेन विवर्धितम्।
मातङ्गलब्धं शुद्धायुर्भवतीति न संशयः।।48।।
पूर्ववद्दिनमासाब्दं कृत्वा तस्य दशा भवेत्।
एवं ग्रहाणां सर्वेषां दशां कुर्यात् पृथक् पृथक्।।49।।
अष्टवर्गदशामार्गः सर्वेषामुत्तमोत्तमः।
केन्द्रेष्वन्यतमस्थे शशिनि ग्रहसंयुतेऽष्टवर्गेण।
आयुर्दायं कुर्याद्दशमक्षे क्रूरसौम्ययुते।।50।।
अष्टवर्गं समुद्धृत्य ग्रहाणां राशिमण्डले।
प्राग्वत् त्रिकोणं संशोध्य पश्चादेकाधिपत्यजम्।।51।।
एकस्मिन् मण्डलाधिक्ये शोधयेच्चक्रमण्डलम्।
द्वाशैव तु गृह्णीयादेवं सर्वेषु राशिषु।।52।।
पूर्वोक्तगुणकारैस्तैर्वर्धयेच्च पृथक् पृथक्।
एकीकृत्य तु तत्सर्वं सप्तभिर्गुणयेत्पुनः।।53।।
सप्तविंशत्या च भाज्यं लब्धमायुः प्रदृश्यते।
द्वादशादिगुणं शिष्टं मासाद्यं हारभाजितम्।।54।।
शतोर्ध्वं यदि तत्पिण्डं मण्डलोनाव(100) शेषयेत्।
शतमेव तु गृह्णीयाद्दीर्घायुर्योगसम्भवे।।55।।
सर्वं संयोज्य तत्पिण्डं वाराङ्गेन विवर्धितम्।
मातङ्गभक्तं लब्धायुर्मातङ्गाब्दं प्रचक्षते।।56।।
सर्वग्रहेभ्यः शुद्धायुः पिण्डरूपं विनिर्दिशेत्।
ग्रहाणां तु विभागार्थमुपायस्त्विह कथ्यते।।57।।
व्यस्ताष्टवर्गकदशा चैकीभूता घटीकृता।
तमेव हारं सर्वेषामनष्टं स्थापयेत् क्वचित्।।58।।
समस्ताष्टकनाड्यस्तु भिन्नाष्टकदशाहताः।
भागहारहृताल्लब्धं ग्रहस्यायुर्भविष्यति।।59।।
दिनमासाब्दपर्यन्तं कृत्वा पूर्ववदाचरेत्।
एवं ग्रहाणां सर्वेषां शुद्धायुः स्यात् पृथक् पृथक्।।60।।
समुदायदशामार्गं एवं क्रम उदाहृतः।
राशितुल्यानि वर्षाणि प्रयच्छन्त्युदयो बली।।61।।
उभयत्रापि विज्ञाय लग्नदायं विनिर्दिशेत्।
अष्टवर्गदशामार्गं सर्वेषां संमतं विदुः।।62।।
गृहैक्यस्य दशाभावे भेदमार्गं प्रकल्पयेत्।
तदोच्चनीचमार्गेण दशां कुर्याद्विचक्षणः।।63।।
नीचारिभवनयातैर्ग्रहैः समस्तैस्तदंशगैर्वाऽपि।
यनाचार्यमतेन ग्रहदायं कल्पयेन्मतिमान्।।64।।
ग्रहसहिते केन्द्रस्थे चन्द्रे केन्द्राद्बहिः स्थितैः शेषैः।
समुदायाष्टकविधिना ग्रहदायं कल्पयेन्मणित्थमतात्।।65।।
एकत्र गतैः सर्वैः केन्द्रादन्यत्र संस्थितैर्जन्तोः।
आयुर्दायविभागैर्दशाफलं ज्ञायते नैव।।66।।
अल्पायुर्योगभवा दीर्घायुर्योगजास्तु ये मनुजाः।
तेषां दशाविभागैरायुर्ज्ञातुं न शक्यते नूनम्।।67।।
षष्ठाष्टमव्ययगतै: पापैरल्पायुरादिशेत्तज्ज्ञः।
सौम्यैर्विपरीतं स्यान्मिश्रखगैर्मध्यमायुरादेश्यम्।।68।।
इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे आयुर्दायाध्यायः सप्तमः।।