उक्तं बालारिष्टं योगारिष्टं प्रयत्नतो वक्ष्ये।
योगारिष्टदशायामुभयोस्तुल्यं यदा रिष्टम्।।1।।
होरेश्वरेऽर्कसंस्थे जन्मेशे वाऽपि सौम्यदृग्धीने।
केन्द्रगतैः पापैः स्याद्विंशत्यव्दे मूतिर्नूनम्।।2।।
भौमे लग्नं याते रविमन्दौ केन्द्रगौ बलोद्रिक्तौ।
आविंतेर्मृतिः स्याद्भङ्गो वा रोगयुक्तो वा।।3।।
कुजरवियुक्ते लग्ने चरराशौ मध्यसंस्थिते जीवे।
सुतधर्मगते चन्द्रे जातस्याविंशतेर्मृतिर्भवति।।4।।
नीचांशगतश्चन्द्रोऽप्यष्टमसंस्थः क्षयी च मरणकरः।
सौरिकुजाभ्यां दृष्टस्तस्यायुः पञ्चविंशतिः परमम्।।5।।
चद्राष्टमगैः पापैः सौम्यैरापोक्लिबस्थितैर्विबलैः।
चन्द्रे निधनारिगते तस्यायुः पञ्चविंशतिः परमम्।।6।।
लग्नेन्द्वोर्निधनपती केन्द्रगतावष्टमे ग्रहः कश्चित्।
लग्नहिमांशू विबलौ जातस्यायुः परंत्रिंशत्।।7।।
अर्थव्ययर्क्षसंस्थौ क्रूरौ जीवोरगप्रसंयुक्तौ।
सप्ताष्टमयोश्चन्द्रो जातस्यायुः परं त्रिंशत्।।8।।
अर्कस्यास्तमयस्थः क्रूरो जीवोरगप्रसंयुक्तः।
षष्ठाष्टमगश्चन्द्रो जातस्यायुः परं त्रिंशत्।।9।।
गुरुणा युक्तः शुक्रो लग्नतः पञ्चमे कुजार्कियुते।
बलरहितश्चेच्चन्द्रो योगे जातोऽल्पजीविनो नियतम्।।10।।
अष्टाविंशतिवर्षे मरणं चन्द्रार्कराहवः सहिताः।
कुर्वन्ति तदा जन्तोर्जीवे व्ययगे तथा नियतम्।।11।।
लग्नाष्टमपतिचन्द्रौ केन्द्रगतावष्टमे ग्रहः कश्चित।
द्वाविंशे मरणं स्यान्न शुभेर्युक्तेक्षिते केन्द्रे।।12।।
क्षणिश्चन्द्रः स्वक्षे निधनेशे केन्द्रगेऽष्टमे पापे।
लग्नेशे बलहीने जातस्यायुः परं त्रिंशत्।।13।।
होरानिधनाधिपयोः स्फुटयोगः केन्द्रमृत्युराशिस्थः।
तत्र समेतः पापो निधनं स्यात्सप्तविंशवर्षे तु।।14।।
रन्ध्रेश्वरे कोणगते विलग्ननाथेऽष्टमस्थेऽशुभयुक्तदृष्टे।
जातश्चतुर्विंशतिवर्षजीवी शुभेक्षितो तावपि मृत्युरेव।।15।।
पापोदये सुरगुरौ शनिदृष्टे राहुणा समेते वा।
यः कश्चिन्निधनगतो मरणं जनयेद्द्विनेत्रसंख्याब्दैः।।16।।
होरेशे लग्नगते सक्रूरौ चन्द्रभास्करौ हिबुके।
निधनेशे केन्द्रगते जातस्यायुः परं त्रिंशत्।।17।।
अष्टमाधिपतौ केन्द्रे लग्नेशे बलवर्जिते।
त्रिंशद्वर्षाण्यसौ जीवेद्द्वात्रिंशन्मितमेव वा।।18।।
आपोक्लिबस्थिते चन्द्रे लग्नेशे तत्र संस्थिते।
पापेक्षिते बलैर्हीने जीवेद्दशचतुर्गुणान्।।19।।
गुरुशुक्रौ च केन्द्रस्थौ लग्नेशः पापसंयुतः।
आपोक्लिबस्थः सन्ध्यायां जातस्यायू रवित्रयम्।।20।।
पापमध्यगते सूर्ये लग्नस्थे शत्रुवेश्मनि।
जातः स्याद्रोगपीडार्त् : परमायू रवित्रयम्।।21।।
रवीन्दू लग्नगौ यस्य केन्द्राष्टमविवर्जितैः।
सौम्यैर्गुलिकवेलायां जातस्यायू रवित्रयम्।।22।।
अष्टमनाथे लग्ने स्थिरराशौ जायते नरो यस्तु।
चत्वारिंशद्वर्षे मरणं रन्ध्रे शुभेन संयुक्ते।।23।।
लग्नेशे निधनांशस्थे लग्नांशे निधनेश्वरे।
पापयुक्ते तदा जातः पञ्चाद्वर्षजीवितः।।24।।
ग्रहैर्विरहिते केन्द्रे लग्नेशः पापबर्जितः।
षष्टिवर्षात्परं नायुः पापैः पञ्चमसंस्थितैः।।25।।
लग्नेशे व्ययसंयुक्ते क्षीणे पापयुतेऽपि वा।
षष्टिवर्षात्परं नायुर्न च लग्ने बृहस्पतिः।।26।।
अष्टमाधिपतौ केन्द्रे भौमे लग्नं समाश्रिते।
अर्कार्कजौ त्रिषष्ठस्थौ जीवेद्रुद्रचतुष्टयम्।।27।।
वर्गोत्तमांशगे चन्द्रे लग्नस्थे पापवीक्षिते।
सौम्यैर्बलविहीनैश्च द्वादशाब्दांश्चतुर्गुणान्।।28।।
सौम्यैः पापांशकर्क्षस्थैः पापैः केन्द्रगतैस्तथा।
मध्यमायुरयं योगः सौम्यैः केन्द्रबिवर्जितैः।।29।।
उदयगते द्विशरीरे मन्दे चन्द्रेऽष्टमे व्यये वाऽपि।
जातस्तत्र मनुष्यो जीवति वर्षं द्विपञ्चाशम्।।30।।
अलिकर्कियुते लग्ने सूर्ये पापान्विते शशी धनगः।
गुरुरहिते केन्द्रे स्याच्छतार्धवर्षं च तस्यायुः।।31।।
चतुरश्रगताः पापा लग्नात्कुर्वन्ति मध्यमायुर्हि।
चन्द्रात्तथैव पापाः सौम्यैरनबेक्षिता न संयुक्ताः।।32।।
सुखदशमे पापोश्चेन्निधने पापान्विते व्यये चन्द्रे।
गुरुशुक्रावेकगतौ जातस्तत्रैव मध्यमायुः स्यात्।।33।।
शन्यंशे लग्नेशे निधनेश्वरसंयुते निशानाथे।
षष्ठेऽष्टमव्यये वा जातस्य परामायुरष्टपञ्चाशत्।।34।।
षष्ठाष्टमव्ययगतैर्ग्रहैः समस्तैर्नृपालयोगः स्यात्।
अस्मिन्योगे जन्तोः परमायुश्चाष्टपञ्चाशत्।।35।।
लग्नाधीशान्मृत्युषष्ठव्ययस्थाः पापाः सन्तो नैधनं वर्जयित्वा।
अस्मिन् योगे जायते यो मनुष्यस्तस्यायुः स्यात् षष्टिवर्षं प्रसिद्धम्।।36।।
होराजन्माधिपती ह्यस्तगतौ मृत्युराशिसंयुक्तौ।
लग्नचतुष्टरहिते देवगुरौ पञ्चषष्टिवर्षाणि।।37।।
अर्ककुजमन्दयुक्ते लग्ने बलवर्जिते सुराचार्ये।
चन्द्रे व्ययात्मजे वा सप्ततिवर्षं तु जीवितं विद्यात्।।38।।
चतुराद्यैर्ग्रहैर्युक्ता लग्नद्वित्रिसुखा यदि।
चिरायुस्तत्र जातश्च ज्ञानवानर्थवान् भवेत्।।39।।
पञ्चमादिषु तैर्योगे षष्टिवर्षं स जीवति।
नवमादिषु तैः सर्वैरल्पायुस्तत्र जातकः।।40।।
क्रूरर्क्षस्थैः क्रूरैः सौम्यैः केन्द्राश्रितैरशीत्यब्दम्।
जीवति तत्रोद्भूतो मिश्रैर्वा षष्टिवर्षं च।।41।।
गुरुचन्द्रौ हिबुकस्थौ लग्नेशे लाभगे बलाढ्ये स्यात्।
सौम्ये दशमं याते त्वशीतिवर्षं च परमायुः।।42।।
जीवांशकस्था रविभौममन्दाः केन्द्रं गता लग्नगते सुरेड्ये।
रन्ध्रं विनान्यत्र गतास्तु शेषाः पञ्चान्विताशीतिमुशन्ति तस्य।।43।।
क्रूरर्क्षस्थैः क्रूरैः सौम्यक्षेत्रेषु संस्थितैः सौम्यैः।
होरेश च बलाढ्ये जातः परमायुराप्नोति।।44।।
यदि नैधनगो भौमस्त्वर्को होरागतोऽपि प्रसवे।
केन्द्रे चेत्सुरपूज्ये प्राणिति जातोऽत्र वर्षशतम्।।45।।
केन्द्रत्रिकोणनिधनेषु न यस्य पापा लग्नाधिपः सुरगुरुश्च चतुष्टयस्थौ।
भुक्त्वा सुखानि विविधानि च (सु) पुण्यकर्मा जीवेच्च वत्सरशतं स विमुक्तरोगः।।46।।
चरांशकस्था रविभौममन्दाः स्थिरांशकस्थौ भृगुदेवपूज्यौ।
शेषास्तु युग्मांशमुपागताश्चेद्दीर्घायुरत्रावनिपालकोऽपि।।47।।
ओजांशकस्थितशुभाः सुखधर्मसंस्थाः
पापास्तु युग्मभवनांशकलग्नसंस्थाः।
चन्द्रो विलग्नभवने यदि पूर्णरश्मि-
र्जातोऽत्र याति शतमायुररोगतां च।।48।।
लग्नाधिपोऽतिबलवानशुभैरदृष्टः
केन्द्रस्थितः शुभखगैरवलोक्यमानः।
मृत्युं विधूय विदधाति सुदीर्घमायुः
सार्धं गुणैर्बहुभिरूर्जितराजलक्ष्म्या।।49।।
लग्नेश्वरादतिबली निधनेश्वरोऽसौ
केन्द्रस्थितो निधनरिःफगतैश्च पापैः।
तस्यायुरल्पमथवा यदि मध्यमायु-
रुत्साहसङ्कटवशात्परमायुरेति।।50।।
अथामितायुर्योगलक्षणम्
एकांशकस्था बुधजीवशुक्रास्त्वेकर्क्षगा लग्नमुपागताश्च।
धर्मे शनौ जन्मनि यस्य जन्तो रसायनाद्यैर्युगमायुरेति।।51।।
एकांशकस्था बुधजीवमन्दा धर्मे स्थिता लग्नमुपागताश्च।
षष्ठेऽष्टमे वा हिबुके च यस्य सहस्रवर्षद्वयमत्र जातः।।52।।
जीवांशकस्था सकला गहेन्द्राः केन्द्राश्रिता धर्मधनाश्रिता वा।
जातो नरः प्रव्रजितोऽथ बाल्ये युगान्तमायुर्बहुशास्त्रकर्ता।।53।।
मन्दांशकस्था रविभौमजीवाः केन्द्राश्रिता धर्मयुता बलाढ्याः।
क्षेत्रावसाने हिमगौ विलग्ने युगान्तमायुः श्रियमभ्युपैति।।54।।
धर्मेश्वरे धर्मगते च यस्य भौमेन दृष्टे हिमगौ कुजांशे।
मुनीश्वरोऽयं मुनियोगजातः शास्त्रादिकर्ता युगमायुरेति।।55।।
अक्षीणचन्द्रे सुहृदुच्चभांशे लाभाश्रिते लग्नमुपागते वा।
धर्मस्थिते सूर्यसुते बलाढ्ये जातोऽत्र दीर्घायुरसंख्यवर्षः।।56।।
गुरुमन्दावेकस्थावेकांशगतौ स्वधर्मकर्मस्थौ।
अर्कोदये ससौम्ये जातो मुनिवल्लभोऽत्र दीर्घायुः।।57।।
अतिदीर्घायुर्योगे जातो मुनिवञ्जितेन्द्रियो भूत्वा।
दिव्यौषधप्रयोगाद्बिल प्रविष्टः करोति मन्त्रजपान्।।58।।
इत्यादियोगा यवनोपदिष्टा मयेरिताः प्राक्तनकर्मयोगात्।
सर्वान् विनिश्चित्य दशान्तरकाले छिद्रेषु योगोक्तफलं नियोज्यम्।।59।।
इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारेऽरिष्टयोगाध्यायः षष्ठः।।