अथ मातापित्ररिष्टं सूतिकालस्य लक्षणम्।
प्रवक्ष्यामि समासेन सद्यो मरणमेव च।।1।।
जातस्य पूर्वषट्कस्था ये ग्रहास्ते शुभप्रदाः।
ये ग्रहाः परषट्कथा परोक्षफलदायकाः।।2।।
भानुः पिता च जन्तूनां चन्द्रो माता तथैव च।
तयोर्बलाबलं ज्ञात्वा पितृमातृगुणान्वदेत्।।3।।
पापदृष्टो युतो भानुः पापमध्यगतोऽपि वा।
पित्ररिष्टं विजानीयाच्छिशोर्जातस्य निश्चयात्।।4।।
भानोः षष्ठाष्टमर्क्षस्थैः पापैः सौम्यविवर्जितैः।
चतुरश्रगतैर्वाऽपि पित्ररिष्टं समादिशेत्।।5।।
भौमांशकस्थिते भानौ स्वपुत्रेण निरीक्षिते।
प्राक्जन्मनो निवृत्तिः स्यान्मृतिर्वाऽपि शिशोः पितुः।।6।।
भौमे सूर्यांशकयुते सुखभे धर्मभेऽपि वा।
नेक्षिते(तो) गुरुशुक्राभ्यां नेक्षते पितरं शिशुः।।7।।
मात्ररिष्टं तु चन्द्रेण ज्ञात्वैवं पूर्ववद्वदेत्।
क्षीणचन्द्रात् त्रिकोणस्थैः पापैः सौम्यविवर्जितैः।।8।।
मात्ररिष्टं तु चन्द्रेण ज्ञात्वैवं पूर्ववद्वदेत्।
एकांशस्थौ तु मन्दारौ यत्र कुत्र स्थितावपि।।9।।
शशिकेन्द्रगतौ वाऽपि द्विमातृभ्यां स जीवति।
तयोर्बलाबलेनैव पितृमातृगृहोद्भवः।।10।।
मूर्तिर्बलान्विता यस्य पितृवेश्मनि सम्भवः।
चरराश्यंशके भानौ चराश्यंशकोदये।।11।।
शिशोः पितान्यदेशस्थः सूतौ लग्नं न पश्यति।
लग्नं न पश्यति विधौ चरराश्यंशके स्थिते।।12।।
परोक्षगः पिता तस्य सूतिकाले न संशयः।
वागीशे नीचसंस्थे च चन्द्रे राश्यंशसन्धिगे।।13।।
मूको वाऽपि जडोवाऽपि सौम्यैः पापसमन्वितैः।
भाग्यबन्धुगताः पापाः लग्नेशे बलवर्जिते।।14।।
जन्मकाले पिता रोगी कुजदृष्टेऽथवा युते।
अर्काशकस्थिते मन्देऽप्यर्केणैव निरीक्षिते।।15।।
सूतिकाले पिता दुःखी शिशो रिःफाष्टमेऽपि वा।
न पश्यति गुरौ चन्द्रं लग्नं च परजातकः।।16।।
सार्केन्दुनेक्षिते जीवे सूर्येन्दू पापसंयुतौ।
गुरुराश्यंशके चन्द्रे चन्द्रराश्यंशके गुरौ।।17।।
परस्परांशराशिस्थौ चन्द्रार्कौ नैव जारजः।
पूर्वोक्तयोगसम्भूतो परैर्जात इतीष्यते।।18।।
कालस्याङ्गविभागेषु यस्मिन् राशौ शुभाः स्थिताः।
तत्र लक्ष्मव्रणादीनि चिन्तयेत्तन्निमित्ततः।।19।।
सद्यो मरणयोगा हि बहवः शास्त्रदर्शिताः। (लक्षिताः।)
तेभ्यः सिद्धान्तयोगास्तु वक्ष्यन्तेऽत्र समासतः।।20।।
पित्रोर्दोषैर्मृताः केचित् केचिद्वालग्रहैर्मृताः।
अपरे रिष्टयोगेभ्य(योगेद्यै) स्त्रिविधा बालमृत्यवः।।21।।
एवं सूक्ष्मतरं ज्ञात्वा शिशोर्दोषैर्गुणान्वदेत्।
आद्वादशाब्दं मर्त्यानामायुर्ज्ञातुं न शक्यते।।22।।
जपहोमचिकित्साद्यैर्बालं रक्षेद्गुणाधिकेः।
राशिसन्धिषु ये जातास्ते बाला गतजीविनाः।।23।।
पापदृष्टो युतो वाऽपि निःसंशयमिति स्मृतम्।
गण्डान्तेषूद्भवो मर्त्य: पितृमातृकुलान्तकः।।24।।
यदि जीवेत्सभूपालो गजवाजिसमन्वितः।
चन्द्रादित्यौ तृतीयस्थौ क्रूरभे क्रूरसंयुतौ।।25।।
व्याधिं तस्य विजानीयात् त्रिवर्षं नातिवर्तते।
होराया कण्टकस्थेन्दौ निधनेशसमन्विते।।26।।
निधनस्थः परः कश्चिञ्जातमात्रो विनश्यति।
सहितौ चन्द्रजामित्रे यस्याङ्गारकभास्करौ।।27।।
राहूदये तथा जात आदशाहान्मृतो भवेत्।
चतुरश्रं गताः पापा वामदक्षिणतोऽपि वा।।28।।
यदा यो व्याधिमाप्नोति दशरात्रं स जीवित।
उद्यद्द्रेक्काणजामित्रे यस्य स्याद्दारुणो ग्रहः।।29।।
क्षीणचन्द्रो विलग्नस्थः सद्यो हरति जीवितम्।
अपोक्लिबे स्थिताः सर्वे ग्रहा बलविवर्जिताः।।30।।
षण्मासं वा द्विमासं वा तस्यायुः समुदाहृतम्।
विलग्नाधिपतिर्नीचे निधने वाऽस्तगो भवेत्।।31।।
कृच्छ्रेण जीवितं विद्यान्मृतप्रायो भविष्यति।
केतोरुद्रयः पूर्वं पश्चादुल्कादिपतननिर्घाताः।
रौद्रे सति च मुहूर्ते प्राणेभ्यस्त्यज्यते जन्तुः।।32।।
तीव्रफ(ब)ल राजयोगा यवनाद्यैर्ये विनिर्मितास्तेषु।
जायन्ते खलु कुलजारिष्टं तेषु प्रसूतानाम्।।33।।
ग्रहणपरिवेषकाले जातः पापग्रहे विलग्नस्थे।
पापेन दृश्यमाने जीवति पक्षत्रयं त्रिमासे वा।।34।।
अंशाधिपजन्मपती लग्नपतिश्चास्तमुपागता यस्य।
जन्मावसरे मरणं तस्य भवेत्कतिपयाहेन।।35।।
सन्धिचतुष्टयकाले जन्तोर्मृत्युं समादिशेत्तज्ज्ञः।
पापयुतो दृष्टो वा चन्द्रः सौम्यैरदृष्टयुतः।।36।।
उदयात्मजास्तरन्ध्रनवमव्ययसंस्थितः सपापेन्दुः।
मरणमवश्यं कुरुते सौम्यग्रहवीक्षितो युतो न स्यात्।।37।।
लग्नाधिपजन्मपती षष्ठाष्टमरिः फगौ प्रसवकाले।
अस्तमितौ मरणकरौ राशिप्रमितैर्वदेद्वर्षैः।।38।।
षष्ठाष्टमगे चन्द्रे लग्ने लग्नाधिपे दिवाजातः।
दृष्टे शुभाशुभखगैः कृष्णेन्द्रौ वाऽपि सोऽल्पायुः।।39।।
लग्नाधिपतिश्चन्द्रो मरणपदस्थो हि कृष्णतां यातः।
राहुयुतो दृष्टो वा निधनं स्यात्सप्तमे वर्षे।।40।।
क्षीणं यदा शशाङ्कं पश्येद्राहुः समागतः क्रूरैः।
जन्मेशेऽस्तमयस्थे निधनं षष्ठाष्टमे वर्षे।।41।।
होराधिपतिर्द्यूने राहयुतो मरणमेव विदधाति।
दिवसैस्त्रिसप्तसंख्यैर्मासे वर्षेऽथवा नियतम्।।42।।
अर्केन्दुयोगराशिः पापयुतो यस्य केन्द्रनवमस्थः।
निधनं कुरुतेऽवश्यं विषजलयोगान्न सन्देहः।।43।।
यस्माष्टमगे पापे लग्नेशे पापसंयुते केन्द्रे।
सौम्ययुतिदृष्टिहीने निधनं स्यात्सप्तमे वर्षे।।44।।
रविणा युक्तः शशिजः सौम्यैर्दृष्टो विनाशयति नूनम्।
एकादशभिर्वर्षैर्देवाङ्केऽपि स्थितं जातम्।।45।।
दानं धेनो रुद्ररोद्रीमुखोनं भाग्यो भानुर्गोत्रजायानखेन।
पुत्री नित्यं मृत्युभागाः क्रमाद्वै मेषादीनां तेषु जातो गतायुः।।46।।
चान्द्रं रूपं लोकशूरो वरज्ञः कुड्ये चित्रं भाग्यलोको मुखानाम्।
मेने राज्यं मृत्युभागाः प्रदिष्टा मेषादीनां वर्णसंख्याभिरिन्दोः।।47।।
मृत्युभागगतश्चन्द्रः पापयुक्तो न सौम्ययुक्।
निधने वाऽपि केन्द्रे वा मात्रा सह विनश्यति।।48।।
लग्नेशो बलयुक्तश्चेत् त्रिकोणे केन्द्रगोऽपि वा।
अरिष्टयोगे जातोऽपि बाला जीवति निश्चयात्।।49।।
बली केन्द्रोपगः सौम्यौ निधनेशविवर्जितः।
अरिष्टयोगनाशाय प्रश्ने वा जननेऽपि वा।।50।।
क्षेत्रे ग्रहस्तनौ वाऽपि सुखभे दशमेऽपि वा।
नार्कयुक्तो बली यस्य योगारिष्टं विनश्यति।।51।।
अनेकारिष्टयोगेषु बालो जीवति यत्नतः।
जातस्य चन्द्रलग्ने तु सर्वग्रहनिरीक्षिते।
नश्यन्त्यरिष्टयोगा हि तमिस्त्रमिव भानुना।।52।।
इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारेऽरिष्टयोगाध्यायः पञ्चमः।।