।।श्रीगणेशाय नमः।।
पृथुयशविरचितम्
होरासारः

निषेकजन्मोऽयायः

अङ्गनाजन्मपीडर्क्षं याते ताराधिपे तथा।
रक्तेक्षिते युते वा स्यादार्तवं गर्भकारणम्।।1।।

बालवृद्धातुरावन्ध्या मुक्त्वा चान्यासु लक्षणम्।
त्रयोदशनिशाः स्नानादृतुकालं प्रचक्षते।।2।।

स्त्रीणामुपचयस्येन्दौ शुभपुंग्रहवीक्षिते।
शुभोदये युग्मरात्रौ निषिञ्चेत्पुत्रधारणम्।।3।।

रवीन्दुशुक्रजीवैर्वा स्वर्क्षे वा स्वांशकोदये।
भौमदृष्टे युते वाऽपि पुंयोगाः स्युरिमे स्मृताः।।4।।

लग्नस्थो वा सुतस्थो वा धर्मस्थो वा बली गुरुः।
प्रोत्तर्क्षे शुभवारे स्याद्वारयेद्गर्भमुत्तमम्।।5।।

लग्नात्मजेशौ संयुक्तावन्योन्यं वाऽपि वीक्षितौ।
क्षेत्रे परस्परस्थौ वा पुत्रयोगा इमे स्मृताः।।6।।

लग्नं मुक्त्वा तु विषमं बलवान् भास्करात्मजः।
स्थितस्तु पुत्रदो ज्ञेयो नान्यग्रहयुतेक्षितः।।7।।

पुंग्रहाः षष्ठलाभस्थाः पञ्चमेशो बली यदा।
सर्वे विषमराशिस्थाः पुत्रयोगा इमे स्मृताः।।8।।

चन्द्रशुक्रौ युतौ वाऽपि पञ्चमे दशमेऽपि वा।
स्वक्षे वास्वांशके वाऽपि स्त्रीयोगाः शास्त्रलक्षिताः।।9।।

राहूदये चन्द्रदृष्टे विपरीतेऽथवा यदि।
चन्द्रहोरागते शुक्रे केन्द्रस्थ वा तथैव च।।10।।

द्व्यङ्गस्थिते बुधे लग्ने दृष्टे वा दशमेऽपि वा।
यमलं कुरुते योगं पुंस्त्रियो राशिसंश्रयात्।।11।।

युग्मर्क्षगौ चन्द्रशुकौ व्द्यंशस्थौ वा बुधोदये।
विषमेष्वारजीवौ वा यमलः स्यान्न संशयः।।12।।

अन्योन्यमभिवीक्षेते चन्द्रादित्यौ दिवा यदि।
बुधमन्दौ तथा रात्रौ षण्डयोगद्वयं भवेत्।।13।।

विबीजिनामिमे योगा निष्फलाश्च भवन्ति हि।
अन्धाश्च नृगुणैर्हीना यथायोगास्तथाविधाः।।14।।

कललं प्रथमे मासि तस्य मासाधिपो भृगुः।
द्वितीये मासि भौमस्तु गर्भः पिङ्गा(ण्डा)क्षबीजवत्।।15।।

गर्भाङ्कुरस्तृतीये स्यात्तस्य मासाधिपो गुरुः।
मञ्जास्थिसम्भवो मासि चतुर्थे भास्करोऽधिपः।।16।।

पञ्चमे मासि सोमस्तु त्वङ्मेदोरक्तसम्भवः।
सर्वाङ्गसम्भवः षष्ठे तस्य मासाधिपः शनिः।।17।।

ज्ञानेन्द्रियप्रवेशस्तु सप्तमे मासि सोमजः।
भवनेशोऽष्टमे मासि क्षुत्तृष्णासम्भ्रमो भवेत्।।18।।

उद्वेगो गर्भसंस्थस्य मासीशो नवमे शशी।
प्रसूतिर्दशमे मासि मासेशो भास्करः स्मृतः।।19।।

मासलक्षणयुक्तश्चेद्गर्भः सुखमवाप्नुयात्।
ऊनाधिकगुणांस्तस्य ज्ञात्वा प्रसवमादिशेत्।।20।।

यस्य मासाधिपो रक्तो भग्नो वाऽस्तंगतोऽपि वा।
तस्मिन् मासे क्षयं याति प्रसवो न भविष्यति।।21।।

गर्भाधाने चरे राशौ दशमे मासि सूयते।
स्थिरे चैकादशे मासि ह्युभये द्वादशो सवः।।22।।

निषेककाले यत्प्रोक्तं फलं प्रश्ने तदादिशेत्।
गर्भप्रश्ने च नारीणामारूढे विषमर्क्षगे।।23।।

पुंग्रहेण युते दृष्टे गर्भस्थः पुरुषो भवेत्।
पुंराशिस्पर्शने देहे पुमान् भवति निश्चयात्।।24।।

पुरुषस्पर्शने प्रष्टा पुरुषाक्षरमुच्चरेत्।
देहस्य दक्षिणे भागे स्पर्शनेन पुमान् भवेत्।।25।।

अन्यथा स्त्रीप्रसूतिः स्यात् स्त्रीग्रहेण युतेक्षितात्।

लग्नेन्द्वोर्यो बलवांस्तस्‍य द्विरसांशकान्वितो राशिः।
यावांस्तस्मात्तावति परता राशौ विधौ स्थिते प्रसवः।।26।।

तत्कालेन्दुनवांशाज्जामित्रे शीतगौ स्थिते सूतिः।
उदयनवांशाधिपतेः क्षेत्रे याते विधौ तदा प्रसवः।।27।।

रात्रिदिनराशिभान् भुक्त्वा तावद्गते दिवारात्रौ।
हिबुकेशे बलयुक्ते शुभयोगे वा सुखी गर्भः।।28।।

इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे निषेकजन्माध्यायश्चतुर्थः।।