उदगयने स्वक्षेत्रे स्वोच्चे स्वांशत्रिभागहोरासु।
स्वदिने बलवान् भानुर्मित्रक्षेत्रेषु मध्यबलः।।1।।
राशिप्रमुखे भानुर्बलवान् मध्याश्रितस्तु मध्यबलः।
राश्यन्ते बलहीनः सन्ध्यायां ग्रस्तकाले च।।2।।
चन्द्रो वृषभं यातो दक्षिणमार्गे स्वभे स्वहोरायाम्।
रात्रौ स्वांशे स्वदिने स्वद्रेक्काणे बलान्वितः प्रोक्तः।।3।।
प्रतिपत्पूर्वदशाहे मध्यबलः शीतगुः सिते पक्षे।
श्रेष्ठो द्वितीयदशके स्वल्पबलश्चन्द्रमास्तृतीये च।।4।।
उत्तरपथं प्रयातः प्रदक्षिणं वा ग्रहाणां च।
सौम्ययुतो दृष्टो वा सर्वग्रहवीक्षितो बली चन्द्रः।।5।।
अबलः प्रवेशकाले मध्यबलो मध्यमाश्रितश्चन्द्रः।
राश्यन्ते बलयुक्तः पूर्णः स्थानेषु सर्वेषु।।6।।
निर्जितशत्रुर्वक्रस्तेजस्वी मकरकुम्भमीनेषु।
याम्यायने च बलवान् रात्रौ च धरासुतः प्रोक्तः।।7।।
स्वांशे क्षेत्रे स्वदिने स्वेद्रेक्काणे बलान्वितो भौमः।
दशमर्क्षस्थो बलवान् समस्तराशौ तु विज्ञेयः।।8।।
आदावतिबलयुक्तो हीनबलो मध्यमाश्रितो रक्तः।
भवनानामवसाने मध्यबलश्चैव विज्ञेयः।।9।।
रविमुक्तश्चापगतः क्षेत्राद्यंशं गतो बली सौम्यः।
रात्रौ दिवा च बलवान् वक्रो बलवान् विनार्कयुतिम्।।10।।
राशिमुखे मध्यबलः सम्पूर्णबलश्च मध्यसंयातः।
राश्यन्ते बलहीना द्रेक्काणे मिथुनभे न बलयुक्तः।।11।।
जीवः स्वक्षेत्रगतः कर्कटराशौ च वृश्चिके नियतम्।
उदयगयने पूर्वाह्णे द्रेक्काणनवांशके जयी बलवान्।।12।।
राशिमुखे मध्यबलः सम्पूर्णबलश्च मध्यमं यातः।
राश्यन्ते बलहीनो वक्रो बलवान् नीचराशौ स्यात्।।13।।
त्रिकषट्कमण्डलगतो वक्रो भानोः पुरः सरं यातः।
स्वगृहोच्चगोत्तरस्थः शुक्रो बलवान् दिनापगर्धे च।।14।।
राश्यादौ बलहीनो मध्ये बलवान् विनिर्गमे मध्यः।
चन्द्रसमागमकाले युद्धेष्वेवं विजयी स्यात्।।15।।
कृष्णे निशि वक्रगतः स्वगृहतुलादक्षिणायनगतश्च।
उद्येश्च मन्दगामी निर्जितशत्रुश्च विज्ञेयः।।16।।
मन्दोऽबलः प्रवेशे मध्येऽल्पबलो बली गमनकाले।
सर्वस्थानेषु शनिर्बलान्वितं केचिदिच्छन्ति।।17।।
वृषमेषालिकुलीरे घटराशिसमन्विते बली राहुः।
चन्द्रार्कयोगकाले परिवेषे राशिनिर्गमे बलवान्।।18।।
चापापरार्द्धमीने कन्यावृषयोर्बलान्वितः केतुः।
केतोर्दर्शनकाले शक्रधनुर्दर्शने च रात्रौ च।।19।।
चापाजसिंहमीनेष्वर्को लग्नाश्रितो बली भवति।
तेष्वेव कर्मराशौ विज्ञेयोऽन्यत्र बलहीनः।।20।।
प्रालेयांशुर्मिथुने कन्यायां चापि लग्नगो बलवान्।
मीने हयपूर्वार्द्धे जामित्रगतश्च बलयुक्तः।।21।।
वृषराशिसंनिविष्ठश्चापार्धे पश्चिमे च कर्मस्थः।
कर्कटकमिथुनयोरपि चन्द्रः पातालमाश्रितो बलवान्।।22।।
प्राग्लग्ने क्षितिसूनुर्बलान्वितः कुम्भराशिना सार्द्धम्।
कर्कटवृश्चिकयोरपि पत्नीस्थानं समाश्रितो बलवान्।।23।।
मृगपूर्वार्द्धे मिथुने कर्मणि चापार्द्धके सपाताले।
निरुपहतवर्णवीर्यो बलान्वितः स्वत्रिकोणे च।।24।।
मृगसिंहकर्किवृश्चिकलग्नस्थः स्वांशके बली सौम्यः।
पातालस्थश्चापे वृषभेऽस्तमये झषे च कर्मस्थः।।25।।
सिंहवृषाजधनुर्द्धरवृश्चिकमीनेषु लग्नगो बलवान्।
कर्माणि पातालगतो बलवाञ्जीवोऽबलोऽन्यत्र।।26।।
सिंहाजकुम्भकौर्पिषु लग्नस्थो भार्गवः स्वराशौ च।
बलवांश्चापान्त्यगतो वृश्चिकराशौ च पत्नीस्थः।।27।।
हयपूर्वार्द्धे मीने हरिवृश्चिकयोस्तु कर्मदेशस्थः।
बलवान् सितो जितारिर्मृगपश्चार्द्धे च हिबुकस्थः।।28।।
कुम्भे तुलाधरे च प्राच्यां हिबुके च सूर्यजो बलवान्।
मेषूरणे च सिंहे पृष्ठोदयवर्जितेऽस्तमये।।29।।
लग्नस्थौ बुधजीवौ कर्मणि सूर्यारकौ च दिग्बलिनौ।
हिबुके भृगुचन्द्रमसावस्तमये सूर्यनन्दनश्चापि।।30।।
आपोक्लिबेष्ववीर्या मध्यबलाः फणपराश्रिताः सर्वे।
केन्द्राश्रिताश्च बलिनः सदा ग्रहाः कीर्तिता यवनैः।।31।।
सौराद् द्विगुणो भौमो बलवान् भौमाच्चतुर्गुणः सौम्यः।
जीवोऽष्टगुणः सौम्याञ्जीवादष्टाधिको भृगुर्बलवान।।32।।
शुक्राद्धि षोडशबलश्चन्द्रो भानुस्ततोऽधिको द्विगुणः।
तद्वद् द्विगुणः सर्वेषां राहुर्बलवान् निसर्गतश्च।।33।।
चन्द्रार्कौ बलयुक्तौ कुजादयः प्रोक्तमागबलहीनाः।
शुभफलदास्ते सर्वे दशासु योगेषु संचिन्त्याः।।34।।
भानामवस्थानगताः क्रमेण मन्दार्यभौमार्कसितज्ञचन्द्राः।
तेषामधः स्थानगतो बलीयान् राहुर्महीमण्डलमूर्धसंस्थः।।35।।
प्रोक्ताप्रकारैः प्रबलान्विता ये प्रौढ्याश्रितास्ते ह्यबला भवन्ति।
भावेपु योगुषे दशाफलेषु न सम्यगुक्तानि फलानि सन्ति।।36।।
सौम्यग्रहैर्बलयुतैः सुभगास्तेजस्विनः सुरूपाश्च।
सौम्याद्बलिभिः पापैर्मूर्खाः पापाः प्रजायन्ते।।37।।
इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे बालनिरूपणाध्यायस्तृतीयः।।