।।श्रीगणेशाय नमः।।
पृथुयशविरचितम्
होरासारः

जातकलक्षणोऽध्यायः
जातकलक्षणोऽध्यायः
अथ जातकलक्षणम्

एकान्ते जनरहिते शुद्धे देशे सुखासने भूत्वा।

प्रणिपत्य स्वाचार्यं विघ्नेशं च ग्रहान् सर्वान्।।1।।

मौनी मान्यमतिः सन् सूर्याभिमुखोऽभिविश्य दैवज्ञः।

अथ शकुनादीन् सम्यक्परीक्ष्य यत्नाञ्च सिद्धसेनोक्तान्।।2।।

शस्त्राभिघातकलहप्रपातदुःखानि दुर्निमित्ताद्याः।

जायन्ते गणितादौ मरणवियोगार्थनाशसूचनदाः।।3।।

कृकलासोरगगोधाकपालनग्नादिदर्शनं नेष्टम्।

तेषां कथाप्रलापैरनर्थमायान्तमीरयेन्न्नम्।।4।।

वामे रुतं तु गौल्याः क्षुतं च वामेतरस्थले न शुभे।

जम्बुकमहिषपशूनां स्वरश्च तद्वत् समीपतो मृत्युः।।5।।

वाक्प्रश्नपरिज्ञानं शुभाशुभं तत्र चिन्तयेन्मतिमान्।

वर्षद्वयादधस्तात् पूर्वोक्तफलं समादिशेत्तज्ज्ञः।।6।।

कर्तुर्वयः प्रमाणं मासं नक्षत्रलग्नहोराद्यम्।

गतकलिदिवसान् ज्ञात्वा ग्रहचारं प्रारभेत पुण्यतिथौ।।7।।

मृदुशीघ्रवक्रकाले मूढोदययुद्धकालभेदेषु।

पैतामहवरगणिताद्धृयो भूयोऽवधानतो गणयेत्।।8।।

अतिसूक्ष्मतरं ज्ञात्वा गतिं ग्रहणामनेन चारक्षः।

द्रेक्काणनवमभागद्वादशस्वगुणांशकादींश्च।।9।।

प्राक्फलदावर्ककुजौ बुधगुरुमन्दास्तु पृष्ठफलदाः स्युः।

उदयफलं शीतांशोः शुक्रस्य फलं गतिसमानम्।।10।।

वक्रानुवक्रकाले भृगुचारो ज्ञातुमेव न च शक्यः।

तस्माब्दहुप्रकारैर्गणितविशेषैश्च चिन्तयेत्तज्ज्ञः।।11।।

इष्टं स्फुटं  दिविचरं नवभिर्गुणयेद्विशेषयेत् क्रमशः।

मण्डलहृतावशिष्टं तस्यैवांशस्फुटं समानं तत्।।12।।

इष्टः स्फुटश्च खचरो द्वादशगुणितः स्फुटेन संयुक्तः।

मण्डलहृतावशिष्टो ज्ञेयो राश्यंशकस्फुटः सुविधा।।13।।

एकादशांशभानुस्फुटयोगफलं निशाकरे योज्यम्।

चतुरंशं शेषांणामेवं कुर्याद्धनक्षयं तुल्यम्।।14।।

शुक्रज्ञयोर्द्वि‍गुणितं भानुस्फुटवद्धनक्षयं कुर्यात्।

गूढोदयवक्रेषु च कृर्यादेवं तयोस्त नान्यत्र।।15।।

रक्तसुमाक्षतगन्धैः संपूज्य दिवाकरं नमस्कृत्य।

प्रष्टा स्वशक्तिविभवैर्दैवज्ञं पूजयेद्ग्रहान् ध्यात्वा।।16।।

आयुः प्रमाणमस्मिन् गतागतं वर्तमानशुभशुभम्।

एतत्सर्वं श्रोतुं  भवत्प्रसादात् प्रयोगमिच्छामि।।17।।

प्रारभ्य सन्मुहूर्ते सुचन्द्रताराबलान्विते प्रष्टुः।

जातमखिलं च विलिखेन्नान्यमनाः स्वायुरादिकं प्रष्टुः।।18।।

फलदं ज्योतिश्चक्रं ग्रहक्षचारस्तथैव गुणकारः।

दैवज्ञः कालनरश्चैवं संभावयेन्नरश्रेष्ठः।।19।।

पृथुविरचितमन्यैः शास्त्रमेतत्समस्तं 

            तदनुलघुमयेदं तत्प्रदिष्टार्थमेव।

कृतमिह हि समर्थं धीविषाणामलत्वे 

            मम यदि न सदुक्तं सञ्जनैः क्षम्यतां तत्।।20।।

होराशास्त्रसमुद्रं प्रमथ्य धीमन्दराद्रिणा सम्यक्।

लोकस्यालोककरः शास्त्रशशाङ्कः समुत्क्षिप्तः।।21।।


इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे जातकलक्षणाध्यायोऽद्वात्रिंशः।।