भानोस्तंशशिनो नटः सनिधरापुत्रस्य रोहोर्दया
तापोदेवगुरोर्धयाननशनेः सायं विदो वत्सराः।
केतोः सानिभृगोर्नस्वाश्च कथितास्त्वाग्नेयनक्षत्रका-
द्भानामर्यमदैवताश्च खचरा विश्वर्क्षतः स्वामिनः।।1।।
स्वजन्मनक्षत्रविलग्नो वा ब्रूयात्क्रमेणैव दशाफलानि।
दशावसानेष्वशुभं च सर्वे कुर्वन्ति सामान्यमिदं नराणाम्।।2।।
आदित्यभौमशनिराहुशावसाने
रोगार्थनाशकलहास्त्वशुभानि सन्ति।
पापग्रहेण सहितस्य दशावसाने
मृत्युं वदेन्निधनसंस्थितखेचरस्य।।3।।
पापग्रहान्वितर्क्षस्य दशायां क्लेशमाप्नुयात्।
यावद्गते दशेशर्क्षे तत्फलं तत्र निर्दिशेत्।।4।।
त्रिमण्डलेष्वथैकस्मिन् पापस्तिष्ठति दुर्बलः।
सौम्यग्रहयुतो न स्याद्दशान्ते मृत्युमाप्नुयात्।।5।।
राशिसन्धौ स्थिते काले व्याधिं तत्र विनिर्दिशेत्।
त्रिंशद्भागमनुक्रान्ते दशान्ते मृत्युमाप्नुयात्।।6।।
जन्मतश्चोर्ध्वनाडीभिर्वर्धयेत्तन्महादशाम्।
षष्ट्याहृतं फलं वर्षं शेषं मासादिकल्पयेत्।।7।।
तस्मात्क्रमेण संयोज्य दशाप्रोक्तफलं वदेत्।
वर्तमानदशास्थाप्या चेष्टग्रहदशाहता।।8।।
प्रमाणभक्ता यल्लब्धं दशास्वन्तर्दशा भवेत्।
अन्तर्दशाफलं प्रोक्तं पूर्वमेवात्र निर्दिशेत्।।9।।
अङ्गारकफलं केतो राहोरप्यर्कजस्य वै।
शेषं समानमित्युक्तं शुभाशुभफलं वदेत्।।10।।
नक्षत्रजातकं प्रोक्तं सर्वेषां संमतं नृणाम्।
अतिसूक्ष्मतरं ज्ञात्वा दशाफलमुदीरयेत्।।11।।
अन्तर्दशाधिपक्षेत्रे वर्तते भास्करो यदा।
तस्मिन् काले दशाप्रोक्तफलं भवति निश्चितम्।।12।।
लग्नेन्द्वोर्बलवान्यो वा तस्मात्प्रभृति चिन्तयेत्।
प्रोक्तं क्रमेण संयोज्य फलं ब्रूयाद्विचक्षणः।।13।।
इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे नक्षत्रजातकफलाध्याय एकत्रिंशः।।