हिंस्रोऽल्पमतिः कुष्ठी चोरो विकलेक्षणो नशान्तमतिः।
पित्तप्रकृतिः कामी मेषांशे जायते मनुजः।।1।।
द्वादशे पञ्चविंशेऽब्दे पञ्चाशे पञ्चवष्टिके।
अंशारिष्टं विजानीयाद्रोगमेवात्र निर्दिशेत्।।2।।
वृषभांशके तुजातो मतिमान् भोक्ता पृथूदरो बलवान्।
दीर्घास्यो विकृतगतिश्चपलेक्षणो दारिकाबहुत्वयुतः।।3।।
द्वाविंशे दशमे वर्षे द्वात्रिंशे वा द्विसप्ततौ।
अरिष्टस्थानमेतेषु निर्दिशेद्रोगमेव वा।।4।।
कान्तश्चपलो वाग्मी शास्त्रज्ञो भोगवान् विनीतश्च।
स्त्रीचञ्चलोऽतिमेधो मिथुनांशे जायते नरोऽदारः।।5।।
षोडशे च चतुर्विंशे चतुर्स्त्रिंशे त्रिषष्टिके।
मृत्युस्थानं विनिर्दिष्टं चत्वारिंशे तथापि वा।।6।।
क्रोधी विषमितगात्रो धनवान् कुटिलेक्षणो विदेशरतः।
बन्धूनां हितकारी स्वजनोद्रिक्तः कुलीरभांशे तु।।7।।
अष्टादशेऽष्टमे वर्षे द्वाविंशे चैकविंशके।
द्विसप्ततावशीतौ च मृत्युस्थानमुशन्ति हि।।8।।
विजनस्थितोऽतिमानी कृशोदरो लोकसर्वज्ञः।
दुर्बलदन्तो बलवान् सिंहांशे जायते मनोदुःखी।।9।।
विंशेऽब्दे दशमेवाऽथ त्रिंशे वर्षेऽथ षष्टिके।
व्द्यशीतावंशकारिष्टं विशेषेण विनिर्दिशेत्।।10।।
बाल्ये सुखी कलाज्ञः क्लीबो जारोऽल्पपुत्रवान् सुभगः।
परकार्यरतो दाता कन्यांशे जायते विदेशरतः।।11।।
षष्ट्यां विंशे वर्षे पञ्चाशे वाऽत्र संशयो भवति।
जीवति साष्टशताब्दं विवर्धमानो धनैरेषः।।12।।
प्रचलितनिवासबुद्धिः कृशगात्रो नातिपुत्रवान् कृपणः।
बन्धुद्विट्कफरोगी निःस्वप्रायस्तुलांशके जातः।।13।।
तृतीयेऽब्दे त्रयोविंशे द्विगुणे सप्तविंशके।
अष्टत्रिंशे च षट्सप्तत्यब्देऽरिष्टं विनिर्दिशेत्।।14।।
गुरुजनरहितो हिंस्रो मेधावी नेत्रदुर्बलः क्रूरः।
प्रच्छन्नपापशीलो दीर्घो लम्बोदरश्च कौर्प्यंशे।।15।।
अष्टादशे त्रयोविंशेष्यष्टाविंशे त्रयोदशे।
सप्ततौ पञ्चपञ्चाशे प्रोक्तस्थानेषु संशयः।।16।।
स्वार्जितधनी गुणाढ्यो दीर्घग्रीवोऽलसोऽल्पसंतुष्टः।
पृथुनासिकोऽतिभाषी धन्व्यंशे जायते धनाधिपतिः।।17।।
वसुद्वये वा नवमे चतुर्थे रवित्रये तद्द्विगुणोऽथवाब्दे।
प्राणात्ययं रोगमुशन्ति तेषु द्वाविंशयुग्मे परिवत्सरे वा।।18।।
ह्रस्वाङ्गश्चलचित्तो हिंस्रो लघुविक्रमो महाभोगी।
स्त्रीदुर्भनोऽनिलात्मा मकरांशे शत्रुसंज्ञतो भवति।।19।।
एकोनविंशे खलु सप्तविंशे चाब्दे चतुस्त्रिंशकसप्तवर्गे।
वर्षे ममाने द्विगुणेऽष्टषट्यामरिष्टमाहुर्युनयो मृगांशे।।20।।
पिशुनो दयाविहीनो मायावी दुर्बलश्चलो दीर्घः।
अटनो व्ययार्थनिरतो जातः कुंभांशके मनोदुःखी।।21।।
चतुर्दशे च विंशेऽष्टाविंशे द्वात्रिंशके क्रमात्।
एकषष्टिमिते चाब्दे संशयः सप्तवार्धिषु।।22।।
स्त्रीलोलः कृशगात्रो जलोपजीवी झषोदरो विद्वान्।
परगृहवासी वसुमाननेकभार्यान्वितश्च मीनांशे।।23।।
दशमे द्वादशे चैकविंशे षड्विंशके क्रमात्।
द्विपञ्चाशे चैकषष्ट्यां मृत्युस्थानमुदीरितम्।।24।।
एकोनषष्टिद्वात्रिंशदष्टमाब्देषु सूरयः।
सामान्यमेषु मर्स्वानां क्लेशस्थानहुशन्ति हि।।25।।
दारुणान्तर्दशाकाले राशिरिष्टसमन्विते।
मरणं तस्य जानीयदन्यथा रोगमाप्नुयात्।।26।।
राशिवद्नवांशांशेषु फलं ब्रूयाद्विवचक्षणः।
वर्गोत्तमांशकस्थेषु तत्तद्द्विगुणमादिशेत्।।27।।
इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे नवांशफलाध्यायस्त्रिंशः।।