वृत्ताक्षो जनवल्लमोऽतिचपलो गोमान् व्यतार्तोटनो
वाचालो लघुभोजनः कुटिलगो ज्ञानी सभापूजितः।
पित्तात्मा वनितादृतोऽल्पनयः क्रोधी स्वशौर्यान्वितो
मेषेत्थः सहजाग्रजोऽतिकृपणः क्लेशान्वितो बन्धुभिः।।1।।
उद्धृत्तो बलवान् पृथूरुवदनो भोगी सुखी ज्ञानवान्
आसीनो गिरिकन्दरेषु निपुणो नानार्थवागीश्वरः।
पूर्वोत्थैः सुतबन्धुभिर्विरहितः कन्याप्रजावान् क्षमी
मध्यान्त्ये सुखवान् वृषोत्थमनुजो दारप्रयो दीप्तिमान्।।2।।
कन्दर्पप्रतिमो विशालवदनो विस्पष्टवागस्थिरो
क्लीबो वा मदनातुरोऽल्पतनयः सद्यूतगानप्रियः।
बन्धुद्विटे कफमारुतात्महृदयो दारप्रियो दानवान्
हास्यज्ञो मिथुनेऽन्नपाननिरतो जातः प्रतापी पटुः।।3।।
मेधावी गुणवान् स्वबन्धुविजयी वाताग्निमानार्दितो
वाचालो दृढविग्रहोऽतिबलवानल्पात्मजो नैकगः।
दैवज्ञस्त्वरितः सुखी क्षयधनो गूढात्मजो ज्ञानवा-
नैकाकी बहुवाक् कुलीरभवने जातोऽर्थवान् भूपतेः।।4।।
गाम्भीर्योन्नतिमान् विशालवदनो धीधर्मभोगान्वितो
मायावी सुमुखी कृपालुरभयोऽकार्ये चिरं कुप्यति।
क्षुत्क्षामः स्वबलान्वितोऽतिविभवो मातृप्रियो नैष्ठिको
विक्रान्तो विजनोऽस्थिरोऽल्पतनयः सिंहे प्रसूतो नरः।।5।।
कन्यायां मलिनोऽल्पसौख्यविभवो जातः सुधी धार्मिको
बन्धुद्विट् सुखवान् कफानिलयुतः कन्याप्रजोऽल्पात्मजः।
मुग्धास्यो युवतिप्रियोऽतिचपलो बन्धुप्रियो ज्ञानवान्
दीर्घायुः प्रियमाषणोऽर्थनिरतः स्वन्तोऽन्यमाध्ये रतः।।6।।
धर्मात्मा गुणवान् विशालहृदयो मन्दस्मितो दारवान्
क्लेशात्मा क्रयविक्रयेषु कुशलो हास्यप्रियो ज्ञानवान्।
बन्धूनां हितकृत्सुतैर्विरहितः स्थूलेतरो वा धनी
देवाख्यो द्रवभोजनोऽन्त्यतनयो जातस्तुलायां भवेत्।।7।।
मध्वाक्षो विगुरुर्विवादकुशलो दीर्घाननो दारुणो
नस्वन्तो मनुजेश्वरास्य दयितो रोगी च बाल्ये सदा।
क्षीणायुः परबन्धुमान् कवनधीर्धर्मध्वजो वीर्यवा-
मासस्यश्रमपीडितोऽलिभवने जातोऽल्पजातिप्रियः।।8।।
दीर्घास्यः सुमुखी विपक्षबहुलः श्यामेक्षणः शास्त्रविद्
दान्तः क्षीणधनो व्ययव्यतिकरः पौत्रीसुतद्वेषणः।
विद्वद्भिः प्रतिपूजितः स्ववशगो मानी गुणी वीर्यवा-
नत्यायुः कृपणो नदारतनयः स्याद्धन्विजातो नरः।।9।।
ह्रस्वाङ्गो निपुणः प्रतापबहुलो मध्येऽर्थहीनोऽटनो
दीर्घाध्वा चपलो दुराशयगतिः क्लेशैश्च संपीडितः।
सत्वाढ्यो जनवल्लभो विचलितज्ञानेन्द्रियः स्त्रीमतिः
पुत्रार्तोऽनिलवांश्च वृद्धवनिताप्रेमान्वितो नक्रजः।।10।।
दीर्घाङ्गो घटजो घटाकृतितनुः प्रच्छन्नपापे रतो
वाचालो बहुपुत्रवानिह सुखी पूर्वार्थहीनोऽटनः।
सद्द्वेष्यो बधिरो रुगार्तहृदयः सेर्ष्योऽलसात्मा शठः
कामी व्यग्रमतिः स्वकर्मवचनैः क्लेशी परार्थान्वितः।।11।।
चार्वङ्गो बलवानदीनवचनो रोगी प्रवासी सदा
स्त्रीजेता बहुदारकोऽति च पलो ज्ञानी सभापूजितः।
विक्ष्यातो बहुदारवान्नृपधनी मीनोत्थितः स्यान्नरो
हीनाङ्गो रिपुनिर्जितोऽतिनिपुणो दारप्रियो भोगवान्।।12।।
ग्रहयुतिदृष्टिविहीनो राशिस्तत्प्रोक्तलक्षणं कुरुते।
ग्रहयोगेक्षणयुक्ते ग्रहस्वभावः फलं च वक्तव्यम्।।13।।
इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे राशिफलाध्यायएकोनत्रिंशः।।