भौमसितज्ञेन्द्वर्का बुधभृगुभौमार्यमन्दशनिगुरवः।
मेषादीनामीशा राशीनांमशकानां च।।1।।
अर्केन्दू होरेशौ विषमे समभे निशाकारोष्णांशू।
मेषवृषमिथुनकटकाः प्राच्यादीशास्त्रिकोणसंयुक्ताः।।2।।
अर्कादीनामुच्चाः क्रियवृषमृगयुवतिकर्किमीनतुलाः।
दशशिख्यष्टाविंशतितिथिशरनक्षत्रविंशतिभिरंशैः।।3।।
अत्युच्चराशिभागाः सूर्यादीनां क्रमेण निर्दिष्टाः।
स्वोच्चात्सप्तमराशिर्नीचः स्यादंशकात्परमः।।4।।
कन्यायामुच्चांशाद्बुधस्य परतस्त्रिकोणसंज्ञं च।
विंशतिभागादूर्ध्वं क्षेत्रं त्रिविधं तु विज्ञेयम्।।5।।
उच्चं भागत्रितयं वृष इन्दोस्तु त्रिकोणमपरेंऽशाः।
जूके त्रिकोणभवनं विंशतिभागैः परं भृगोः क्षेत्रम्।।6।।
विंशतिरंशाः सिंहे त्रिकोणमपरे स्वभवनमर्कस्य।
कुम्भे त्रिकोणनिजभे रविजस्य रवेर्यथा सिंहे।।7।।
मेषे द्वादशभगैस्त्रिकोणमपरे स्वभवनमारस्य।
आदौ धनुषि शरांशैस्त्रिकोणमपरे स्वभवनमिन्द्रगुरौः।।8।।
स्वस्वत्रिकोणभवनादुपचयजामित्रभवनानि।
स्वोच्चं क्षेत्रं हित्वा तेषामीशास्तु शत्रवो ज्ञेयाः।।9।।
अन्येषां राशीनामीशान् सुहृदः प्रचिन्तयेन्मतिमान्।
शत्रुसुहृद्भवनेशा मध्यास्त्रिविधा ग्रहाः प्रोक्ताः।।10।।
अन्योन्यमायसहजव्ययधनबन्ध्वास्पदस्थिताः सुहृदः।
तात्कालिकास्त्वमित्राः शेषेषु गृहेषु चेत्कल्प्याः।।11।।
रविशुक्रभौमसर्पाः सौरेन्दू सौम्यवाक्पती क्रमशः।
प्राच्यादीनां नाथा बलान्विताः सर्वकालेषु।।12।।
जामित्रं चतुरश्रं त्रिकोणमाज्ञां तृतीयमेतानि।
स्वस्थानाद्वीक्षन्ते ग्रहाः क्रमेणैव बोद्धव्याः।।13।।
सम्पूर्णं पादोनं रूपार्धं पादमेव किरणाः स्युः।
विंशतिरष्टौ दशदशरविमनवः षोडशैव किरणानाम्।।14।।
सूर्यादीनां संख्या राशीनामीश्वरोक्तकिरणाः स्युः।
रविगुरुभौमाः पुरुषा: स्त्रियस्तथा राहुभार्गवशशाङ्का।।15।।
मृत्युसुतनीलसौम्या नपुंसकाश्चेति विज्ञेयाः।
शुक्रगुरू विप्रेशौ रविभौमो क्षत्रियौ च विट् चन्द्रः।।।16।।
अन्तरजातिः सौम्यो वृषलो मन्दोऽन्त्यजातिरिन्दुरिपुः।
राहुशनिकेतुभौमाः क्रूराः पापो रविः शशी कृष्णः।।17।।
बुधगुरुशुक्राः सौम्याः शुक्लः सौम्यः शशी ज्ञेयः।
शुक्रबुधौ राजसिकौ गुरुशशिरवयस्तु सात्विका ज्ञेयाः।।18।।
भौमशनिसैहिकेयास्तमोगुणाः सर्वकार्येषु।
पित्ताधिको रविकुजौ वातश्लेष्माधिकौ तु चन्द्रसितौ।।19।।
वाताधिकोऽर्कपुत्रः शशिजो मिश्रश्च समुदीर्णः।
रक्तश्यामो भानुश्चन्द्रो गौरः कुजोऽतिरक्तश्च।।20।।
दूर्वाकारः सौम्यो हिरण्यवर्णो गुरुः स्वभावेन।
सितवर्णो भृगुसूनुर्नीलनिभो भास्करिः शिखी धूम्रः।।21।।
बहुवर्णोऽसितसूनुस्त्वपरो नीलाञ्जनोपमो राहुः।
सौम्योऽपि राशिवर्णो ग्रहयोगे तद्ग्रहोक्तवर्णगुणः।।22।।
स्वांशक्षेत्रगतो वा ग्रहयोगविवर्जितो निजोक्तगुणः।
अन्यर्क्षग्रहयुक्तस्तद्ग्रहतद्वर्णमिश्रनिजवर्णः।।23।।
चतुरश्राङ्गः सविता पिङ्गाक्षो नातिरोमकेशतनुः।
अस्थिरवासोऽप्यलसो दुर्बलजानुः प्रसन्नमुखवचनः।।24।।
दीर्घो मृदुस्वभावश्चन्द्रो मतिमान् घृणौ नयज्ञश्च।
वातश्लेष्मप्रकृतिः शुक्लाम्बरभूषणः सुवृत्ततनुः।।25।।
चपलो विघातकुशलो रक्ताक्षः पैत्तिकोऽग्निशस्त्राङ्कः।
विकृतस्वरोऽतिशौर्यः कृशोदरोऽङ्गारको विनीतश्च।।26।।
श्यामेक्षणो नयज्ञो मध्याकारः स्थिरास्थिरोहृष्टः।
बहुवार्त्तान्वितहास्यो विद्वान् सौम्यस्त्रिदोषसंयुक्तः।।27।।
स्थूलात्मा दीर्घतनुर्मध्याक्षो बुद्धिमान् नयज्ञश्च।
श्लेष्माधिकोऽतिवाग्मी पीतान्बरभूषणो गुरुः श्रेष्ठः।।28।।
कान्तः सुभगः शुक्रो वातश्लेष्माधिको विशालमतिः।
स्थूलवपुः स्त्रीवशगो विकटाक्षो वञ्चनस्वभावरतः।।29।।
स्थूलनखदन्तकेशो मायावी दीर्घबाहुपादश्च।
वातात्मकः सिरालुर्मन्दोऽप्यलसो न शान्तमतिः।।30।।
बालाकारो भौमः कुमारवेषो बुधो गुरोस्त्रिंशत्।
शुक्रः षोडशवर्षः पञ्चाशद्वर्षको रविज्ञेयः।।31।।
शशिनः सप्ततिवर्षाण्यशीतिरार्केः शतं तु राहोः स्युः।
येषां प्रसूतिकाले बलान्वितो यो ग्रहो विशेषेण।।32।।
तस्य स्वभावरूपं जनने नॄणां सदा चिन्त्यम्।
आदित्योऽको रविर्भानुर्भास्करश्च दिवाकरः।।33।।
मार्तण्डः सविता सूर्यस्तीक्ष्णांशुः स्यादिनो रविः।
चन्द्रः शशी शशाङ्कश्च विधुः सोमो निशाकरः।।34।।
शीतांशुरुडुनाथः स्यादिन्दुश्चन्द्रमसो विदुः।
आरो वक्रो महीजश्च रूधिरो रक्त एव च।।35।।
अङ्गारक इति ख्यातः क्रूरदृक्तुल्यवाचकः।
सौम्यो विद् ज्ञो बुधश्चेति सोमजो बोधनस्तथा।।36।।
एते सौम्यस्य पर्यायाः कुमारश्च विधोः सुतः।
जीवोऽङ्गिराः सुरगुरुर्मन्त्री वाचस्पतिस्तथा।।37।।
आर्यो बृहस्पतिः सूरिर्वागीशः सदृशार्थकः।
शुक्रो भृगुर्भृगुसुत आस्फुजिच्च सितस्तथा।।38।।
उशना दैत्यपूज्यश्च काव्यः कविरिति स्मृतः।
कोणे मन्द: शनिः कृष्णः सूर्यपुत्रो यमस्तथा।।39।।
पङ्गुः शनैश्चरः सौरि: कालश्छायासुतः समः।
राहुस्तमोऽसुरोऽगुश्च स्वर्भानुश्च विधुन्तुदः।।40।।
पातश्च सैहिकेश्च भुजङ्गोऽहिश्च ते समाः।
शिखी केतुर्ध्वजो धूमो मृत्युपुत्रोऽनलस्तथा।।41।।
सामान्येतानि सर्वेषां ग्रहाणां च विदुर्बुधाः।।42।।
इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे ग्रहलक्षणाध्यायो द्वितीयः।।