।।श्रीगणेशाय नमः।।
पृथुयशविरचितम्
होरासारः

नक्षत्रफलोऽध्यायः
नक्षत्रफलाध्यायः
अथाश्विन्यादि नक्षत्रशीलानि

प्रज्ञो धृतिमान् दक्षः स्वधर्मनिरतः कुलाधिको मानी।

लघुभोजनोऽतिमान्यो मध्यः स्यादाश्विनीमनुजः।।1।।

शान्तात्मा चलचित्तः स्त्रीलोलो भ्रातृवल्लभो मानी।

धीरो मित्रसहायश्चिरजीवी नातिपुत्रवान्याम्ये।।2।।

भ्रान्तिविहीनो बलवांश्चपलोऽनैकाशनोऽतितेजस्वी।

सत्यपरो बहुनिलयो बहुप्रलापी च जायतेऽनलभे।।3।।

ऊर्ध्‍वङ्गरोमबहुलो गणेश्वरो वक्त्रपार्श्वपृष्टाङ्कः।

कुहको मातुरनिष्टो रोहिण्यां जायते धनी विद्वान्।।4।।

चपलो विशालदेहो रोगी बाल्ये प्रमादबहुलः स्यात्।

उत्साही चलचित्तो बहुशत्रुः क्लेशवांश्चान्द्रे।।5।।

चलचित्त: शठवाक्यः परखहारी विकत्थनो मानी।

अल्पसुतश्चिरजीवी राजद्रव्यान्वितश्च रौद्रर्क्ष।।6।।

दाता सुखी सुशीलो दुर्मेधा रोगभोक् पिपासुश्च।

अल्पेन च संतुष्टः पुनर्वसौ जायतेऽल्पबुद्धिश्च।।7।।

तीव्रः क्रोधी मतिमान् धृष्टो वाग्मी ह्यनेकशास्त्रज्ञः।

वन्धूनां हितकारी चोरो धनवान् स्वतन्त्रकः पुष्ये।।8।।

क्रूरश्चपलो वाग्मी गणेश्वरो ज्ञानवाननेकधनः।

बाह्यायाससमेतो नातिसुतो वञ्चकश्च भौजङ्गे।।9।।

ज्ञानी विनीतशीलः स्थिरवैरी सज्जनैः स्तुतः क्रूरः।

बहुभृत्यधनो भोगी सुरपितृभक्तो महोद्यमः पित्र्ये।।10।।

प्रियवाग्दाता नीचो बुहव्ययार्तो विधेयभृत्यश्च।

विख्यातो नृपतीष्टो रणभीरुर्जायते च फल्गुन्याम्।।11।।

स्त्रीणामिष्टः सुभगो गणेश्वरो ज्ञानवान् नृपात्तधनः।

बहुदारोदारमतिर्भोगी मुखरो द्वितीयफल्गुन्यान्।।12।।

कामी कुशलो वाग्मी चौर्यमतिर्वित्तवान् विदेशरतः।

युद्धोत्सुकोऽतिनिपुणो रिपुहन्ता जायते च हस्तर्क्षे।।13।।

दुष्टस्त्रीष्टः पापो विविधोत्साही विवादशीलः स्यात्।

चित्राम्बरमाल्यधरो विदेशवासी सुखी च चित्रायाम्।।14।।

दान्तः सुखी कृपालुः प्रियवाग्धर्माश्रितो भवेत् स्वातौ।

ऋणवान् विदेशवासी बन्धुद्विट् स्वल्पवेषतनयश्च।।15।।

द्वेष्यो बहुप्रलापी सुतदारसमन्वितो धनी प्राज्ञः।

विबुधगुरुद्विजभक्तो न दातृशीलोऽक्षिरुग्विशाखासु।।16।।

क्षत्तृष्णार्त्त: शोकी दयापरो धर्मसंश्रितः सुभगः।

अटनो विदेशवासी मैत्रर्क्षे जायते मनुजः।।17।।

सन्तुष्टो धर्मपरो बहुसुतमित्रान्वितोऽतिरोषी स्यात्।

बन्धुजनपीडितात्मा कुलाग्रणीर्देवराजनक्षत्रे।।18।।

ज्ञानी सुखी धनाढ्यो व्याधिप्रायोऽतितस्करः सुभगः।

नैकमतिः सहजाग्र्यो मूले जातो नृपो भवति।।19।।

दृढसौहृदौ विनीतो बहुप्रजावान् गणेश्वरो धीमान्।

मृष्टान्नभुक् कलत्रजभोगी नृपसंमतश्च जलदैवे।।20।।

हास्यप्रियो विनीतो बहुशत्रुः क्लेशवान् विशिष्टमतिः।

अटनो ह्यनेकभार्यो दयापरो वैश्वदेवनक्षत्रे।।21।।

श्रुतवान् विदेशवासी प्रकृष्टदारो धनान्वितः ख्यातः।

अल्पसुतो बहुशत्रुर्बहुव्ययार्तो विभुः सुखी श्रवणे।।22।।

धनवान् दाता शूरो नष्टकलत्रो विदेशसन्तुष्टः।

आनृतिको वाचाटः प्रनृत्तगीतप्रियो धनिष्ठासु।।23।।

मुखरो धूर्तो वश्यो मृतसुतसहजो धनाधिकश्चपलः।

कृपलो मायातिरतो रिपुहन्ता जायते च शततारे।।24।।

स्त्रीलोलश्चलवासो दुर्ग्राह्यो भोगवान् नृपात्तधनः।

क्षुद्रः स्वकर्मनिरतश्चिजीवी पूर्वभाद्रजातः स्यात्।।25।।

वक्ता सुखी प्रजावान् स्थिरशत्रुर्धार्मिको विभीतश्च।

लुब्धो बलार्थनिरतो द्वितीयभाद्रासु जायते मनुजः।।26।।

सम्पूर्णायुः सुभगो वशगः स्त्रीणां स्वमानदर्पयुतः।

मनसि प्रतापबहुलो मात्सर्ययुतो भवेत् पौष्णे।।27।।

पक्षद्वये चाल्पफलानि दद्युस्ताराबलर्क्षेषु शुभप्रदाः स्युः।

शुभग्रहालोकितसंयुतास्ताः समस्तवीर्याः सकला भवन्ति।।28।।

आर्द्राश्लेषावारुणातिष्यमूलाश्चित्राज्येष्ठाकृत्तिका वर्जनीयाः।

स्त्रीणां सूतौ भ्रातृपुत्रादिशोकं मृत्युं शोषं विग्रहं चापि विद्यात्।।29।।

पितृजन्मर्क्षे पुत्रा जाताश्चेन्मातुरन्तका ज्ञेयाः।

तद्वत्पितुरन्तकरा मातुर्जनिभे न तु स्त्रीणाम्।।30।।

इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे नक्षत्रफलाध्यायोऽष्टाविंशः।।