।।श्रीगणेशाय नमः।।
पृथुयशविरचितम्
होरासारः

नष्टजातकोऽध्यायः
अथ नष्टजातकविधिः

जन्मायनर्तुमासाद्यमर्धमासो दिनं तथा।

नवांशद्वादशांशी च जन्मर्क्षं राशिरेव च।।1।।

यस्य न ज्ञायते पुंसः सर्वमेतद्धि पृच्छकः।

स्वच्छेऽम्बरे तु समये दैवज्ञं पूजयेत्तदा।।2।।

सुवर्णफलपुष्पादीन् दत्वा तं हितमादरात्।

चिन्तयेन् स्वानि कार्याणि पृच्छेत् सर्वं यथा तथा।।3।।

आरूढोदयलग्नादीनाकृतिं पृच्छकस्य च।

लक्षणानि निमित्तानि सर्वमालोक्य दैववित्।।4।।

वर्षायनर्तुमासक्षराशींस्तैः परिकल्पयेत्।

बहुप्रकारैः संचिन्त्य सर्वं प्रष्टुर्वदेद्बुध: ।।5।।

तात्कालिकांशसंयुक्ते जीवे जातो न संशयः।

तत् त्रिकोणगते वाऽपि ह्युदयारूढयोर्बलात्।।6।।

कर्तुर्वयोनुमानेन तेषामेवं प्रकल्पयेत्।

प्रश्नकाले विलग्नस्य पूर्वोद्धेऽप्युत्तरायणम्।।7।।

परार्द्धे दक्षिणं ब्रूयाज्जन्म सम्पृच्छते बुधः।

ऋतुर्वाच्यो दृगाणेशे लग्नसंस्थोऽथवा ग्रहः।।8।।

शनिशुक्रकुजा ईशा ऋतूनामुत्तरायणे।

दक्षिणे शशिविज्जीवा नाथाः प्रोक्ताः क्रमाद्बुधैः।।9।।

अर्कोदये तु होरायां द्रेक्काणे भास्करस्य वा।

ग्रीष्मे जातं विजानीयान्नान्यग्रहदृशा युते।10।।

अयनस्‍य तु वैलोम्ये परिवर्तः परस्परम्।

शशिज्ञगुरुभिः सार्द्धं सितलोहितसूर्यजाः।।11।।

द्रेक्काणार्द्धे भवेत्पूर्वे मासः पूर्वोऽपरे परः।

पूर्वोत्तरमुखो भूत्वा दक्षिणाङ्गं यदि स्पृशेत्।।12।।

उत्तरायणमासे तु जन्तुर्जातो न संशयः।

विपरीतं तदा स्पृष्ट्वा दक्षिणायनमाश्रितः।।13।।

पुष्पसंस्पर्शनादेवमृतुर्वाच्यो न संशयः।

अधः कायं स्पृशेत्पूर्व ऊर्ध्‍वाङ्गस्पर्शने परः।।14

पुनः स्पर्शे पुनर्मासी वक्तव्यो दैववित्तमैः।

तयोर्निरूपणादैक्यं यत्तथ्यं तन्न संशयः।।15।।

यदि वृश्चिककुंभौ च कन्यामीनतुलाधराः।

रात्रौ सिंहश्च विज्ञेयो जन्तुर्जातो न संशयः।।16।।

वृषभे कर्किभे चैव मिथुने मृगधन्विनोः।

दिवा विनिर्दिशेज्जातमर्कहोरोदयेऽपि च।।17।।

मीनोदये नवांशे वा सन्ध्याकाले विनिर्दिशेत्।

अथवा दिनसन्धौ वा मध्याह्ने वार्द्धरात्रिके।।18।।

यावन्तोऽभ्युदिता भागा राशौ प्रश्नविधौ तत:।

तावत्यो घटिका वाच्या दिवा रात्रौ च जन्मनि।।19।।

ऊर्ध्‍वकाये चरं विद्यान्मध्यमे स्थिरराशिकम्।

अधमे तूभयो ज्ञेय एवं देहविभागतः।।20।।

शीर्षादि संस्पृशेत्प्रष्टा प्रश्ने तद्राशिमादिशेत्।

भक्ष्याहृताकाररुतैश्चिन्तयेत्तद्विशेषकम्।।21।।

ग्रहेष्वधिकवीर्यो यः स यत्रास्ते गृहे ततः।

प्रश्नलग्नं भवेद्यावात्तावल्लग्नमितीरयेत्।।22।।

आरूढराशिं जन्मर्क्षं तत्त्रिकोणमथापि वा।

ग्रहयोगेक्षणे वाऽपि तत्क्षेत्रं जन्मभं विदुः।।23।।

आरूढोदयपर्यन्तं यावन्तो राशयस्तदा।

तावन्त्यश्व्यादि भानि स्युर्जन्मर्क्षं पृच्छकस्य तु।।24।।

आरूढराशेरुदयो द्विगुण्यो नक्षत्रसंख्यासहितो विभक्तः।

सुरैश्च शिष्टा तुरगादितारा जन्मर्क्षमस्मादथवा त्रिकोणः।।25।।

द्विगुणस्त्रिगुणाः कार्या मात्राः प्रष्टुर्मुखोद्गतास्तास्तु।

विभजेत्सुरैश्च शिष्टं नक्षत्रं चाश्विनीपूर्वम्।।26।।

नववसुविश्वेन्द्रभवा नवरससप्तेन्द्रियाणि दिग्वसवः।

मनवश्चोक्ता मानां मेषादीनां क्रमेण किरणाः स्युः।।27।।

विंशत्यष्टादशरविमनुभूपालः स्मृतिर्दिशः सूर्यात्।

किरणानां संख्याः स्युः पूर्वोक्तास्ते मयात्र निर्दिष्टाः।।28।।

आरूढोदयसंख्या ग्रहोक्तकिरणैश्च वर्धयेद्विधिना।

मण्डलहृताविशिष्टं मेषाश्विन्यादि निर्दिशेत्प्रष्टुः।।29।।

ग्रहहीने प्राग्राशौ संख्यामानेन वर्धयेदथवा।

नक्षत्रराशिमण्डलशोध्याच्छेष नरस्य जन्मर्क्षम्।।30।।

आरूढभसंख्यायां ग्रहोक्तसंख्यां च योजयेदथवा।

मण्डलहृतावाशिष्टं जन्मर्क्षं निर्दिशेत्तस्य।।31।।

इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे नष्टजातकाध्यायः सप्तविंशः।।