।।श्रीगणेशाय नमः।।
पृथुयशविरचितम्
होरासारः

कर्मजीवफलोऽध्यायःजातकभङ्गफलोऽध्यायः
जातकभङ्गयोगः
अथ जातकभङ्गास्तत्फलानि च

अर्केन्दुभूमिपुत्रैः केन्द्रगतैर्भाग्यभे व्यये वाऽपि।
जलयोग इति ख्यातो नान्यग्रहमिश्रितैस्तु बलहीनैः।।1।।

प्रकृतिजडोऽल्पमनीषो ज्ञानधनैश्वर्यवर्जितश्चफलः।
स्तब्धः परान्नकाङ्क्षी जलयोगे जायते मनोदुःखी।।2।।

भाग्याधिपे व्ययस्थे व्ययेश्वरे वित्तगे बलक्षीणे।
विक्रमसंस्थैः पापैर्योगः केमद्रुमो ज्ञेयः।।3।।

परदाररतो नित्यं परान्नकाङ्क्षी कुधर्मकर्मरतः।
बहुऋणभागी पुरुषो जातः केमद्रुमे भवेद्योगे।।4।।

सप्ताष्टमगैः पापैर्लंग्नशे नीचगे तदंशे वा।
गुलिकोदयवेलायां जातः कुलनाशको न सन्देहः।5।।

नीचारिभांशकगतैग्रहैः समस्तैः स्वतुङ्गभवने वा।
शुभकर्मान्यभसंस्थैर्जातो भिक्षाशनो नरो भवति।।6।।

होरेशे व्ययसंस्थे नभसि क्रूरे सरक्तके चन्द्रे।
जातोऽभियोग उक्तः परदेशरतो दरिद्रः स्यात्।।7।।

नवमोदयात्मजस्थौ रविचन्द्रौ भ्रातृकेन्द्रगे जीवे।
शनिकुजवासरकाले जातः सोन्माद एव स्यात्।।8।।

बुधचन्द्रौ केन्द्रगतौ नान्यग्रहवीक्षितो न संयुक्तौ।
योगोऽयं पैशाचस्तत्रोत्पन्नः ससोन्मादः।।9।।

भृगुचन्द्रौ केन्द्रगतौ रन्ध्रे वा पञ्चमेऽथवा पापे।
योगो महागदाख्यस्तत्रोत्पन्नः स सोन्मादः।।10।।

भृगुचन्द्रो केन्द्रगतौ रन्ध्रे वा पञ्चमेऽथवा पापे।
योगो महागदाख्यस्तत्रोत्पन्नस्त्वपरस्मारी।।11।।

सारे शनौ विलग्ने लग्नेशे वित्तरन्ध्रगे चन्द्रे।
बुधशुक्रौ केन्द्रगतौ श्रेष्ठकुलो नीचतां याति।।12।।

कुजसौरौ केन्द्रगतौ लग्ने राहुः शुभा व्ययारिस्थाः।
चण्डालयोग इह चेञ्जातो निजवंशकर्मरहितः स्यात्।।13।।

बुधभृगुचन्द्रा केन्द्रं याता लग्ने च राहुणा सहिते।
चण्डालयोग उक्तस्तत्रोत्पन्नो हि नीचकर्मा स्यात्।।14।।


परिवेषकालजातो ग्नाद्रिपुन्ध्रगः शनिः सारः।
लग्नत्रिकोणरहितो सुरपूज्ये जायते त्वपस्मारी।।15।।

सारे शनौ विलग्ने लग्नेशे वित्तरन्ध्रभाग्यस्थे।
साम्येः केन्द्रबहिष्ठैर्जातस्याजीवितं रोगः।।16।।

शशिशनिशुक्राः केन्द्रे व्ययाष्टगौ भास्करावनीसूनू।
केमद्रुमोऽपरोऽयं योगेऽस्मिन् जन्मभूमिमात्रपरः।।17।।

षष्ठाष्टमव्ययगतः पापाः कुर्वन्ति जातिविभ्रंशम्।
कर्मधनस्थैश्च तथा शुभराशौ वर्जिते शुभैर्वाऽपि।।18।।

भाग्याधिपे व्ययस्थे पापयुतौ जन्मलग्नयोर्नाथौ।
अस्तं यातौ जातः स्वकुलध्वंसी विनष्टसुतदारः।।19।।

अशुभशुभैः केन्द्रस्थेर्होरापतिना निरीक्षितश्चन्द्रः।
सोरांशगतो वा योगः कुलपांसनो नाम।।20।।

स्वगृहाच्च्युतो दरिद्रो विदेशवासो विनष्टसुतदारः।
दोषगणैरभिभूतो योगे कुलपांसने जातः।।21।।

भाग्याधिपेऽर्कयुक्ते स्वसुतस्थाने न चापि शुभदृष्टे।
पापैः सहजारिस्थैर्जातो नीचप्रवृत्तिजीवी स्यात्।।22।।

मन्दक्षे लग्नगते चन्द्रे केन्द्रे शनैश्चरे यस्य।
व्ययसंस्थे सुरपूज्ये जातो भिक्षाशनोपजीवी स्यात्।।23।।

लग्नाधीशान्मृत्युषष्ठव्ययस्थैः पापैर्जातो जन्मभूमेर्निवृत्तः।
जन्मेशास्त्रेद्विक्रयाद्दोषजाद्वा भाग्यख्याने वर्जिते स्वाधिपेन।।24।।


सौम्येड्य(न्दु) शुक्रे रिपुनीचसंस्थैरंशे तथा लग्‍नगतेऽर्कपुत्रे।
जातो हि दुःखी कुलदोषभूतः स्त्रीपुत्रहीनो निधनेऽपि कृच्छ्रम्।।25।।

स्वत्रिकोणगृहं केचित्स्वोच्चं याताः स्वमन्दिरम्।
अतिनीचो रविश्चैको न तेषां फलसम्भवः।।26।।

उच्चस्थोऽपि तुलांशे वा स्थितः कमलबोधनः।
सार्वभौमस्य पुत्रोऽपि नीचत्वमधिगच्छति।।27।।

तुलायां दशमे भागे स्थितः कमलबोधनः।
सहस्र राजयोगानां नाशयत्याशु जन्मनि।।28।।

सचिवो दानवेड्यस्य नीचांशे समुपस्थितः।
संप्राप्तमतुलं राज्य क्षिप्रं नाशयते ध्रुवम्।।29।।

उल्कापाते व्यतीपाते निर्घाते केतुदर्शने।
अपि राजकुले जातो भिक्षान्नेनोपजीवति।।30।।

लग्ने ज्ञद्रेक्काणे शशिना दृष्टे चतुष्टयस्थेन।
जातो नृपतिकुलेष्वपि शिल्पी स्यान्निश्चित मुनिभिः।।31।।

नीचै सौरिनवांशे शुक्रे स्याद्रविशशाङ्कयोर्मदने।
मन्देनालोकितयोर्मात्रा सार्धं परप्रेष्य:।।32।।

सूर्यांशे यदि चन्द्रश्च द्रांशे भास्करः स्थितश्च यदि।
सममेकराशिगतयोर्दुर्बलदेहो भवेत् पुरुषः।।33।।

निधनारिधनव्ययगा रविचन्द्रकुजार्कजाः क्रमान्नियतम्।
नयनविघातं कुर्युर्बलद्ग्रहदोषसम्भूतम्।।34।।

धर्मायसहजसुतगाः पापाः सौम्यानवेक्षिता बलिनः।
श्रवणविघातं कुर्युः सप्तमसंस्थाश्च दन्तवैकृतिनम्।।35।।

उदये दिनकरपुत्रे सप्तधीधर्मगे कुजे जातः।
सोन्मादः क्षीणेन्द्रौ चन्द्रात् सूर्ये व्ययऽप्येवम्।।36।।

सितचतुरश्रोपगतैः पापैः सौम्यग्रहैरदृष्टयुतैः।
दहनोद्बन्धविषाद्यैर्जायामरणं विनिर्देश्यम्।।37।।

पापद्वयमध्यगते शुक्रे बलवर्जितेऽरिनीचांशे।
जायामरणं विद्यात् पूर्वोक्तनिमित्तजं च वक्तव्यम्।।38।।

उदयास्तगयोर्ग्रहयोः शुक्रे बलवर्जिते च कोणस्थे।
सार्के च विकलदारो निःस्वप्रायोऽन्यदारनिरतश्च।।39।।

कोणोदयेऽस्तगेऽब्जेऽच्छे वा वन्ध्यापतिर्जातः।
लग्नत्र्ययनिधनस्थैः पापैरसुतो भवेत्सुते चन्द्रे।।40।।

दाराधिपे सुतस्थे दारविनाशो विनष्टतनयो वा।
लग्नसुतरन्ध्ररिः फेष्वशुभाः कुर्वन्ति वंशविच्छित्तिम्।।41।।

बुधभार्गवयोरस्ते सुखगे पापे गुरौ सुखस्थेऽपि।
वंशच्छेता जातश्चन्द्रान्निधनस्थिते पापे।।42।।

रन्ध्रेश्वरे सुतस्थे लग्ने पापग्रहे शशी सुखगः।
सुतभेशे बलहीने जातो वंशक्षयं याति।।43।।

चन्द्रे वा सूर्ये वा व्ययगे बलवर्जिते स काणः स्यात्।
द्यृनेष्टमगे भानौ पापयुते नेत्रदन्तरोगी स्यात्।।44।।

सुखसुतयुक्तौ पापौ व्ययगे जीवेऽरिनैधने चन्द्रे।
सौम्ययुतिदृष्टिहीने निःसन्दिग्धं भवत्यन्धः।।45।।


चन्द्रे स्वमध्यसंस्थे द्यनेऽवनिजेऽर्कवेसिगे मन्दे।
जातो भवत्यवश्यं विकलाङ्गो जातिभङ्गो वा।।46।।

चापमृगमत्स्यभांशे चन्द्रे पापान्विते स कुष्ठी स्यात्।
अलिकर्य्भजवृषभांशे लग्ने वा पापसंयुते कुष्ठी।।47।।

कर्कटवृश्चिकभांशे चन्द्रे पापान्विते स गुह्यगदः।
क्रोडोदरकर्णगदी चन्द्रे सुखमांशके सपति स्यात्।।48।।

राहुग्रस्ते चन्द्रे पापयुते रिःफरन्ध्रनवमे वा।
सोन्मादः पुरुषः स्यात् कलहप्रायोऽतिरोषी वा।।49।।

जन्मपतिं विकलाङ्गं पश्यति सौरिश्चतुष्टये प्रबलः।
यस्य स भाग्यविहीनः प्रव्रज्या प्राप्नुयात्पुरुषः।।50।।

आरार्कजीवशनयः सहिता विलग्न-
केन्द्रत्रिकोणरहिता विबला यदि स्युः।

जातः कुलात्ययकरो धनपुत्रदारै-
र्हीनो विदेशनिरतो मुनिरेष उक्तः।।51।।

गुरुहिमगुरवीणामेक एवोदयस्थो
गगनतलगतो वा रिःफगश्चाल्पमूर्तिः।

अविकलबलभाजा सूर्यपुत्रेण दृष्टो
भवित हि नरनाथो दीक्षितः स्यात्म एव।।52।।

कुमुदगहनबन्धुं सौम्यभागे बलस्थं
वियति गमनशीलः स्वोच्चमित्रर्क्षसंस्थः।

यदि दिनकरपुत्रः पश्यति प्राप्तवीर्यो।
जनयति खलु जातं तापसं दुःखभाजम्।।53।।

अतिशयबलयुक्तः शीतगुः शुक्लपक्षे
बलविरहितरक्तप्रेक्षितो लग्ननाथः।

यदि भवति तपस्वी सन्ततं शोकतप्तो
धनजनपरिहीणः कृच्छ्रलब्धान्नपानः।।54।।

लग्नेश्वरोऽर्कसहितो यदि वीक्षमाण-
श्चन्द्रं विलग्नभवनं यदि पापदृष्टम्।

तत्र स्थितो भृगुसुतः सुरपूजितो वा कुर्या-
न्नितान्तमभिजन्म विनाशयन्तम्।।55।।

नीचारिभांशकगतो भृगुजस्त्रिकोणे
पापे विलग्नभवने शुभदृष्टिहीने।

गार्हस्थ्यधर्मरहितो मुनिरस्य चाहु-
राजीवनं सकललोकमतानुसारि।।56।।

इत्यादि योगान् सकलान्निरूप्य बलाबलं चापि शुभाशुभानाम्।
ज्ञात्वा नराणां प्रकृतिं समीक्ष्य समादिशेत्तत्र दशाफलानि।।57।।

इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे जातकभङ्गास्तयोगफलाध्याय चतुर्विंशोऽध्यायः।।