द्व्यादिग्रहसंयोगः स्वं स्वं भावं हिनास्ति सर्वेषाम्।
योगफलं च विदध्यान्मधुघृतयोगो विषं यथा तद्वत्।।1।।
तत्र समासाद्वक्ष्ये योगविशेषात् फलं ग्रहाणां च।
गोचर फलयोगयुतं नॄणां सम्यग्विनिर्दिशेत्तज्ज्ञः।।2।।
तुर्ये वा निधने वा संयोगे सूर्यसौम्ययोर्लग्नात्।
जातो नृपतुल्यगुणो धनवानन्यत्र संयुतो गुणवान्।।3।।
रविशशियोगे भाग्ये धनवान् दशमे युतो तु विख्यातः।
पतितोऽन्धो व्यययोगे नान्येषु युतौ तु संपत्स्यात्।।4।।
लाभारिपुत्रदशमेष्वेकस्मिंश्चन्द्रमन्दयोर्योगे।
जातो नृपालवंशे नृपतित्व याति नास्ति सन्देहः।।5।।
दशमायोदयरन्ध्रेष्वेकस्मिन् भाष्करारयोर्योगे।
जातो महाकुलीनो बलवानन्येषु संयुतौ निःस्वः।।6।।
गुरुभास्करयोर्लग्ने संयोगे धर्मकर्मलाभे वा।
आज्ञाबलैः समेतो विख्यातो दुर्गतश्च संजातः।।7।।
सूर्यसितयोस्तु योगे दशमे रन्ध्रे च पुत्रभवने वा।
नृपसदृशो विख्यातो बलवानन्येषु वित्तसुखहीनः।।8।।
भानुः स्वपुत्रसहितो नवमे धनभेऽपि वा षष्ठे।
जनयेत् प्रसिद्धकीर्तिनन सुखिनं शेषेषु वित्तहीनं च।।9।।
रक्तेन्दुयुतौ लग्ने दशमे वा धर्मपुत्रलाभे वा।
धनवान् भूपतितुल्योऽनुक्तेषु युतौ तु बन्धुसुखहीनः।।10।।
काव्यकलासु विदग्धो धनवान् बुधचन्द्रयोः समायोगे।
सहजव्यारिनिधनेष्वन्येष्वभयं च निःस्वातां याति।।11।।
गुरुचन्द्रयोगजातो धनवान् सुतदारवान् विनीतश्च।
सर्वत्र फलं प्रोक्तं मुक्त्वा सहजारिभं तयोर्नीचम्।।12।।
क्रयविक्रयेषु कुशलो वस्त्राद्युपभोगवान् धनाध्यक्षः।
शिशिरकरशुक्रयोगे दशभे व्ययभे विदेशतोऽर्थाप्ति:।।13।।
आरार्कजयोर्योगे नवमात्मजबन्धुकर्मधनभे वा।
सुतबन्धुधर्मवित्तैः सम्पन्नोऽन्यत्र दुर्भगो मलिनः।।14।।
शीतांशुमन्दयोगे दुर्बलदेहोऽतिनीचकर्मरतः।
मातृद्वेषी मूर्खो ह्युपचयभवनेषु सर्वसम्पन्नः।।15।।
कुजबुधयोगे चपलो दुष्टस्त्रीनायकोऽल्पसंतुष्टः।
मलिनः परान्नकाङ्क्षी केन्द्रेष्वर्थागमं सुखं लभते।।16।।
कुजगुरुयोगे बलवान् दीर्घायुः पुत्रवान् विनीतश्च।
रिपुन्ध्ररिःफभेषु व्यसनी रोगान्वितोऽल्पवित्तश्च।।17।।
कुजभृगुयोगे चपलः स्त्रीवशगो दुष्टकर्मकरः।
लग्नसुखास्पदभवने कुलाधिको ग्रामनेता वा।।18।।
कुजमन्दयोस्तु योगे नित्यार्तो वातपित्तरोगाभ्याम्।
उपचयभवने नैवं नृपतुल्यो लोकसंमतः ख्यातः।।19।।
बुधगुरुयोगे बधिरो विद्वान् नेत्रातुरो नरो भवति।
व्ययनिधनशत्रुभे स्यात् सुभगो विख्यातधर्मपरः।।20।।
बुधभृगुयोगे विकलो विघातकुशलोऽल्पदारपुत्ररतः।
भाग्यसुतमूर्तिभे स्याद्विशिष्टनामान्वितो धनाध्यक्षः।।21।।
बुधमन्दयोस्तु योगे दशमे लग्नेऽथवा धर्मे।
धनदारपुत्रमित्रैः समन्वितोन्यत्र कष्टफलम्।।22।।
गुरुभृगुयोगे मतिमानुदयात्मजधर्ममेषु वा निधने।
स्त्रीधनपुत्रसमेतोऽन्यत्र गदैः पीडितोऽतिदुःखार्तः।।23।।
देवगुरुमन्दयोगेऽनुपचयभवनेषु मानधनहीनः।
उपचयभवनेषु नरः प्रख्यातो राजपूजितो भवति।।24।।
शनिसितयोगे लग्ने कोणे केन्द्रेऽथवास्तभं मुक्त्वा।
स्त्रीवशगो नृपनेता धनवान् शेषेषु सत्वधनहीनः।।25।।
रविचन्द्रभौमयोगः पापिष्ठं स्वल्पजीवितं कुरुते।
बन्धुसुतदारहीनं विकलाङ्गं लोकनिन्दितं कृपणम्।।26।।
रविकुजबुधयोगोऽयं विरुद्धधर्मान्वितं विदेशरतम्।
कृपणं दयाविहीनं स्वार्जितधननाशदुःखसन्तप्तम्।।27।।
रविबुधगुरुयोगेऽस्मिञ्जातो मतिमान्नरेन्द्रदयितश्च।
वयसोऽन्ते धनहीनं परान्नपुष्टः परोप्रतापी च।।28।।
रविगुरुसितसंयोगे दानपरो लोकविश्रुतो नृपतिः।
स्त्रीद्युतवाञ्चितार्थः शत्रुजनैर्बाधितोऽतिदुःखार्तः।।
29।।
रविसितशनियोगेऽस्मिंस्त्यक्ताचारोऽतिवञ्चको दुःखी।
आयविहीनो रोगी च वार्धके किञ्चिदर्थसम्पन्नः।।30।।
चन्द्रकुजसौम्ययोगे विख्यातो लोकपूजितो ज्ञानी।
वाग्मी दयासमेतो वयसो मध्ये दरिद्रश्च।।31।।
चन्द्रबुधाङ्गिरसानां योगः कथितः प्रशस्तविभवकरः।
विद्वांसं धनवन्तं प्रतापबहुलं महीपतिं कुरुते।।32।।
चन्द्रगुरुशुक्रयोगे जातो राजा भवेन्न सन्देह:।
गजतुरगयानमख्यैः परिजनकोशादिभिर्युतो भवति।।33।।
चन्द्रसितमन्दयोगे मानी धनवान् दयापरो भोगी।
नात्युच्छ्रितो न नीचः स्वपुत्रशुबन्धुपूजितो भवति।।34।।
चन्द्रशनिसूर्ययोग क्षीणधनो रोगपीडितो दुःखी।
याञ्चापरोऽङ्गहीनः सेवानृत्योपजीवनं कुरुते।।35।।
कुजबुधभृगुयोगोत्थः शिशुभावे रोगपीडितः किञ्चित्।
सरसकलाविनयज्ञो नरेन्द्रपुत्रोऽतिविश्रुतो लोके।।36।।
कुजगुरुकवियोगेऽस्मिन् वाहनपरिवारपूरितः पुरुषः।
विख्यातो धनपुष्टः पुत्रधरित्र्यन्वितौ महाभोगी।।37।।
कुजशुक्रमन्दयोगे मातुरनिष्ठो विदेशसञ्चारी।
परयुवतिरतोऽनार्यो नृपालकुलतः पराभवं लभते।38।।
कुजविजार्कसमाजे पापी परदाग्वञ्चकोऽल्पायुः।
निधनं याति विदेशे विषाग्निशस्त्रर्निपीडितो बन्ध:।।39।।
कुजरविसौम्यसमूहः करोति मनुजं सदाटनाभिरतम्।
काले काले लभत किञ्चिद्धान्यं स चौदनं यत्नात्।।40।।
बुधगुरुशुक्रा मिलिताः कुर्वन्ति महीपतिं जातम्।
सुसमृद्धं विनयाढ्य माण्डलिकं कीर्तिसतसम्पन्नम्।।41।।
बुधसितमन्दयुतौ सञ्जातो नरपालको धनाढ्यश्च।
स्थिरबुद्धिश्चिरजीवी विख्यातो लोकसम्मतो ज्ञानी।।42।।
बुधशनिदिननाथानां योग जातोऽतिरक्तपित्तवपुः।
स्वजनद्वेषी हीनो विदेशवासी सिरालुकृशदेहः।।43।।
बुधरविशुक्रसमाजे भोगधनैश्वर्यसंयुतः पुरुषः।
मातृपितृवन्धुवर्गैः संयुक्तो मानशौर्यसम्पन्नः।।44।।
बुधरविजभौमयोगे जातो वैश्यापतिर्विदेशरतः।
बन्धुषु वैरं कुरुते निःस्वोऽल्पायुर्विनष्टपशुद्वारः।।45।।
गुरुशुक्रमन्दयोगे कुलाधिनाथः कुटुम्बसौख्ययुतः।
मितलाभो मितभोगी विख्यातो लोकसंमतो जातः।।46।।
गुरुभौमसूर्ययोगे वित्ताढ्यो लोकपूजितो विद्वान्।
रिपुरोगभयत्यक्तः समस्तसौख्यान्वितो जातः।।47।।
गुरुकुजमन्दा युक्ताः कुर्वन्ति नरं पुराधिपं बलिनम्।
क्लेशसहिषुं धनिनं मात्सरिणं मानशौर्यसम्पन्नम्।।48।।
गुरुशनिचन्द्रसमाजे स्त्रीलोलः पुत्रसौख्यसम्पन्नः।
प्रियभाषितजनमित्रं मातापितृदेवगुरुभक्तः।।49।।
त्र्यादिग्रहैर्विलग्ने दशमे धर्मेऽथवा युक्तैः।
बहुकार्यो बहुगुणवान् बहुधिषणः स्याद्धनेशसमभोगः।।50।।
चन्द्रगुरुभूमिपुत्रैरेकर्क्षगतर्न नीचभवनस्थेः।
षट्सप्ताष्टव्ययभं हित्वा शेषेषु शक्तिवित्तयुतः।।51।।
शनिचन्द्रभौमभृगुजैरेकर्क्षैर्धर्मकर्मलग्ने वा।
संसारबन्धुरहितो विदेशवासी सुखी भवति।।52।।
एकर्क्षगतैः साम्यैः शुभातिरिक्तं फलं निवनिर्देश्यम्।
पापसमूहैः कष्टं मिश्रं मिश्रैर्भवेन्नियतम्।।53।।
चतुराद्यैर्विहगेन्द्रहरेकर्क्षगतैस्तु मिश्रफलभोक्ता।
तेषां दशासु नियतं फलं विपाके शुभाशुभं तुल्यम्।।54।।
इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे द्वयादिग्रहयोगफलाध्यायस्त्रयोविंशः।।