स्वस्य स्वभावजनितं प्रकारभेदैर्धनं समाप्नोति।
केषांचिद्दशमस्थैश्चन्द्राद्भानोर्नवांशकादथवा।।1।।
पितृमातृसहजबान्धवगुरुयोषित्प्रेष्यजातिभिर्वित्तम्।
लभते दशमर्क्षगतैः सूर्याद्यैस्तद्विकारभेदैर्वा।।2।।
ग्रहरहिते दशमगृहे चन्द्राद्भानोस्तथा तयोर्बलिनः।
तदधीशराशिनाथस्वभावलब्धेपजीवनं कुरुते।।3।।
अर्काशे फलवृक्षैर्भेषज्यैर्धातुविक्रयः शिल्पः।
द्यूतानृतशाठ्यकरैर्भूपैर्वा वित्तमाप्नुयात् सततम्।।4।।
चन्द्रांशे मणिपोतैः कृषिजलवस्त्रादिभिर्धनं लभते।
गोमहिषशर्कराद्यैः स्त्रीसङ्गान्मन्त्रदैवताद्वाऽपि।।5।।
उपदेशमन्त्रकुशलैः साहसशस्त्राग्निभेषजैर्वाऽपि।
आपणविक्रयकुशलैर्भौमांशे क्षत्रियादितो धनवान्।।6।।
लिपिलेख्यकाव्यगणितैर्द्यूतैर्नत्तैः स्तवादिभिर्वित्तम्।
तदधीशे सौम्यांशे दानाध्ययनादिभिः प्रियालापैः।।7।।
अध्ययनदेवतार्चनमन्त्रजपान्मन्त्रवृत्तिभिर्धनवान्।
कालज्ञाननिमित्तैर्नृपप्रसादैस्तथा गुरोरंशे।।8।।
गोमहिषाश्वगजाद्यैस्त्रीसङ्गैरोषधरलङ्कारैः।
नृत्तादिगीतकुशलैः शुक्रांशे वित्तवान् सुखी भवति।।9।।
सौरांशे फलमूलैः पत्रैर्भारोद्वहैः श्रीमैर्धनवान्।
नीचप्रेष्यजनाद्यैर्धान्यकुधान्यादिविक्रयैर्वाऽपि।।10।।
................................श्रमवधाभारादिनीचकृत्यैश्च।
तिललवणधान्यशाकैस्तृणकाष्ठजलादिभिर्धनं लभते।।11।।
अंशाधिपोऽतिबलवानयत्नतोऽर्थागमं सुखं कुरुते।
अंशाधिपोऽतिनीचे प्रोक्तफलं स्वल्पमेव विदधाति।।12।।
राश्युक्तदिग्विभागे देशं संचिन्तयेत् स दैवज्ञः।
लग्नाच्च दशमराशेः स्वभावदेशं विनिर्दिशेदथवा।।13।।
स्वस्वामिदृष्टयुक्तं स्वदेशफलदायकं मुनय ऊचुः।
अन्येन सहितदृष्टं परदेशफलप्रदं प्राहुः।।14।।
तदधीशे चरभांशे प्रवासतोऽर्थागमं सुखं लभते।
स्थिरभांशके स्वदेशादुभयांशे सर्वतो धनप्राप्तिः।।15।।
वक्रगते तदधीशे बहुप्रकारैर्धनं समाप्नोति।
भाग्यानुरूपतोऽर्थान्विनिर्दिशेत् सर्वमेव पूर्वोक्तम्।।16।।
चन्द्राद्दशमे सौम्यो बलवानेको न शत्रुयुतदृष्टः।
जनयेद्युगान्तकीर्तिं स्वान्वययुक्तं च लग्नाद्वा।।17।।
इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे कर्मजीवफलाध्याय एकविंशः।।