।।श्रीगणेशाय नमः।।
पृथुयशविरचितम्
होरासारः

सूर्यादिग्रहभावफलोऽध्याय:
अथ ग्रहभावफलानि
अथ तत्रादौ रविभावफलानि

सूर्योदये न शान्तो नातिसुतो निर्घृणो रणश्लाघी।
विकलेक्षणोऽल्पभाषी प्रवासशीलो भवेत्सुखी जातः।।1।।

मेषोदयेऽतिकीर्त्तिर्बलवांस्तिमिरेक्षणो धनी विद्वान्।
नीचे प्रतापहीनो निःस्वप्रायोऽतिनीचकरः।।2।।

सिंहे स्ववंशनाथः कुलीरभे ज्ञानवाननेकमतिः।
मीने स्त्रीजनसेवी कन्याया दारभाक् कृतघ्नश्च।।3।।

धनभे तु वक्त्ररोगी धनवान् नृपचोरतोऽर्थहानिः स्यात्।
सहजेऽतिरोषबलवान् निजबन्धुषु संक्षयोऽतिविख्यातः।।4।।

निजधनहीनो हिबुके सन्तापी बुद्धिशौर्यसम्पन्नः।
त्वरितवचनोऽतिमेधो नातिसुतो नार्थवान् रवौ सुतगे।।5।।

नृपमन्त्री नेता वा बहुश्रुतः ख्यातिमान् रवौ षष्ठे।
मदने विनोदशीलो दारद्वेषी न शान्तबुद्धिः स्यात्।।6।।

विकलेक्षणोऽल्पसूनुर्निधने रोगान्वितोऽतिविख्यातः।
धर्मपरो नवमस्थे भानौ सुतदारवान् पितृद्वेषी।।7।।

नृपकर्मरतो दशमे शूरो रणवल्लभोऽतिविख्यातः।
लाभे प्रभूतधनवान् विधेयभृत्यो नरेन्द्रदयितश्च।।8।।

व्ययभवने धनहीनो हीनाङ्गो दोषवान् विदेशरतः।
नीचारिभांशकस्थे भानौ भावेषु दोषवृद्धिकरः।।9।।

अथ चन्द्रभावफलानि

मेषवृषकर्किलग्ने हिमगौ धनवान् सुखी नृपालसमः।
वाग्बुद्धिवित्तरहितो लग्नस्थे नोक्तमेषु बलरहिते।।10।।

धनगे बहुप्रतापी धनवान् वनितादृतोऽल्पसन्तुष्टः।
पिशुनो दयाविहीनो मायावी विक्रमाश्रिते शशिनि।।11।।

मृष्टान्नभुग्विनीतः स्त्रीलोलः सौख्यभाक् सुखस्थेन्दौ।
स्त्रीबुद्धिसत्त्वयुक्तो बहुश्रमोत्पन्नवित्तवान् सुतगे।।12।।

षष्ठेऽलसो दरिद्रो बहुशत्रुः सोदरादिदमनश्च।
स्त्रीदयितो नृपनेता प्रदानशीलोऽस्तगे निशानाथे।।13।।

धनवान् निधने भोगी हिमगौ ज्ञानी प्रतापबहुलः स्यात्।
धर्मप्रियोऽतिभाषी नवमे स्त्रीचञ्चलो धनाध्यक्षः।।14।।

सर्वोपायैर्धनवान् दशमे हिमगौ विदग्धयुवतीशः।
लाभे धनी सुविद्वान् गोमान् नृपसंमतो विनीतश्च।।15।।

नयनातुरोऽङ्गहीनो व्ययगे स्त्रीदोषवाननेकमतिः।
क्षेत्रोच्चशस्तपक्षे व्ययगे हिमगौ सुखी धनी भवति।।16।।

अथ कुजभावफलानि

भौमोदये क्षताङ्गः शूरो बलवान् स्वमानशौर्ययुतः।
चपलोऽल्पायुः क्रोधी पित्तरुगार्तो ुऽलसो भवेञ्जातः।।17।।

धनगे बहुव्ययार्तोधी विकृताङ्गो निष्ठुरोक्तिमान् प्रोक्तः।
भ्रातृद्वेषी सहजे क्लेशात् सम्प्राप्तवित्तवान् सुभगः।।18।।

परगृहसंश्रशीलो रोगी सुखगे धनान्वितो भौमे।
दुःखात्मको विशीलो मेधावी पञ्चमेऽतितीक्ष्णकरः।।19।।

षष्ठेऽल्पबुद्धिरलसो जामित्रे स्त्रीजितो विदेशरतः।
निधने तु कृच्छ्रीजीवी सुतरदारविवर्जितो नूनम्।।20।।

मार्गघ्नो नवमस्थे दशमे जनवल्लभोऽतिमेधावी।
लाभे धनी गुणाढ्यो व्ययगे पतितोऽङ्गहीनो वा।।21।।

अथ बुधाभावफलानि

विद्वान् धनी दयावान् बुधलग्ने वित्तगे धनी सुभगः।
स्व(सु)गुणोपार्जितविभवो दुश्चिक्ये ज्ञानवान् धनी सुखगे।।22।।

मेधावी वाङ्मधुरो बुद्धिस्थे सोमजे बुधानुमतः।
षष्ठे विवादशीलो लोकद्वेषी विदेशवासी च।।23।।

धर्मज्ञोदारमतिः सप्तमगे लोकविश्रुतः सौम्ये।
ख्यातो धनाधिनाथो निधने सौम्ये नृपालको धीमान्।।24।।

धर्मे प्रतापबहुलौ धनधन्यसमन्वितो महोत्साही।
दशमे वित्ताधीशो दानपरो ज्ञानवान् यशस्वी च।।25।।

लाभे बहुप्रकारैर्धनवान् वनितादृतः सुशीलश्च।
व्ययगे बुधे नृशंसः कृपाविहीनो व्ययान्वितश्चण्डः।।26।।

अथ गुरुभावफलानि


जीवोदये चिरायुर्ज्ञानी सुखवान् न नीचराशिस्थे।
धनगे धनी सुवक्ता दयापरो देवतार्चनाभिरतः।।27।।

दुःशीलो धनहीनो दुश्चिक्ये भ्रातृबन्धुदोषकरः।
सुखगे सुखी सुदारो भोक्तासनयानवाहनाध्यक्षः।।28।।

सत्सुतदारः सुभगो मेधावी वाक्पटुश्च बुद्धिस्थे।
अरिगे शत्रुविहीनो नृपस्य मन्त्री नयान्वितो जीवे।।29।।

शुभदारपुत्रयुक्तो जामित्रे पूर्वतोऽधिको विद्वान्।
चिरजीवी निधनस्थे भूपालो ज्ञानवान् गतारिगणः।।30।।

बहुभाग्ययुतो धीमांस्तेजस्वी धर्मवान् धनी धर्मे।
विख्यातो दशमस्थे सत्कर्मरतो धनाधिनाथश्च।।31।।

बहुविधलाभो लाभे कोशाधिपतिः कुला धिको विद्वान्।
व्ययगे देवाचार्ये हीनाङ्गो धर्मनृत्यगतवित्तः।।32।।

अथ शुक्रभावफलानि

कन्दर्पसमो गुणवान् भृगुलग्ने स्त्रीजितो धनी विद्वान्।
नयविनयज्ञो धनवान् धनगे सुमुखो दयापरो भवति।।33।।

नीचस्त्रीभोगरतो दुश्चिक्ये वित्तभोगरहितश्च।
सुखगे सुखी क्षमावान् दयापरो दारपुत्रवान् भृगुजे।।34।।

नृपमन्त्री नेता वा स्त्रीजनको ज्ञानवान् सिते धीस्थे।
शत्रुक्षयी च षष्ठे मायावी रोगवान् गतार्थसुतः।।35।।

स्मरनिपुणो जामित्रे मित्रद्वेषी प्रधानजनवन्धुः।
निधने स्वभाववहुलो रोगी सुतदारवांश्च सन्तुष्टः।।36।।

धीधर्मभोगयुक्ते नवमे सुतदारवान् सिते बलिनि।
स्त्रीदयितो नृपमन्त्री दशमे शुक्रे जलादिधर्मपरः।।37।।

प्राज्ञो धनी दयावाँल्लाभे शुक्रेऽतिलाभसन्तुष्टः।
स्त्रीलोलो व्ययसंस्थे धर्मयसनी स्वर्मपरिहीणः।।38।।

क्षेत्रोच्चव्ययभवने धनवान् प्रसिद्धयुवतीशः।

अथ शनिभावफलानि

सौरोदयेऽतिरोगी बाल्‍ये मलिनोऽटनो नृशंसश्च।।39।।

स्त्रीवञ्चनोऽनिलात्मा निस्वप्रयोऽङ्गहीनो वा।
स्वोच्चे स्वकीयभवने कुलाधिको ज्ञानवान् नरेन्द्रधनी।।40।।

पितृधनहीनो धनगे स्वमानशौर्यान्वितो धनी विद्वान्।
शूरो दयाविहीनो हास्यरतोऽनादरश्च दुश्चिक्ये।।41।।

बन्धुजनपीडितात्मा बन्धुस्थे नातिपुत्रवान् न सुखी।
मन्दमतिरल्पपुत्रो नेत्ररुगार्तोनाऽटनः शनौ सुतगे।।42।।

षष्ठे सहायशीलो रिपुरोगविवर्जितोऽतिविख्यातः।
नीचश्चपलो दुःखी जामित्रे सूर्यजे कुदाररतः।।43।।

निधने धनवान् रोगी नातिसुतो नेत्रदुर्बलश्चपलः।
धर्मध्वजोऽतिनिपुणो मेधावी नीतिपुत्रवान् नवमे।।44।।

दशमे शनौ सुबुद्धिर्धनवान् स्वकुलाधिकः सुची भवति।
प्रभुशीलो विख्यातो लाभे विज्ञानशास्त्रकुशलश्च।।45।।

दोषकरो व्ययसंस्थे बहुव्ययार्तोासऽसुखी दिनेशसुते।
क्षेत्राधिपयुतभावे पुष्टफलं पापसौम्ययोस्तुल्यम्।।46।।

नीचारिभवनसंस्थो ग्रहं उक्तं तत्फलं विनाशयति।
यत्प्रोक्तं भावफलं लग्नादीनां तथैव चन्द्रर्क्षात्।।47।।

भावफलं च नराणां वक्तव्यं चन्द्रमूर्ति्र‍फलम्।
एकैकमेकराशौ भावफलं सम्यगेव वक्तव्यम्।
व्द्याद्यैरेकर्क्षगतैर्लग्नादिफलं न सम्यगायाति।।48।।

इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे ग्रहभावफलाध्याय एकविंशः।।