वर्गोत्तमगते चन्द्रे लग्ने वा चतुरादिभिः।
ग्रहैर्निरीक्षिते तस्मिञ्जातो नरपतिर्भवेत्।।1।।
अश्विन्यां लग्नगः शुक्रः सर्वग्रहनिरीक्षितः।
करोति पृथिवीपालं निर्जितारातिमण्डलम्।।2।।
शत्रुनीचग्रहांस्त्यक्त्वा कुटफम्बस्थः सभार्गवः।
लग्नेश्वरो बली यस्य स नरः पृथिवीपतिः।।3।।
नीचांशकान् परित्यज्य त्र्यादिक्षेत्रोच्चसंस्थितः।
करोति पृथिवीपालं निर्जितारातिमण्लम्।।4।।
नीचांशकान् परित्यज्य त्र्यादिक्षेत्रोच्चसंस्थितः।
तेषामकोऽपि लग्नस्थः करोति पृथिवीपतिम्।।5।।
चन्द्रे भौमे च लग्नस्थे धर्मकर्मगतेऽपि वा।
गुरौ बलान्विते सूर्ये जातो नरपतिभवेत्।।6।।
दिवौकसां नृपं मन्त्री कुर्यात् पश्यन् बुधं सदा।
शिरसा शासनं तस्य धारयन्ति नृपालकाः।।7।।
अधिमित्रांशगश्चन्द्रो दृष्टो दानवमन्त्रिणा।
निशायां कुरुते राज्यं नान्यग्रहनिरीक्षितः।।8।।
स्वोच्चाधिमित्रभागस्थो दृष्टो वा देवमन्त्रिणा।
शशी महीपतिं कुर्याद्दिवसे च न संशयः।।9।।
सिंहे सूर्योदये यस्य शुक्रांशकविवर्जिते।
कन्यागते बुधे जातो नीचोऽपि पृथिवीपतिः।।10।।
मीने मीनांशके लग्ने शुक्रे जातो नृपो भवेत्।
लग्नात्मजास्पदस्थौ तु कुजमन्दौ यदा तदा।।11।।
सम्पूर्णचन्द्रो भाग्यस्थो जातो राजा भविष्यति।
अधिमित्रगृहे केन्द्रे जन्माधिपतिर्विलग्नपतियुक्तः।
पश्यति बलपरिपूर्णो लग्नं स्यात् पुष्कलो योगः।।12।।
पुष्कलयोगे जाता जायन्ते भूमिपालका नियतम्।
क्षितिपतिवंशे जाता मकुटच्छत्रान्विता भूपाः।।13।।
जन्माधिपतिः केन्द्रे बलपरिपूर्णः करोति भूपेशम्।
मित्रयुतो दृष्टो वा नीचान्वयसम्भवोऽपि राजा स्यात्।।14।।
लग्नाधिपतिः स्वोच्चे पश्यन् मृगलाञ्छनं नृपं कुरुते।
बहुगजतुरगबलौघैः क्षतिपविपक्षं महाविभवम्।।15।।
लग्नं विहाय केन्द्रे सकलकलापूरितो निशानाथः।
गुरुभृगुजाभ्यां दृष्टः करोति पृथिवीपतिं जातम्।।16।।
विदधाति सार्वभौमं लग्नाधिपतिः स्वतुङ्गभे केन्द्रे।
मुक्त्वारिनीचभागं नान्यग्रहसंयुतो नियतम्।।17।।
चापाजसिंहराशिषु लग्नस्थो भूमिजो महीपालम्।
जनयति च मित्रदृष्टः स्वबाहुबलनिर्जिततारिबलपक्षम्।।18।।
अश्विन्यनुराधासु स्थितः श्रविष्ठासु पार्थिवं भौमः।
कुरुते दशमोपगते लग्नस्थे वा रवौ न नीचस्थे।।19।।
(अश्विन्यां यदि भौमः स्थितः घनिष्ठानुराधयोर्भूपम्।
कुरुते दशमोपगतो लग्नस्थो वा रविर्न नीचस्थः)।।19।।
जीवनिशाकरसूर्याः पञ्चमदुश्चिक्यधर्मगा वक्रात।
यदि भवति तदा राजा कुबेरतुल्यो धनेनासौ।।20।।
यद्येकोऽप्युच्चगतो मित्रेण निरीक्षिता नृपं जनयेत्।
मित्रयुतो लग्ने वा धनधान्यसमन्वितो नृपो भवति।।21।।
यद्येकोऽप्युच्चगतो लग्ने स्वक्षे निशाकरो बलवान्।
भूपतिवंशे जातं राजानं लोकपूजितं जनयेत्।।22।।
उपचयसंस्थैः सौम्यैः क्रूरैर्लग्नाश्रितैः स्वमध्यं वा।
जातो भवत्यवश्यं धरणीश्वरवन्दितो नयज्ञश्च।।23।।
लाभे व्यये वा भृगुजे बलान्विते देवेन्द्रतुल्यो नृपतिः प्रज्ञायते।
मृगोदये भूमिसुते सुनिर्मले शनैश्चरे धर्मगते व्ययस्थिते।।24।।
दिवाकरे सप्तमगे सहेन्दुना चलस्वभावो नृपतिः प्रजायते।
आयारिसहजसंस्थैः षापैर्यदि जन्मपश्च शुभदृष्टः।
भवति तदा धरणीशः समस्तजनवन्दितः साधुः।।25।।
ओजस्थिताः सर्व एव ग्रहेन्द्राः शुक्ले चाह्नि त्वोजराशौ विलग्ने।
जातस्याहुर्भाग्ययोगं च पुंसः स्त्रीणां चाहुस्त्वन्यथा जन्मकालम्।।26।।
भाग्ये जातः पण्डितो यो नरोऽसौ कल्याणानां कारको भृत्यवांश्च।
गान्धर्वज्ञो वारणानामधीशो द्रव्याध्यक्षो लग्नगे सौम्यस्वेटे।।27।।
राजयोगेषु ये जाता निहीनास्तेऽपि पार्थिवाः।
राजवंशोद्भवास्तेषु भवेयुर्भूमिपालकाः।।28।।
इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे राजयोगाध्यायो विंशः।।