अथ तत्रादौ सुनफानफादुरुधुराधियोगास्तत्फलानि च
चन्द्राद्धनगैः सुनफा व्ययगैरनफा तयोर्दुरुधुरा स्यात्।
रविरहितैरधियोगः सौम्यैर्जामित्ररन्ध्ररिपुसंस्थैः।।1।।
स्वार्जितधनोपभोक्ता धीमान् नृपसंभतो नृपो वाऽपि।
शास्त्रार्थवित्प्रवक्ता धर्मपरः ख्यातिमांश्च सुनफयाम्।।2।।
नयविनयज्ञो धृतिमाननेकशास्त्रश्रभो महाविभवः।
अनफायामुत्पन्नः स्त्रीणां वशगोऽतिमानी स्यात्।।3।।
भोगधनैश्वर्ययुतो वाग्मी रणवल्लभो गणाधिपतिः।
व्यग्रो नृपतिस्त्यागी पशुमान् जातो दुरुधुरायाम्।।4।।
अधियोगे भवति नरो मन्त्री पृतनापतिश्च भूपालः।
धनवान् बहुप्रतापी दीर्घायुर्ज्ञानवान् गतारिगणः।।5।।
सौम्यैरयत्नसिद्धं क्रूरैर्यत्नात्फलं समाप्नोति।
पापाधियोगजाते विपरीतफलं विनिर्देश्यम्।।6।।
कष्टं मध्यं श्रेष्ठं भानोः केन्द्रादिसंस्थिते शशिनि।
चन्द्रे क्षीणे विफलं सुनफादिफलं न सम्यगायाति।।7।।
अथ केमद्रुमयोगस्तत्फलं च
ऐते योगा न स्युः केन्द्रे ग्रहवर्जिते शशाङ्काद्वा।
केमद्रुमाख्ययोगस्तस्मिन् जातो नृपोऽपि भिक्षाशी।।8।।
अथ वेसिवास्युभयचरीयोगास्तत्फलानि च
सूर्याव्द्ययगैर्वासिर्वित्तगतैश्चन्द्रवर्जितैर्वेसिः।
उभयस्थितैर्गहेन्द्रैरुभचरी नामको योगः।।9।।
मन्दगतिर्मृदुवचनो दीनाक्षो बन्धुवत्सलो धृतिमान्।
आयव्ययतुल्यकरो जातः स्याद्वेसियोगेस्मिन्।।10।।
पापमतिर्विकलाङ्गो निद्रालस्यश्रमान्वितो वासौ।
पापैरेवं सौम्यैर्बलयुक्तैः सर्वसौख्यसम्पन्नः।।11।।
मुखरो ज्ञानी बलवान् स्वबन्धुनाथो नरेन्द्रदयितः स्यात्।
नित्योत्साही वाग्मी धीमान्मनुजः शुभोभयचरीजः।।12।।
अथ सुशुभाशुभकर्तरीययोगास्तत्फलानि च
लग्नात् द्वितीयसंस्थैरर्केन्दुविवर्जितैः सुशुभः।
अशुभाख्यो व्ययसंस्थैरुभयस्थैः कर्तरी समाख्याता।।13।।
सुशुभे योगे जातो धनवान् वनितादृतो नियमशीलः।
नित्योद्युक्तश्चपलो भोगी न समञ्जसो धनाध्यक्षः।।14।।
अशुभे योगे जातो बलवान् स्वकुलाधिको महोत्साही।
वक्ता परोपकारी त्यागी जनवल्लभोऽतिविख्यातः।।15।।
अत्युग्रो निर्विष्णो पितृमातृद्वेषणो निरुत्साहः।
कर्तरियोगे पापैः परदेशरतो विषाग्निशस्त्रहतः।।16।।
अथ लग्नाधियोगस्तत्फलं च
षट्सप्ताष्टमसंस्थैर्लग्नात् सौम्यैरपापदृष्ययुतैः।
लग्नाधियोग उक्तः पापैः सुखवर्जितेर्भवति।।17।।
लग्नाधियोगजातो मन्त्री पृतनापतिर्धरास्वामी।
बहुदारवान्विनीतो दीर्घायुर्धर्मवानशत्रुगणः।।18।।
अथ पर्वतयोगस्तत्फल च
उदयास्तकर्महिबुके ग्रहयुक्ते रिःफनैधने शुद्धे।
यः कश्चिन्नवमगतो योगाऽयं पर्वतो नाम।।19।।
पर्वतयोगे जातो भूपालो धर्मवान् विनीतश्च।
ग्रामपुरनगरकर्ता लोके श्रुतवान् युगान्तकीर्तिश्च।।20।।
अथ ध्वजयोगस्तत्फलं च
क्रमसंस्थितैर्ग्रहेन्द्रैर्वलवान् कश्चिद्ग्रहोऽन्यराशिगतः।
ध्वजयोगो विज्ञेयस्तेषामेकोऽपि लग्नस्थः।।21।।
प्रख्यातशौर्यकीर्तिर्ज्ञानी धनवान् नरेन्द्रदपितश्च।
प्रचलितचेष्टाबुद्धिर्ध्वजयोगे जायते मनुजः।।22।।
अथ कुण्डलयोगस्तत्फलं च
क्रमसंस्थितैर्ग्रहेन्द्रै रहितावेकान्तरस्थितौ खचरौ।
व्द्यन्तरितौ वा वलिनौ योगोऽयं कुण्डलो नाम।।23।।
कुण्डलयोगे जातः परार्थभाक् क्षिप्रकोपपरितोषः।
काव्यकलास्वतिनिपुणो हीनायुः स्वल्पतनयश्च।।24।।
अथ नाभसयोगाः
अथ तत्रादौ गोलयुगशूलकेदारपाशदामवीणायोगास्तत्फलानि च
एकर्क्षगतैः सर्वैर्गोलो द्विगृहाश्रितैर्युगाख्यश्च।
त्रिगृहाश्रितैश्च शूलश्चतुर्गृहैश्च केदारः।।25।।
पञ्चगृहस्थैः पाशः षट्गृहसंस्थैश्च दामयोगोऽयम्।
सप्तगृहस्थैः सर्वैर्वीणायोगोऽतिविख्यातः।।26।।
वीणायोगे जातो विद्वान् विविधार्थभोगसम्पन्नः।
स्वकुलश्रेष्ठो मतिमान् निपुणो नीतिप्रियो महोत्साही।।27।।
गोमान् सुखी दयालुः परकार्यरतोऽतिविश्रुतो धीमान्।
आढ्यो रणप्रतापी जात; स्याद्दामनामके योगे।।28।।
पाशे बहुव्ययार्तोजा निपुणो जनवल्लभोऽतिमेधावी।
उत्साही नृपतीष्टो जातो गृहकार्यसंस्थितो भवति।।29।।
बन्धूनां हितकारी कृषितो धनवान् स्वधर्मनिरतश्च।
केदारे सम्भूतो जडस्वभावोऽतिमान्यश्च।।30।।
शूले जातो मतिमाननेकवार्तान्वितोऽतिरोगी स्यात्।
क्रयविक्रयाद्धनी स्याद्द्विस्त्रीजनवल्लभोऽनपत्यः स्यात्।।31।।
युगयोगे जातः स्याद्विकलाङ्गो निष्ठुरो विगतलज्जः।
बहुऋणभागी पुरुषो हीनायुः क्षीणबन्धुश्च।।32।।
गोले जातोऽल्पायुर्निः स्वो विकलेक्षणो निजघ्नश्च।
बन्धुसुतदारहीनः सदाटनः क्षुद्विवासबहलश्च।।33।।
कर्मायोगदयधर्मादन्यत्र यथोक्तफलमेति।
अथ केन्द्रयोगास्तत्फलानि च
लग्नकेन्द्रस्थितैः सर्वैयोगो मङ्गलनामकः।।34।।
मध्यकेन्द्रस्थितैः सर्वैर्मध्ययोग उदाहृतः।
आपोक्लिमस्थितैः सर्वैः क्लीबयोग उदाहृतः।।35।।
केन्द्रयोगा इमे ख्याता यवनैरप्युदाहृताः।
मङ्गलाख्ये नरो जातो नित्यं कल्याणकारकः।
वाग्मी प्रजावान् धीमांश्च दीर्घमायुश्च विन्दति।।36।।
मध्ये जातः प्रवासी च बन्धुक्लेशभयान्वितः।
अस्थिरार्थोऽल्पपुत्रश्च दुर्मार्गमृतिमाप्नुयात्।।37।।
क्लीबे दुःखी प्रवासी च नीचस्त्रीकलहप्रियः।
अल्पायुरल्पबुद्धिश्च प्रायो देशान्तरे मृतः।।38।।
अथ रज्जुमुसलनलयोगास्तत्फलानि च
चरराशिस्थितैः सर्वै रज्जुयोग इति स्मृतः।
मुसलः स्थिरराशिस्थैरुभयस्थैर्नलस्तथा।।39।।
अल्पश्रमो दरिद्रश्च मात्सर्यजनवल्लभः।
रज्जुयोगे पुमाञ्जातो मध्यायुश्च जीवति।।40।।
मुसले सत्वसम्पन्नो दारपुत्रधनैर्युतः।
सर्वार्थफलभोक्ता च ज्ञानवान् स्वजनप्रियः।।41।।
नलयोगोद्भवो धीमान् विकलाङ्गोऽल्पसन्ततिः।
पुण्योत्साही धनाढ्यश्च मध्यमायुश्च जीवति।।42।।
अथ मालासर्पयोगी तत्फले च
सौम्यग्रहैः केन्द्रगतैर्मालायोगः स उच्यते।
क्रूरैः केन्द्रगतैः सर्वैः सर्पयोग इति स्मृतः।।43।।
मालायोगे समुत्पन्नो ज्ञानवानर्थवान् भवेत्।
कर्मलग्नयुतैस्तैस्त कुलनाशो न संशयः।।44।।
निःस्वो बहुप्रलापी च पितृस्थानविवर्जितः।
परक्ललैश्च सन्तुष्टो ह्यल्पायुर्भुजगोद्भवः।।45।।
अथ षट्पदयोगस्तत्फलं च
लग्नतष्षट्भवनगैर्ग्रहैष्षट्पद उच्यते।
तत्रोद्भूतो धनाध्यक्षः सर्वेभ्यः सारसंग्रही।।46।।
अथ वराहयोगस्तत्फलं च
उदयात्मजबन्धुस्थैर्वराहो योग उच्यते।
क्षेत्रं वित्तं सुखं ज्ञानं लभते नात्र संशयः।।47।।
अथ कण्टकयोगस्तत्फलं च
द्वित्रिबन्धुस्थितैः सर्वैर्ग्रहैः कण्टक उच्यते।
तत्र जातो धनी विद्वान् मध्यमायुरसन्ततिः।।48।।
अथ हलशृङ्गाटकविहङ्गयोगास्तत्फलानि च
लग्नव्ययस्थैर्हलयोगमेतं शृङ्गाटकं लग्नशुभात्मजस्थैः।
लग्नास्तगैस्तं शकटं ब्रुवन्ति बन्ध्वास्पदस्थैविहङ्गाख्ययोगम्।।49।।
हलोद्भवः क्रोधपरोऽतिनिःस्वो हीनाङ्गमायुश्च कृषीवलः स्यात्।
शृङ्गाटके मारुतकोपदेही महानुभावोऽल्पधनोऽपि जातः।।50।।
शकटयोगसमुद्भवमानुषः शकटवत्सततं परिवर्तते।
तनयदारविनाशनदुःखितो वृजिनवानलसो विकलेक्षणः।।51।।
विहगोदितमानवः सुखी विविधार्थग्रहणेषु तत्परः।
अनिवारितविक्रमो गणैः बहुवासः प्रियसंश्रयोऽन्यगः।।52।।
अथ शङ्खचक्रसमुद्रमहेन्द्रयोगास्तत्फलानि च
धर्मायोदयबन्धुभेषु सहितैः शङ्खः सस्तैर्ग्रहै-
र्लग्नाद्यैर्विषमर्क्षगैश्च सकलैश्चक्रं मुनीन्द्रा जगुः।
वित्तद्येषु तथैव षट्सु भवनेषूक्तो ग्रहेर्वारिधिः
सर्वैव्द्र्यन्तरगैस्तथैव च स्वगैर्योगः शचीवल्लभः।।53।।
धीमान् शङ्खसमुद्भवो गुणनिधिवीर्यान्वितो ज्ञानवां-
श्चक्रे सर्वगुणालयो नरपतिः साम्राज्यसिंहासनी।
जातोऽबधो जनवल्लभोऽतिकृपणो वित्तेश्वरः सात्मजो
विख्यातो बहुनामभिर्धनवतां श्रेष्ठो महेन्द्रोद्भव:।।54।।
इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे चान्द्रनाभसयोगाध्याय एकोनविंशः।।