जयति जगदेकहेतुर्विश्वात्मा सर्वलोकदीपकरः।
अनुदिनमुदयविनाशस्थितिकर्ता भास्करो दिनाधीशः।।1।।
निर्मिषादिवत्सरान्तः कालो राशिप्रमाणमेकैकः।
गणितस्कन्धे प्रोक्तं पूर्वं ग्रहलक्षणैः सार्धम्।।2।।
होरास्कन्धे सम्यग्दशाविभागः पुरा विनिर्दिष्टः।
विस्तारिशास्त्रमार्गैर्न शक्यते मन्दबुद्धिभिर्ज्ञातुम्।।3।।
तस्मात्प्रयोगसिद्धैराचर्यैर्यत्फलं प्रोक्तम्।
तत्स्पष्टार्थं बक्ष्ये होराशास्त्रार्णवात्सारम्।।4।।
मेषवृषमिथुनकर्कटसिंहाः कन्या तुला च वृश्चिककः।
धन्वी मकरः कुम्भो मीनाविति राशिनामानि।।5।।
कन्या सानलसस्या प्लवगाऽथ तुलाधरो घटी मीनौ।
नक्रो मृगास्य उक्तो नरोऽश्वजघनो धनुष्पाणिः।।6।।
मेषवृषसिंहकर्कटकीटास्ते तु स्वनामसदृशचराः।
नरमिथुनं दण्डधरं वीणासक्तं च विज्ञेयम्।।7।।
अलिझषमकरकुलीरा जलात्मका जलचराश्च विज्ञेयाः। तौलिघटवृषभकन्या शेषाः सिंहो गिरिगह्वरप्रदेशस्थः।
तौलिघटवृषभकन्या शेषाः सिंहो गिरिगह्वरप्रदेशस्थः।
सानुप्रदेशनिरतो मेषो नगराश्रितस्तुलाधारी।।9।।
ग्रामचरो मिथुनाख्यो रणभूमिचरो धनुर्धरो राशिः।
कर्कटवृश्चिकमीनाः कीटाख्या वृश्चिको विशेषेण।।10।।
चापान्त्यो मकरादिर्वृषमेषमृगेश्वराश्चतुश्चरणाः।
घटमिथुनतुलाकन्याश्चापस्यार्धं मनुष्यसंज्ञाः स्युः।।11।।
लग्नं प्राप्ता द्विपदा बलान्विता मध्यगाश्चतुश्चरणाः।
सर्वे कीटा अस्ते हिबुके जलचारिणस्तथा बलिनः।।12।।
ऋक्षद्वयं सपादं राशौ राशौ क्रमेण संयोज्यम्।
नव नव पादसमेता मेषाश्विन्यादिमीनपौष्णान्ताः।।13।।
पूषाश्विन्योः सन्धावहिमघयोर्येश्ष्ठमूलयोः सन्धौ।
घटिका गण्डान्ता इह चतुस्समाश्चा परे षडिति।।14।।
अजमृगतौलिकुलीरा नवांशकाद्याः क्रमादजादीनाम्।
स्वगृहाद्राश्ययंशेशा द्रेक्काणेशाः स्वपञ्चनमेशाः।।15।।
शरपञ्चे च सप्त च पञ्च व भागाः क्रमेण विषमेषु।
आरार्किजीवसौम्याः शुक्रश्चैषां समेषु विपरीताः।।16।।
अजवृषभचापमकराः पृष्ठत उद्यन्ति कर्किणा युक्ताः।
मिथुनयुता निशिबलिनो मीनस्तिर्यङ्मुखश्च सन्ध्यायाम्।।17।।
शीर्षोदया विमिथुनाः शेषा दिवसे बलान्विताः सततम्।
स्वामिज्ञजीवयुक्ता दृष्टा वा राशयो वलाढ्याश्च।।18।।
पुंस्त्रीसंज्ञे भवतो राशीनामस्थिराचलद्विगुणाः।
मेषादीनां सिद्धा भूयो भूयश्चरस्थिरद्विगुणाः।।19।।
अजहरिचापा भूषा विप्रा मीनालिचन्द्रभवनानि।
घटमिथुनतुला वैश्याः कन्यामकरवृषभास्तु शूद्राः स्युः।।20।।
मूर्धमुखकण्ठबाहाहृदयोदरबस्तिगुह्यानि।
ऊरू जानू जङ्घे चरणाविति राशयोऽजाद्याः।।21।।
लग्नाद्विचिन्तनीयाः क्रमेण पूर्वोक्तदेहभेदास्ते।
होराक्रमेण चिन्त्या देहस्याङ्गेषु पूर्वपश्चिमता।।22।।
रक्तसितहरितपाटलपरिधूम्रपाण्डुरचित्रकृषणाश्च।
कनकसमपिङ्गकर्बुरबभ्रुकवर्णास्त्वजादीनाम।।23।।
अनिमेषमेषराशी ह्रस्वौ वृषकुम्भयोस्तु वक्रतनुः।
मृगमिथुनकर्किचापा दीर्घाः शेषास्तु मध्यमा ज्ञेयाः।।24।।
क्रियतावुरुजितुमकुलीरलेयपाथोनजूककौर्प्याख्याः।
तौक्षिक आकोकेरी हृद्रोगश्चान्त्यभं चेत्थम्।।25।।
संख्याभिधानमपरैर्मेषादीनां क्रमेण निर्दिष्टम्।
अलिसंज्ञाष्टमराशेर्वनगिरिसंज्ञा मृगेश्वरस्य स्यात्।।26।।
तन्वर्थसहजबान्धवपुत्रारिकलत्रनैधनानि पुनः।
धर्मक्रियायविगमा भावा होरादिषु ज्ञेयाः।।27।।
उदयसुखकामदशमं केन्द्रं तस्मात्परं फणपराख्यम्।
आपोक्लिमं च परतस्तस्मात् त्रिविधास्तु राशयः कल्प्याः।।28।।
केन्द्रस्य कण्टकमथो चतुष्टयं चेति नामनी द्वे स्तः।
आपोक्लिम तु चरमं फणपरसंज्ञं तु मध्यकेन्द्रं च।।29।।
चतुरस्रं वधहिबुकं षट्कोणं लाभषष्ठयोः संज्ञा।
त्रिषडेकादशदशमान्युपचयसंज्ञानि कथितानि।।30।।
जामित्रमस्तभवनं द्यूनं कामश्च चित्तसंज्ञं च।
दुश्चिक्यसहजविक्रमतृतीयकं तुल्यनाम स्याम्।।31।।
आस्पदमाज्ञा दशमं कर्म च मेषूरणं स्वमध्यस्थम्।
हिबुकं सुखं च वेश्म च पातालं वारि बन्धुतुल्याख्यम्।।32।।
सुतधर्मयोस्त्रिकोणं सुतस्य च त्रित्रिकोणमपि नवकम्।
भाग्यं गुरुः शुभं वा तस्मिन्नभिधानमेकैकम्।।33।।
रिफं द्वादशभवनं लोपस्थानं व्ययं च निर्दिष्टम्।
वित्तं कुटुम्बभवनं वाक्स्थानं मङ्गलं समाख्यातम्।।34।।
रन्ध्रं निधनं प्रोक्तं चाष्टराशिर्विनाशदुखं च।
ऋक्षं भवनं क्षेत्रं होरा राशिश्च तुल्यार्थाः।।35।।
उदयाख्यं प्राग्लग्नं लेखा होरा समानाख्या।
राशीनामभिधानं पूर्वाचार्यैः समुद्दिष्टम्।।36।।
राश्यर्धमिति च होरा ललाटरेखेति विश्रुता होरा।
कालपरिज्ञानार्थं होराख्यां केचिदिच्छन्ति।।37।।
इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे राशिविभागाध्यायः प्रथमः।।