अन्तर्दशाधिकारैः पूर्वोक्तदशाफलेषु वैषम्यम्।
तस्माद्दशान्तरदशां ज्ञात्वा सम्यक् फलं हि वक्तव्यम्।।1।।
अथान्तर्दशानयनम्
एकर्क्षगोऽर्धभागं त्रिकोणगस्त्र्यंशमपहरति।
चतुरश्चे पादांशं सप्तांशं सप्तमस्यश्च।।2।।
एषु स्थानेषु गता दशाधिनाथाद्दशापहर्तारः।
होरा यदि राहुयुता नो तेषु दशफलानि सिध्यन्ति।।3।।
अन्तर्दशाविभागे रविशशिनोरेव राहुणा सार्धम्।
यमसदृशफलं वाच्यं नान्येषां केचिदिच्छन्ति।।4।।
इष्टग्रहस्य च दशा नाडी वेदाष्ट(84) संख्यया गुणयेत्।
भागांशग्रहतुल्यं तस्मात् संयोज्य तत्रैव।।5।।
तत्पिण्डभागहारैर्लब्धं स्वदशाफलस्य तस्यैव।
पूर्वयुतांशा ग्रह्यास्तस्याश्चान्तर्दशा प्रज्ञणां स्युः।।6।।
अन्तर्दशा ग्रहाणां पाकक्रमतो दशाफलं योज्यम्।
क्रूरात् क्रूरं पूर्वं सौम्यात् सौम्यं फलं समत्वेऽपि।।7।।
अर्केन्दुशनिगुरूणां पाकेनान्तर्दशाफलं ब्रूयात्।
शेषाणां केन्द्राढ्यैर्होराचार्या वदन्त्येवम्।।8।।
अथ रविदशान्तर्दशाफलानि
भानुदशायां चन्द्रः करोति मित्रार्थभोगसम्पत्तिम्।
जलसंश्रयात् प्रमादं पाण्डुग्रहणीक्षयांश्च कष्टदशाम्।।9।।
भानुदशायां भौमः सुवर्णरत्नादिसंचयं कुरुते।
ख्यातिप्रतापयुक्तं पित्तविकाराग्निरोगसन्तप्तम्।।10।।
सौम्यान्तरे च भानोस्त्वग्दोषविकारपीडितो मनुजः।
ख्यातोऽर्थविहीनः स्यात् सन्नोत्साहः प्रमादबहुलः स्यात्।।11।।
जीवान्तरे च भानोर्विद्यावस्त्रान्नसंग्रहणशीलः।
देवद्विजकार्येषु प्रवर्तते ख्यातिमात्ररेन्द्रधनी।।12।।
शुक्रान्तरे च भानोः प्रवासशीलोऽल्पशुष्कवादरतः।
कण्ठाभिकर्णरोगै रार्तो ज्वरपीडितः स्वतन्त्रश्च।।13।।
मन्दापहारकाले भानोर्नीचारिचोरदुःखार्तः।
सुहृदप्यमित्रभावं कुरुते क्षीर्णार्थवृत्तिरुद्योगी।।14।।
अकाले मृत्युसन्तापं बन्धुवर्गारिपीडनम्।
पदच्यूतिं मनोदुःखं रवेन्तर्गतेऽप्यहो।। -जातक परिजात, XVIII -65
रिपुदयो धनहृतिरापदुद्गमो।
विषाद्भयं विषयविभूदता पुनः।।
शिरोदृशोरधिकरुगेव देहिनां अहौ भवेद हिमकरायुरन्ते।। - फलदीपिका
कण्ठरोगं मनस्तापं नेत्र रोगमथापि वा।
अकालमृत्युमाप्नोति रवेन्तर्गते ध्वजे।। -जातक परिजात, XVIII - 69
सुहृद्व्ययः स्वजनकुटुम्बविग्रहो रिपोर्भयं धन हरणं पदच्यूतिम्।
गुरोर्गदश्चरपाशिरोरुगुच्यकैः शिखियदा विशति दशां विपस्वतः।। -फलदीपिका
अथ चन्द्रदशार्दशाफलानि
चन्द्रदशायां भानोरन्तरकाले कुदेशकर्मरतः।
कुस्त्रीजनाभिलाषी क्षीणधनो बन्धुकलहयुतः।।15।।
इन्दुदशायां भौमान्तरे नरः पुत्रबन्धुरहितः स्यात्।
रोगी विघातकुशलो मायावी स्थानविच्युतो भवति।।16।।
चन्द्रदशायां सौम्यान्तरकाले गोगजाश्वसम्पन्नः।
नित्योत्साही गुणवान् गजाश्वभोगी सुतादिलब्धिश्च।।17।।
चन्द्रदशायां गुर्वन्तरकाले धर्मभोगसम्पन्नः।
विद्याधनैः समेतः प्रसिद्धनामान्वितो विदेशरतः।।18।।
चन्द्रदशायां शुक्रप्रवेशने स्त्रीधनानि सिध्यन्ति।
जलकृषिपशुमणिपोतप्रयोगतोऽर्थागमः सुखं लभते।।19।।
नृपचोरमुषितवित्तस्तेजोहीनो विनष्टसुतदारः।
लभते च महाव्याधिं चन्द्रदशायां प्रवेशने पङ्गो।।20।।
रिपुरोगभयात् क्लेशं बन्धुनाशं धनक्षयम्।
न किञ्चितसुखमाप्नोति राहो चन्द्रदशान्तरे।। -जातक परिजात, XVIII - 76
तीव्रदोषपरिपुवृद्धिवन्धुरुक् मारुताशनिभयार्क्तिरुग्भवेत्।
अन्नपानजनितज्वरोदयश्चन्द्रवत्सरविहाराकेऽह्यहौ।। - फलदीपिका
स्त्रीरोगं बन्धुनाशं च कुक्षिरोगादियीऽनम्।
द्रव्यनाशमवाप्नोति केतौ चन्द्र दशान्तरे।। - जातक परिजात, XVIII - 80
चित्तचञ्चलमनर्थविच्यूतिर्बन्धुहानिरपि रोगजं भयम्।
दासभृत्सहतिरस्ति देहिनां केतुके हरति चान्द्रमदकम्।। - फलदीपिका
अथ कुजान्तर्दशाफलानि
सूर्यपहृतौ भौमाद् दुर्गचरो ज्ञानवान्नरेन्द्रधनी।
पितृबन्धुजनैस्त्यक्तः कलहप्रीतोऽतिमान्यश्च।।21।।
भौमाच्चन्द्रापहृतौ पित्तश्लेष्माधिको महोत्साही।
बहुजनविहरणशीलो वहुप्रकारोपजीवनं कुरुते।।22।।
भौमदशायां सौम्ये प्रविशति रिपुरोगपीडितो मनुजः।
सन्नोत्साहो नृपतेः पराजयी पुत्रदाररहितः स्यात्।।23।।
जीवापहृतौ भौमात् कुलाधिको ज्ञानवान्नरेन्द्रधनी।
दारसुतबन्धुमान्यो गोगणयुक्तश्च धर्मनिरतश्च।।24।।
भौमाच्छुक्रापहृतावस्वस्थो रोगवान्विदेशरतः।
स्त्रीजनवैरी कुहको गोत्रच्छेदः परापवादी वा।।25।।
मन्दापहृतौ भौमात् क्लेशान्ते क्लेशमाप्नुयात्सततम्।
दारसुतबन्धुहीनः स्थानभ्रंशो मृतिर्वाऽपि।।26।।
नृपचोरादिभीतिश्च धनधान्यविनाशनम्।
दुष्टकर्मादिसंसिद्धिः राहौ कुजदशान्तरे। - जातक परिजात, XVIII - 86
शस्त्राग्निचोर रिपुभूपभयं विषार्तिः कुक्ष्यक्षिशीर्षजगदो गुरु वन्धुहानिः।
प्राणोव्ययोऽथ यदि वा विपुलापदो वा वक्रायुत्तरगते कुजगाधिनाथे।। -फलदीपिका
कुक्षिरोगेण सन्तापं बन्धुसोदरपीडनम्।
दुष्टमानवशत्रुत्वं केतौ कुजदशान्तरे।। - जातक परिजात, XVIII -90
अशनिभयकस्मादग्नि शस्त्रपीडा
विगमन मय देशाद्वितनाशोऽथवा स्यात्।
अपगमनमसुम्यो योषितो वा विनाशः
प्रविशति यदि केतुः क्रूरनेत्रायुन्तरम्।। - फलदीपिका
अथ बुधदशान्तर्दशाफलानि
सौम्यदशायां भानोरन्तरकाले नितान्तभोगी स्यात्।
आकस्मिकधनयुक्तो जलवासी देवगुरुभक्तः।।27।।
सौम्याच्चन्द्रविभागे मृतप्रजासम्भवो न सन्तुष्टः।
कुस्त्रीसक्तो रागो कुष्ठी च ज्ञातितो भयप्राप्तिः।।28।।
सौम्यात्कुजापहारे गुह्यरोगार्त्तो न दारपुत्रयुतः।
ऊर्ध्वाङ्गरोगबहुलो बहुव्ययार्त्तोऽल्पजातिसन्तुष्टः।।29।।
जीवापहृतौ सौम्यात् सुतदारसमन्वितो विगतशोकः।
नृपमन्त्री नेता वा पितृमातृविवर्जितो भवति नूनम्।।30।।
इन्दुसुतस्य दशायां शुक्रविभागे धनान्वितो धीमान्।
वस्त्रालङ्कारयुतो बुभुक्षितो देवकार्यसन्तुष्टः।।31।।
मन्दापहृतौ साम्यान्नीचप्रायोऽल्पसन्तुष्टः।
क्लीबो मृदुस्वभावो वातरुगार्तोऽन्नपाननिरतः स्यात्।।32।।
मित्रबधुधनप्राप्तिं सुखविद्याभूषणम्।
राजप्रीतिमवाप्नोति राहो सौम्य दशान्तरे।। -जातक परिजात, XVIII - 140
मानहानिरथवाश्रयच्यूतिः स्वर्क्षतोऽग्निविषतोयजं भयम्।
मस्तकाक्षिजठप्रपीडनं शीतरश्मिजदशां गतेऽसुरे।। -फलदीपिका
बन्धुपीडा मनस्तापं सौख्यहानिमरेर्भयम्।
कार्यनाशमवाप्नोति केतो सौम्य दशान्तरे।। - जातक परिजात, XVIII - 135
दुःखशोककलहाकुलात्मता गात्रकम्पनमित्रसंयुतिः।
क्षेत्रियान्वपियुतिर्यदा सोमसूनुशरदं गतः शिखी।।- फलदीपिका
अथ गुरुदशान्तर्दशाफलानि
जीवदशायां भानोरन्तरकाले सुतार्थभोगयुतः।
ख्यातो विशिष्टनामा लोकसभापूजितोऽतिमान्यश्च।।33।।
जीवाच्चन्द्रविभागे बहुदारसमन्वितो धनी विद्वान्।
नृपदयितो विख्यातो नृपार्थलाभान्महोत्साही।।34।।
जीवात्कुजापहारे मस्तकरोगी गुदाक्षिरोगी वा।
परगृहवासी विकलो रिक्तनुर्बाध्यतेऽरिणा नित्यम्।।35।।
जीवाद्बुधापहारे धर्मविरुद्धाश्रितो विदेशरतः।
मन्दोत्साही चपलो जलप्रमादी विवादी च।।36।।
जीवात्सितान्तराले वातश्लेष्मान्वितोऽग्निदीप्तश्च।
धर्मक्रियास्वभीष्टो विद्यावस्त्रान्नसंग्रहणशीलः।।37।।
मन्दापहृतौ जीवात् कृषिपशुवित्तन्वितोऽतिरोगी स्यात्।
स्त्रीव्यसनकर्शितात्मका प्रेष्यजनैः पीडितो विद्याद्यैर्वा।।38।।
सर्वक्लेशशंभय रोगं सर्वोपद्रवकारणम्।
धनच्छेदमाप्नोति राहोजीवदशान्तरे।। -जातक परिजात, XVIII - 119
बन्धूपतिप्तरुरुमानसरुग्गदार्तिश्चोराद्
भयं गुरुगदो जठारोद्भवो वा।
राजेन्द्रपीडनपरिव्यसनं स्व नाशः
सम्पद्यते हरति सुरिदशा सुरारौ।। -फलदीपिका
मुक्ताप्रवालभूषाप्तिस्तीर्थयात्रा धनायतिः।
गुरुभूपवशादार्तिः केतौ जीव दशान्तरे।। - जातक परिजात, XVIII - 114
शस्त्रव्रणो भवति भृत्यजनैविरोधः
चितव्यया तनययोषिदुपद्रवश्च।
प्राणच्यूतिगुरुसुहृदज्जनविप्रयोगः
सौरेड्यमायुरूपहृत्यददाति केतुः।। - फलदीपिका
अथ शुक्रान्तर्दशाफलानि
शुक्रात् सूर्यविभागे गुदाक्षिशूलादिपीडितो मनुजः।
नृपजनितभयाविष्टो बन्धुक्लेशाद्धनक्षयं याति।।39।।
चन्द्रापहृतौ शुक्रात् श्वापदपीडाग्निपित्तरोगयुतः।
अनिवारितरणवेगो जेता स्त्रीसङ्गमाद्धनप्राप्तिः।।40।।
शुक्रात्कुजापहारे नीचस्त्रीभोगवान् विकलदन्तः।
पैत्तिकरोगोद्रिक्तो मन्दोत्साहः पुमान् भवति।।41।।
शुक्रात्सौम्यविभागे दुरन्तकार्यान्वितोऽभिमानी स्यात्।
पशुफलवृक्षाद्वित्तं लभते दारप्रियोऽतिसन्तुष्टः।।42।।
शुक्रदशायां च गुरोरन्तकाले गतार्थसिद्धः स्यात्।
यज्ञक्रियादिनिपुणो सुतदारसमन्वितः सुखी भवति।।43।।
शुक्रान्मन्दविभागे भूमिस्त्रीसङ्ग्रही विषमशीलः।
नृपजनितधनप्राप्तिः समानशौर्यान्वितो धनी भवति।।44।।
नीलवस्तु धनप्राप्तिं बन्धुद्वेषं सुहृदयम्।
अग्निबाधामवाप्नोति राहो शुक्र दशान्तरे।। - जातक परिजात, XVIII - 163
निधिभवः सुतलब्धिरभीष्टवाक् स्वजनपूजनप्यरिवन्धनम्।
दहनचोरविषोद्भवपीडनं कुलधरेश्वरवत्सरगेऽसुरे।। - फलदीपिका
कलहं वन्धुनाशं च शत्रुपीडा मनोभवम्।
धनच्छेदमवाप्नाति केतो शुक्र दशान्तरे।। - जातक परिजात, XVIII - 167
सुतसुखादिवहिस्तुतिरग्निजं भयमतीव विनाशनमन्तरुक्।
अपि च वारवधुजनसंयुतिः शिखिनि यात्यलमौशनसीं दशाम्।। - फलदीपिका
अथ शनिदशान्तर्दशाफलानि
मन्ददशायां भानोर्दशापहारे सुखेतराणि स्युः।
रिपुभयकलहोद्रिक्तो सुतदारविवर्जितोऽन्यदेशरतः।।45।।
मन्ददशायां चन्द्रे प्रविशति मातृक्षयो मनोदुःखम्।
भग्नोत्साही चपलो बन्धुक्लेशान्वितो दयाहीनः।।46।।
मन्दात्कुजापहारे जायन्ते मृत्युरोगदुःखानि।
स्थानपशुवित्तनाशः सुतदारविनाशनं वाऽपि।।47।।
मन्दाद्बुधापहारे स्त्रीबालसमन्वितो धनी विद्वान्।
सत्सेवी नृपदयितो वातश्लेष्मादिपीडितो भवति।।48।।
जीवापहृतौ मन्दात् काव्यकलाज्ञानवान्नरेन्द्रधनी।
बडुजनपूजितदेहो बहुभोगसमन्वितो महोत्साही।।49।।
मन्दात् सितापहारे पत्नीपुत्रान्वितो धनाध्यक्षः।
धर्मपरो रिपुहन्ता स्वाध्यायाध्यापको भवेन्नियतः।।50।।
सर्वाङ्गरोगसन्तामं चोरानिनृपपीडनम्।
धनच्छेदमवाप्नोति राहौ मन्दशान्तरे।। - जातक परिजात, XVIII - 131
अपमार्गयानमसुभिर्विरहं त्वयवा प्रमेहगुरुगुल्मभयम्।
ज्वरसुक्षितिस्सततमेवनृणामसितान्तरं विशति भोगिपते।। -फलदीपिका
वातपित्तकृतं रोगं कलहं नीच दुर्जनैः।
दुःस्वप्नभयमाप्नोति केतोमन्द दशान्तरे।।
मरुदग्निपीडनमरिव्यसनं सुतदाविग्रह मतिः सततम्।
अशुभावलोकन महेशश्चभयं मृदुवत्सरं इरति केतुपतौ।। -फलदीपिका
अथ दशान्तर्दशाविशेषफलानि
अन्तर्दशा यदा द्वित्रिचतुर्णामेकराशिसंस्थानाम्।
प्रोक्तफलं प्रत्येके त्यक्त्वा क्लेशांश्च कुर्वन्ति।।51।।
संयुक्तानां तु दशाक्षेत्रोच्चविवर्जिता सदा दुःखम्।
जनयेत्प्रतापहीनं धनिनं प्रेष्यान्वितं सरोगं च।।52।।
सुखदारपुत्रवित्तं जनयति तस्मात् त्रिकोणसंस्थस्य।
बन्धुस्थितरस्य हि दशा-मित्रारोग्यं सुखं धनं लभते।।53।।
जामित्रे स्त्रीद्वेष्यो रन्ध्रस्थे मृत्युरोगो वा।
प्रकृतिर्दशान्तरदशाफलमेवं चिन्तयेद्धि दैवज्ञः।।54।।
लग्नाधिपतेस्तुल्यं लग्नदशायां फलं विनिर्देश्यम्।
यमसदृशफलं वाच्यं दशासु राहोर्दशान्तरे काले।।55।।
अर्केन्द्वारशनिभ्यो दशापहारे मृतिं वदेद्राहोः।
वैषम्यान्मिश्रफलं प्रकृतिदशायां विशेषकरम्।।56।।
दाराधिपतिर्यस्मिन्नंशे पुरुषस्य जन्मकाले स्यात्।
पाके तु वर्तमाने तस्याधिपतेः कलत्रसंयोगः।।57।।
अष्टमपस्य दशायामधिपेन हृतेऽरिभस्य तस्यैव।
मरणं हि तत्र काले निर्देश्यं क्रूरयोस्तयोर्नियतम्।।58।।
राहुर्यस्मिन्नंशे जनने पुरुषस्य यस्य सभवति।
तस्य दशायां मरणं शत्रो-राह्वारकाले वा।।59।।
लग्नदशायां शत्रोर्लग्नस्य दशाहृतिर्यदा काले।
निधनमवश्यं तस्मिन् सौम्यग्रहसंयुते न निर्देश्यम्।।60।।
होराजन्माधिपतेः शत्रुर्यो मृत्युसंस्थितो यश्च।
तस्याष्टवर्गशून्ये दशाविभागे यदा तदा निधनम्।।61।।
विलग्नाधिपतिर्नीचेनिधने भार्गवोऽपि वा।
तद्दाये व्याधिमाप्नोति क्रूरे लग्नं समाश्रिते।।62।।
षष्ठाष्टमव्ययेशानां स्फुटयोगं गते शनौ।
मृतिं भ्रातुर्विजानीयात् तत् त्रिलोकणमथापि वा।।63।।
लग्नाच्चन्द्रादथवा द्वाविंशदृगाणमाश्रिते जीवे।
तस्याधिपत्रिकोणं याते वा मृत्युमादिशेत्तस्य।।64।।
स्फुटेज्यराह्वोः संयोगराशिं यातो यदा गुरुः।
तदा तु निधनं विद्यात् तत्त्रिकोणमथापि वा।।65।।
निधनेशद्वादशांशत्रिकोणे भास्करे मृतिः।
निधनेशत्रिकोणे वा सूर्ये व्ययगते तु वा।।66।।
स्फुटार्कस्य कलाः स्थाप्यास्ता राहुकलिकाहताः।
चक्रलिप्ता (216000) हृताललब्धं योयजेत् स्फुटभास्करे।।67।।
दृश्यते भास्करो यस्मिंस्तस्मिन्मासे मृतिं वदेत्।
तत्त्रिकोणगते वाऽपि चाणक्यवचनं यथा।।68।।
चन्द्रनिधनेश्वरस्य त्रिकोणामायाति शीतगौ निधनम्।
योगं विधौ तयोर्वा तस्य नवांशत्रिकोणसंस्थे वा।।69।।
जन्मविलग्नोपगताच्चन्द्रोपगतान्नवांशकादथवा।
षष्ठे वाष्टमराशौ लग्नगते मरणमादेश्यम्।।70।।
जन्मलग्नाष्टमे राशौ जन्मलग्नोदयेऽपि वा।
लग्ननीचोदये वाऽपि तेषां शून्योदये मृतिः।।71।।
उत्तमयोगभवा ये तेषामन्तर्दशासु रिष्टफलाः।
न भवन्ति ग्रहयज्ञैर्दानैर्होमैस्तथा जपैः खेटाः।।72।।
इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारेदशान्तर्दशा फलाध्यायोऽष्टदशः।।