यद्गोचरे जन्मगृहाद ग्रहाणां पृथक् फलं द्वादश राशिषूक्तम्।
नृणां तदे कर्क्षभुवां फलस्य भेदोदनैकान्तिकमुक्तमाद्यै।।1।।
यत्र स्थितः शीतकरो नराणां स्याज्जन्मराशिं तमुदाहरन्ति।
यथ तथा येषु खगाः सलग्नाः स्थिता न ते सप्तकतो भवन्ति।।2।।
अतोऽष्टटराशिर्मनुजोऽत्र सर्वः प्रोक्तोऽत्र तेभ्यश्च शुभाशुभानि।
फलानि तेषां च वियोगयोगा यदाऽष्टवर्गात्थ फलं स्फुटं स्यात्।।3।।
स्वारार्किभ्यो दिनेशः स्वसुखमृतितपं खास्तलाभाद्ययातः
शुक्रावस्तारि रिः फेष्वरितनयतपोलाभवर्ती सुरेज्यात्।
चन्द्राल्लाभारिकर्मत्रिषु शशितनयात्सान्त्यधर्मात्मजेषु-
प्रोक्तो लग्नाद् व्ययाम्बूपचयगृहगतः क्षुप्रशस्तोऽष्ट वर्गात्।।4।।
इन्दुर्लग्नात् षडायत्रिदशसु कुसुसात् सस्वधर्मात्जेषु-
स्यात् सास्ताद्येषु सूर्यात् समदनमृतिषु त्र्यायधीषट्सु मन्दात्।
ज्ञान केन्द्रामात्मजाष्टत्रिषु विबुधगुरोः केन्द्ररन्धान्त्यलाभे-
शुक्राद्धीश धर्मवन्धुस्मरसहजनभोलाभगश्च प्रशस्तः।।5।।
केन्द्रापस्वाष्टगः स्वादुपचयतनयेष्वर्कतः षट्त्रिलाभे-
प्रालेयांशोः प्रशस्त प्रथम सहजड्लाभमध्येसु लग्नात्।।
ज्ञान षट्त्र्यायात्मजेषु व्ययरिपुदशमायेषु जीवाञ्च शुक्रात्-
षड्लाभान्त्याष्टमेषु क्षितिज इनसुनात् केन्द्ररन्ध्राय धर्ये।।6।।
ज्ञः शुकात् स्याद्य लाभाष्टमनवमसुखे सत्रियुत्रे कुजार्क्यो:-
साज्ञावारेऽथ जीवाद व्ययरिपुनिधनायेषु शस्तो दिनेशात्।
धीधर्मान्त्यारिलाभे त्रितनुदशयुते स्वात् स्वषट्प्राप्तिरन्ध्र-
व्योमाम्बुष्विन्दुतोऽरिस्वसुखमृति तनुव्योमलाभेषु लग्नात्।।7।।
जीवोभौमात् स्वकेन्द्रागममृतिषु रवेः सत्रिधर्मेष्वथ स्यात्-
सभ्रातृष्विन्दुजात षट् स्वसुतसुखतनुव्योमधर्मागमेषु।
लग्नात् सास्तेषु चन्द्रात् स्मरगुरुधनधीप्राप्तिभेष्वर्क पुत्रात्,
धीषट्त्र्यन्तेषु शुक्रात् स्वसुतशुभनभोलाभविद्वेषिभेषु।।8।।
इन्द्रोर्य्सस्तारिस्वेषु व्यरिमदननभोन्त्येषु लग्नात् प्रशस्तो-
व्यस्तान्त्यारातिषु स्वाद् व्ययनिधनभवेष्वर्कतो दैत्यमन्त्री।
धीधर्मायाष्टवन्धुत्रिदशसु रविजात धीतपः स्वाष्टलाभे-
जीवात् ज्ञात् धीत्रिलाभक्षतनवसु कुजाद्धीभवापोक्लिमेषु।।9।।
स्यात् सौरिस्त्र्यायपुत्रारिपु धरणिसुतात सव्ययाज्ञेषु सूर्यात्-
केन्द्रस्वायाष्टसु ज्ञाद् व्ययमृतिरवभवारातिधर्मेषु चन्द्रात्।
षट्त्र्यायस्थो विलग्नादुपचयहिवुकाद्येषु षष्ठारिरिः फे-
शुक्राद्वाचस्पतेश्च व्ययतनयभवारातिषु स्यात्प्रशस्तः।।10।। - (गुणाकरः)
शान्याष्टकवर्ग
अथ स्यानं पवक्ष्यामि लग्नस्य द्विजपुङ्गव।
आर्क्किज्ञशुक्रगुर्वाराः सौम्यदेवज्यभार्गवाः।।
हित्ना सौम्यगुरु शेषाः सूज्ञेज्यभृगुसूर्यजाः।
तथाजीवभृगू बुद्धौ सर्वे शुक्रं विनाक्षते।।
जीव एकस्तथा द्युने मृतौ सौम्य भृगू तथा।
धर्मेगुरुसितौ सर्वे रवे चाये शुक्रमन्तरा।।
सूर्यचन्द्रौ तथारिःफे स्थानं लग्नस्य कीर्त्तितम्।। -पराशर
लग्नाष्टकवर्ग
एतग्रहोच्ये जातस्य सर्वारिष्टं विनश्यति।
द्वि ग्रहोच्ये तु सामन्तरिस्त्रग्रहोच्चे महिपति।।
चर्तुग्रहोच्ये सम्राट् स्यात पञ्चोच्ये लोकनायक।।-कालप्रकाशिका
अथाष्टवर्गफलम्
ग्रहप्रभृतिसंस्थानं निर्दिशेदक्षरैः क्रमात्।
राशिचक्रं लिखेद्भूमौ संयोज्याक्षरसंख्यया।।1।।
शून्याक्षरेण दशमं निर्दिशेद्विधिवत्ततः।
सूर्यादिलग्नपर्यन्तमेतैर्वाक्यैर्विनिक्षिपेत्।।2।।
स्वेषु स्वेष्टवष्टवर्गेषु ग्रहाणां च पृथक् पृथक्।
दशां द्वादशसंभिन्ना योजयेत्तत्र तत्र हि।।3।।
ग्रहादिनां फलं ज्ञात्वा निर्दिशेच्च पृथक् पृथक्।।
दशायां शून्यभावेषु शत्रुनीचगृहेषु च।।4।।
व्याघ्यर्थनाशदुःखादींल्लभते नात्र संशयः।
एकद्वित्रिफलं राशौ धनधान्यपशुक्षयः।।5।।
चत्वारि मध्यमानि स्युर्दशा तत्रैव मध्यमा।
पञ्चमादिफलैर्युक्तं स्थानं स्यात्सर्वसिद्धिदम्।।6।।
क्षेत्रोच्चोपचयस्थाने फलमेतदुदाहृतम्।
पूर्वोक्तमार्गेण शुभमष्टवर्गं विनिर्दिशेत्।।7।।
शुभानि द्विगुणं कुर्युरन्यथा चान्यथा भवेत्।
एवं द्वादशमूर्त्यादिस्थानेषु च दशाफलम्।।8।।
मूर्त्ते: शरीरसम्पत्तिमङ्गोपाङ्गनिरूपणम्।
सत्य सौभाग्यवित्तं च द्वितीयस्थानतो विदुः।।9।।
स्वरं सत्त्वं विक्रमं च भ्रातरं च तृतीयभात्।
सुखं बन्धुर्गुणश्चैव मातृचिन्ता च तुर्यतः।।10।।
स्वभावो बुद्धिविस्तारः पुत्रस्थानं तु पञ्चम्।
ज्ञातिशत्रुक्षतादीनि षष्ठेन च (तु) विचिन्तयेत्।।11।।
प्रसवं दारसौभाग्यं सप्तमस्थानतो विदुः।
आधिव्याधिमृतीर्नाशमष्टमं परिचक्षते।।12।।
भाग्यस्थानं गुरुस्थानं धर्मस्थानं ततः परम्।
कर्माजीवस्तु दशमो प्रतापः पौरुषं श्रुतिः।।13।।
कीर्तिश्च ज्ञायते तत्र दृष्टादृष्टनिरूपणम्।
ऐश्वर्यमर्थलाभं च विदुरेकादशाद्गृहात्।।14।।
द्वादशं तु व्ययस्थानं पापस्थानं प्रचक्षते।
एवं द्वादशभावेषु चिन्तयेन्मतिमान्नरः।।15।।
पापान्वितास्तु ये भावास्ते भावाः स्युर्विनाशिनः।
सौम्याः सिद्धिकरा ज्ञेया मिश्रा मिश्रफलप्रदाः।।16।।
मित्रोच्चभवनस्थश्चेत्पापः शुभफलं दिशेत्।
अरातिनीचभस्थश्चेच्छुभः पापफलं दिशेत्।।17।।
एवमादिफलैः सार्द्धं दशाफलमुदीरयेत्।
आत्मप्रभावशक्तिश्च पितृचिन्ता रवेः फलम्।।18।।
मनो बुद्धिप्रसादश्च मातृचिन्ता तु चन्द्रतः।
भ्रातृसत्त्वगुणान् भूमिं भौमेन तु विचिन्तयेत्।।19।।
प्रज्ञावाक्कर्मविज्ञानं बुधेनैव विनिर्दिशेत्।
गुरुणा देहपुष्टिं च बुद्धिपुत्रार्थसम्पदः।।20।।
शुक्राद्विवाहकर्म स्याद्भोगस्थानं च वाहनम्।
आयुश्च जीवनोपायो मरणं च शनैश्चरात्।।21।।
बलहीना ग्रहा ये स्युर्जन्मकाले सदा नृणाम्।
तेषामुक्तं फलं हीनं विपरीतं शनेः स्मृतम्।।22।।
स्वेषु स्वेष्वष्टवर्गेषु ग्रहोक्तफलमादिशेत्।
अष्टवर्गादृते नैव दशाज्ञानं भवेत् ध्रुवम्।।23।।
आदित्याष्टकवर्गे च निक्षिप्याकाशचारिषु।
अर्कस्थितस्य नवमो राशि पितृगृहं स्मृतः।।24।।
तद्राशिफलसंख्यमिर्वर्धयेच्छोध्यपिण्डकम्।
सप्तविंशतिसंभाज्यं शेषर्क्षं याति भानुजे।।25।।
तस्मिन् काले पितृक्लेशो भविष्यति न संशयः।
तत्र्त्रिकोणगते वाऽपि पितुः पितृसमस्य वा।।26।।
मरणं तस्य जानीयाद्दशाच्छिद्रमुद्रीक्ष्य च।
चन्द्रलग्नाद् गुरुस्थानं याते सूर्यसुते सति।।27।।
पित्रोर्नाशस्तत्र काले वक्ष्यते चार्कचन्द्रयोः।
दशानुकूलकाले तु योजयेत्कालवित्तमः।।28।।
लग्नात्सुखेश्वरांशेशदशायां च पितृक्षयः।
सुखनाथदशायां वा पितृनाशस्त्वसंशयः।।29।।
पितृजन्माष्टमे जातस्तदीशो लग्नगोऽपि वा।
तेनैव पितृकार्याणि कारयेन्नान्यथा यतः।।30।।
शुभेशे लाभलग्नस्थे चन्द्रलग्नाद्विशेषतः।
मित्रग्रहसमायुक्ते माता पितृवशानुगा।।31।।
तेनैव पितृकार्येषु कर्मशेषं समापयेत्।
पितृजन्मतृतीयर्थे जातः पितृधनाश्रितः।।32।।
पितृकर्मगृहे जातः पितृतुल्यगुणान्वित:।
तदीशे लग्नसंस्थेऽपि पितृश्रेष्ठो भवेत्सुतः।।33।।
सूर्योष्टवर्गे यद्राशौ फलं शून्यं प्रजायते।
विवाहव्यवहारादि तन्मासे वर्जयेत्सदा।।34।।
कलहायासदुःखानि शून्यमासि च सन्ति हि।
एवमादिफलं ज्ञात्वा मासं प्रतिसमाचरेत्।।35।।
संशोध्य पिण्डं सूर्यस्य रन्ध्रमानेन वर्धयेत्।
हृतात् द्वादशभिः शेषं मेषादिगणयेत्पुनः।।36।।
तस्मिन्मासे मृतिं विद्यात्तत्र्त्रिकोणर्क्षकेऽपि वा।
चन्द्राष्टवर्ग निक्षिप्य शून्यफलगते विधौ।।37।।
तन्नक्षत्रं परित्यज्य शुभकार्याणि कारयेत्।
चन्द्राष्टमे च नक्षत्रत्रितये च विशेषतः।।38।।
आयासव्याधिदुःखानि लभते नात्र संशयः।
चन्द्रात् सुखफलैः पिण्डं वर्धयेद्भैर्विभाजयेत्।।39।।
शेषमृर्क्षं शनौ याते मातृहानि विनिर्दिशेत्।
तत्र्त्रिकोणेषु वा केचिदाहुश्छिद्रदशासु च।।40।।
चन्द्रलग्नात्सुखस्थाने युते रवितनूभुवा।
दृष्टे वा तेन तत्स्थाने पूर्वाह्णे कालसङ्गमे।।41।।
मृत्युं वा दूरगमनं निर्दिशेत्कालचिन्तकः।
चन्द्रात्सुखाष्टमेशांशात् त्रिकोणे दिवसाधिपे।।42।।
मातुर्वियोगं तन्मासे निर्दिशेल्लग्नतः पितुः।
पितृवन्मातृचिन्तायां फलं सर्वं प्रकल्पयेत्।।43।।
भौमाष्टवर्गे संचिन्त्या भ्रातृसंपत्तथैव च।
भौमे बलविहीनश्चेद् धीप्रयासान्वितो भवेत्।।44।।
बुधाष्टवर्गं संशोध्य शेषराशिगते शनौ।
पुत्रमित्रविनाशादींल्लभते नात्र संशयः।।45।।
गुरोरष्टकवर्गे च सन्तानमपि कल्पयेत्।
गुरोः फलानि यावन्ति सुतस्थाने स्थितानि च।।46।।
शत्रुनीचग्रहफलं त्यक्त्वा तावन्त आत्मजाः।
गुरोः सुतगृहे येंऽशस्तावन्तस्तनयाः स्मृताः।।47।।
सुतभेशनवांशैर्वा समानांस्तनयान्वदेत्।
गुरोरष्टकवर्गे च शोध्यशेषफलेषु वै।।48।।
क्रूराश्रितफलं त्यक्त्वा शेषास्तस्यात्मजाः स्मृताः।
व्ययाष्टमसुतस्थैश्च पापैः क्षीणा हि सन्ततिः।।49।।
गुरोरष्टकवर्गे चेत्सुतराशौ फलत्रयम्।
अल्पात्मजः स विज्ञेयो गुरोः पञ्चमभेऽपि वा।।50।।
तदीशयुक्तदृष्टे वा तदा पुत्रान्समादिशेत्।
एतैर्बहुप्रकारैस्तु कल्पयेत्कालवित्तमः।51।।
सर्वलक्षणसंयोग तदा तस्मिन् समादिशेत्।
वंशक्षयादियोगा हि वक्ष्यन्तेऽग्रे मया-स्फुटय्।।52।।
पूर्वोक्तलक्षणेनैव वंशलक्ष्य समादिशेत्।
भृगोरष्टकवर्गं च निक्षिप्याकाशचारिषु।।53।।
त्रिकोणशोधनं कुर्यात्पश्चादेकाधिपत्यजम्।
येषु भेषु फलानि स्युर्विशेषेण च तेषु च।।54।।
भूमिं कलत्रं वित्तं च कालविन्निर्दिशेन्नृणम्।
शुक्रजामित्रतो लब्धिं दाराणां निर्दिशेद् बुधः।।55।।
दाराधिपांशपक्षेत्रं दारजन्मर्क्षभं विदुः।
तस्योच्चे निजराशौ वा केचिदिच्छन्ति तद्विदः।।56।।
तस्यांशकत्रिकोणे वा भार्याजन्मर्क्षभं वदेत्।
लग्नेन्द्वोभाग्यभं जन्म वदन्ति मुनिसत्तमाः।।57।।
उक्तप्रकारामार्गेण भार्याया जन्मलग्नमम्।
तयोः समागभर्क्षं च कल्पयेदत्र बुद्धिमान्।।58।।
अनुक्ताराशिजन्मर्क्षमस्ति चेन्नास्ति सन्ततिः।
भाग्यदारेशयुक्तर्क्षफलसंख्याः स्त्रियो विदुः।।59।।
क्षेत्रे त्रिगुणना तुल्या नवांशे द्विगुणास्तथा।
मन्दांशे मन्दसंयुक्ते मन्दक्षेत्रगते भृगौ।।60।।
नीचांशे पापयुक्ते वा नीचस्त्रीभोगमृच्छति।
भौमांशकगते शुक्रे भौमक्षेत्रगतेऽथवा।।61।।
भौमेन दृष्टे युक्ते वा परस्त्रीभोगमिच्छति।
जामित्रे मन्दभौमांशे तदीशे मन्दकामगे।।62।।
बेश्या वा जारिणी वाऽपि तस्य भार्या न संशयः।
पापारूढांशगे चन्द्रे जामित्रे व्ययभेऽपि वा।।63।।
पापग्रहान्विते शुक्रे स्त्रीहेतोर्भ्रंशमावहेत्।
शुक्रांशकसमाना स्त्री वर्णरूपगुणान्विता।।64।।
भाग्येशांशपतुल्या वा दारेशस्य गुणान्विता।
तेषां बलाबलनैव भार्याया लक्षणं वदेत्।।65।।
एवमादिफलं ज्ञात्वा निर्दिशेत् शुक्रवर्गतः।
शनैश्चराष्टवर्गं च निक्षिप्याकाशचारिषु।।66।।
लग्नप्रभृतिमन्दान्तं फलान्येकत्र योजयेत्।
मन्दादिलग्नपर्यन्तं फलान्यन्यत्र योज्येत्।।67।।
फलसंख्यासमानाब्दे व्याधिं दुःखं समादिशेत्।
तयोर्योगसमानाब्दं मृत्युवर्षं प्रचक्षते।।68।।
शोध्यसंशोधनं कृत्वा पिण्डं संस्थाप्य रन्ध्रगैः।
फलैर्हत्वा भजेत्सप्तविंशत्यायुः फलं भवेत्।।69।।
शेषेण मासा दिवसा घटिकाश्च प्रकल्पयेत्।
दशाछिद्रसमे काले तस्मिन् मृत्युर्न संशयः।।70।।
मन्दाष्टवर्गे राशौ तु फलहीने क्षयो भवेत्।
तद्भक्ते भास्करेणेन्दौ तस्मिन् काले मृतिं वदेत्।।71।।
सर्वग्रहान् फलयुतांश्च नियोज्य चक्रे
मूर्या ा च सर्वमशुभं च शुभं समं च।
जन्मादितः फलमशेषदशां समीक्ष्य
यात्राविवाहसमये कथयेद्विधिज्ञः।।72।।
रव्यादीनां समुदायाष्टवर्गवाक्यानि-बिन्दुसंख्याश्च
3-3-5-4-1-5-6-5-5-3-3-5
रवेः - बालोबलिष्ठो लवणागमो सुरो
1-5-4-4-4-5-5-3-3-6-6-5-01
चन्द्रस्य-रागीमुरारी शिस्वरीन्द्रगाथया।
2-4-2-5-2-4-2-3-5-4-3-3
कुजस्य-भौमेगणेन्द्रोलघुभावतासुरो
4-4-4-7-3-4-4-4-7-5-4-4
बुधस्य-गोकर्णरक्तातुपुराणमैथिली।।73।।
5-5-4-3-3-5-5-4-6-7-3-6
गुरोः-रुद्रः परंग्रह्वरभैरवस्थली
4-5-3-6-5-2-4-6-5-7-4-1
शुक्रस्य-रागीबलीभास्वरगीर्भगाचलाः।
1-2-2-4-2-3-3-3-5-5-6-3
शनेः-गिरोविवस्वान्बलवद्विवक्षया
2-5-6-4-5-2-3-4-6-3-6-3
लग्नस्यः-शूलीममप्रीतिकरोत्रतीर्थंकृत्।।74।।
सर्वकर्मफलोपेतमष्टवर्गं विदुर्बुधाः।
अन्यथा तस्य विज्ञानं दुर्ज्ञेयं गुणदोषम्।।75।।
नगा 30 धिकफला ये स्यु राशयस्ते शुभप्रदाः।
तत्त्वादि स्वगुणान्ताक्षा राशयो मध्यमा मताः।।76।।
अतिक्षीणफला ये स्यू राशयस्तेऽधमाः स्मृताः।
श्रेष्ठराशिषु सर्वाणि शुभकार्याणि कारयेत्।।77।।
श्रेष्ठान् राशीन् मुहूर्तेषु योजयेन्मतिमान्नरः।
यस्य व्यायाधिकं लग्नं भोगवानर्थवान् भवेत्।।78।।
विपरीते तु दारिद्यं भविष्यं न संशयः।
त्रिंशतो मध्यमं पूर्वं परं तस्माच्छुभं भवेत्।।79।।
मूर्या ्दि व्ययपर्यन्तं बोध्यं भावफलं बुधैः।
अधिके शोभनं विद्याद्धीनं दोषं विनिर्दिशेत्।।80।।
षष्ठाष्टमव्ययांस्त्यक्त्वा शेषाण्येवं प्रकल्पयेम्।
मीनादिमिथुनान्तेषु प्रथमं खण्डमिष्यते।।81।।
वृश्चिकादिघटान्तेषु द्वितीयं खण्डमिष्यते।
कर्कटादितुलान्तेषु तृतीयं खण्डमुच्यते।।82।।
खण्डत्रयं पृथक् स्थाप्यमन्यत् किन्तु निरीक्षयेत्।
वयोऽनुरूपकर्मादि तेनेवैवं विनिर्दिशत्।।83।।
अधिके शोभनं विद्याद्धीने दोषफलं तु वै।
खण्डत्रयं निरीक्ष्यैव दशानयनमीरयेत्।।84।।
पापग्रहसमारूढं खण्डं क्लेशकरं स्मृतम्।
सौम्यैः पुष्टफलं ज्ञेयं मिश्रैर्मिश्रफलं स्मृतम्।।85।।
खण्डत्रयफलं ज्ञात्वा दशाफलमुदीरयेत्।
लग्नप्रभृति मन्दान्तं एकीकृत्य फलानि वै।।86।।
सप्तभिर्गुणयेत्तस्मात् सप्तविंशतिभाजितात्।
तत्फलस्य समानेऽब्दे दुःखं वा रोगमाप्नुयात्।।87।।
मन्द्रप्रभृति लग्नान्तमेवमेव प्रकल्प्येत्।
भौमान्तं लग्नतस्तद्वद्भौमाल्लग्रान्तमेव च।।88।।
क्लेशायासविरोधार्दील्लभते नात्र संशयः।
ज्ञेया मन्दादिलग्नान्तवांशकयुतिर्बुधैः।।89।।
तद्योगसदृशे वर्षे चायुधक्लेशमादिशेत्।
राहुभौमादिलग्नान्तमंशयागसमाब्दके।।90।।
विपदस्त्रक्षतायासदुःखादीनि समादिशेत्।
शुभग्रहादिलग्नान्तमंशयोगसमाब्दके।।91।।
पुत्रवित्तसुखादीनि लभते नात्र संशयः।
अष्टमाधिपतेरंशसंख्याभिर्गुणयेत्फलम्।।92।।
अष्टमस्थं द्वादशभिर्बिभजेच्छिष्टराशिगे।
रवौ वा तत्त्रिकोणस्थे मृतिं वा रोगमाप्नुयात्।।93।।
एवमेव विजानीयात् पितृमातृगृहादिषु।
प्रादक्षिण्ये राशीनां फलान्येकत्र योजयेत्।।94।।
पृथक् पृथक् चतुर्दिक्षु भवनानां प्रकल्प्येत्।
अधिके शोभनं विद्याच्छुभयुक्ते विशेषतः।।95।।
सर्वेषु हीनभागेषु तद्भागं वर्जयेत्सदा।
गोष्ठं क्षेत्रं कृषिर्वाऽपि श्रेष्ठराशौ स्थितं शुभम्।।96।।
क्षीणाराशौ स्थिते द्रव्य विनश्यति च निश्चयात्।
वित्तेश्वरस्य दिग्भागे वित्तमाप्नोति निश्चयात्।
रन्ध्रेश्वरस्य दिग्भागे भाग्यं नूनं विनश्यति।।97।।
अष्टवर्गफलं प्रोक्तं सिद्धसेनेन धीमता।।98।।
तस्मात्सारं समुद्धृत्य मया प्रोक्तं समासतः।।
इति श्रीवराहमिहिरसुत श्रीपृथुयशोविरचिते होरासारेऽष्टवर्गफलाध्यायः सप्तदशः।।