अथ सङ्कीर्णदशाफलम्
अथ सङ्कीर्णदशायां स्थानसुखार्था भवन्ति बलहीनाः।
परगृहनिवासशीलो लोके मान्योऽतिविद्वांश्च।।1।।
अनुवक्रस्य दशायां स्वमानशौर्यान्वितो धनी भवति।
शस्तगृहे शस्तांशे रिःफाष्टमवर्जिते स्वराज्याप्तिः।।2।।
नीचारिभवनसंस्थितवक्रदशायां कुकर्मरतः।
बन्धुजनगर्हितात्मा विदेशनिरतोऽस्वतन्त्रश्च।।3।।
राहोर्दशान्तरस्थग्रहयोर्मध्ये द्विवर्षमतिदुःखम्।
बन्धुविनाशं रोगं लभते शत्रोर्दशान्तरदशायाम्।।4।।
राहुयुतग्रहपाकः शुभदोऽप्यशुभेन तुल्यफलपाकः।
पाकस्यान्ते व्याधिं दुःखं वा भ्रंशमावहति।।5।।
होराजन्माधिपयोः शत्रुदशायां परिभ्रमं लभते।
राज्यच्युतो विपक्षैरभिभूतोऽरिं समाश्रयति।।6।।
नीचारिषष्ठव्ययसंश्रिता हि शुभाः प्रयच्छन्त्यशुभानि सर्वे।
शुभेतरे तेषु गताः प्रयच्छन्त्यनेकदुःखानि दशासु तेषाम्।।7।।
रोगं ददादि भृगुजः स्वगृहेऽष्टमस्थः
पापान्विता मरणकृत् स्वदशावसाने।
लग्नेश्वरोऽष्टमगतोऽप्युशुभेन सार्द्धं
तस्यान्तरान्तरदशा मरणं करोति।।8।।
निधनाधिपतेः केन्द्रे स्थितस्य शुभदा दशा यदाऽस्तमितः।
केन्द्रे राहुयुतो वा स तस्य काले मृतिं वदेत् प्राज्ञः।।9।।
लग्नेश्वरोऽष्टमस्थो वा यदि तस्य दशान्तरे।
प्राणसन्देहमाप्नोति दशान्ते जीवितं त्यजेत्।।10।।
क्षेत्रोच्चसंस्थिता यस्य ये ग्रहाः केन्द्रलाभगाः।
कारकाख्यग्रहा ज्ञेयाः स्वमध्यस्थो विशेषतः।।11।।
कर्मेशः केन्द्रगो वाऽपि कश्चित्कारकसंज्ञितः।
कर्मभाग्याधिपौ केन्द्रे स्थितौ यस्य शुभप्रदौ।।12।।
कारकग्रहयुक्तौ चेत् स्वकुलश्रेष्ठतां व्रजेत्।
तद्दशायां न सन्देहः स्वाभीष्टफलमाप्नुयात्।।13।।
चन्द्राधिष्ठितराशेर्नाथो लग्नाधिपोऽथवा यस्य।
केन्द्रगतः ससुरेड्यो वयसो मध्ये सुखं तस्य।।14।।
पापग्रहांशकदशा बाल्ये ज्ञानक्रियासु विघ्नकरी।
मूढग्रहांशकदशा तथैव वाच्या न सन्देहः।।15।।
स्वोच्चस्वक्षेत्रगतैर्बलिभिः केन्द्राश्रितैः कुजाद्यैश्च।
रुचको भद्रो हंसो मालव्यः शश इति ख्यातः।।16।।
योगा अमी न युक्ता यद्यन्यग्रहभवैर्बहुलयोगैः।
उत्तमकुलजातानां नॄणां सम्यक् पृथक् फलं दद्युः।।17।।
नित्यं धनैश्वरर्ययुताः प्रसिद्धास्तेजस्विनः पुण्ययुता नरेन्द्राः।
गजाश्वभाजो बहुरत्नपूर्णा दीर्घायुषस्ते पुरुषा भवन्ति।।18।।
बलरहितेन्दुरविभ्यां युक्तैर्भौमादिभिर्ग्रहैः पुरुषाः।
न भवन्ति भूमिपाला दशासु तेषां सुतार्थसंयुक्ताः।।19।।
उत्तमयोगे जाता ये तेषां जीवनं सुखार्थयुतम्।
विपरीते विपरीतं त्वित्याह ब्रह्मशौण्डाख्यः।।20।।
तुङ्गाद्भ्रष्ठस्य दशा सर्वारम्भेषु निष्फलं कुरुते।
होराधिपारिभवने भ्रष्ठदशा मृत्युमावहति।।21।।
षष्ठाष्टमस्थोऽशुभदस्तु रौद्रो द्विषा शुभस्थानगतेन दृष्टः।
स्वस्यां दशायां स करोति मृत्युं व्याध्यध्वतापादिपरिक्षयं वा।।22।।
व्योमाम्बुबाय्वग्निमहीस्वभावा जीवासुरेड्यार्किमहीजसौम्याः।
छायां मरुत्पित्तकफानुरूपां मिश्रैस्तु मिश्रा बलिभिर्नृपस्य।।23।।
छाया शुभा शुभफलानि निवेदयन्ती
लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः।
तेजोगुणान् बहिरपि प्रविकासयन्ती
दीपप्रभास्फटिकरत्नघटस्थितेव।।24।।
स्निग्धद्विजत्वङ्नखरोमकेशाच्छाया सुगन्धा च महीसमुत्था।
तुष्ट्यर्थलाभाभ्युदयान् करोति धर्मस्य चाहन्यहनि प्रवृत्तिम्।।25।।
स्निग्धा सिताच्छहरिता नयनाभिरामा
सौभाग्यमार्दवसुखाभ्युदयान् करोति।
सर्वार्थसिद्धिजननी जननीव चाप्या
छाया फलं तनुभृतां शुभमादधाति।।26।।
चण्डाधृष्या पद्महेमाग्निवर्णा युक्ता तेजोविक्रमैः स प्रतापै:।
आग्नेयीति प्राणिनां स्याज्जयाय क्षिप्रं सिद्धिं वाञ्छितार्थस्य दत्ते।।27।।
असितजलदकान्तिः पापगन्धोऽतिगूढो
मलिनपरुषकालः शोकसन्तापतप्तः।
स भवति धनहीनः प्राक्तनाथस्य हानि-
र्विचरति पवनोत्था यस्य कान्तिः शरीरे।।28।।
शब्दार्थविन्यासपरः प्रगल्भो विज्ञानयुक्तो महितस्वभावः।
श्लाथाङ्गसन्धिः कृशपाणिपादौ व्योमप्रकृत्या पुरुषोऽतिदीर्घः।।29।।
चिन्तास्वप्नानुभवे पपरिणमति फलं विहीनवीर्यस्य।
पञ्चमहापुरुषोक्तच्छाया स्वेतानि योजयेदत्र।।30।।
आकृतिजातिप्रकृतीज्ञात्वा सम्यक् फलं हि वक्तव्यम्।
कुलदेशवयोऽनुगुणं दशाक्रमज्ञैर्यथान्यायम्।।31।।
इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे सङ्कीर्णफलाध्यायषोडशः।।