।।श्रीगणेशाय नमः।।
पृथुयशविरचितम्
होरासारः

शनिदशाफलोऽध्यायः

अथ शनिदशाफलम्

मन्दस्य दशां प्राप्य प्रथितो धीमाननेकशास्त्रज्ञः।
वृन्द्रामपुराणां नेता पितृतोऽधिको विधिज्ञश्च।।1।।

गजतुरगगोधनाद्यैः सम्पन्नो ज्ञातितो धनप्राप्तिः।
द्विजदेवपूजितात्मा पुराणभवनाश्रितोऽल्पसन्तुष्टः।।2।।

निद्रालस्यश्रमवान् स्वजनद्वेष्यो जराङ्गनासक्तः।
धर्मप्रियो विनीतो देवायतनक्रियार्चनादिरतः।।3।।

वातकफाद्यैः पीडा विकलाङ्गो जायते कृशाङ्गो वा।
सामान्यमेतदुक्तं राशौ प्रत्येकमंशकैर्वक्ष्ये।।4।।

मन्ददशायां मेषे प्रवासनिरतोऽस्वतन्त्रवृत्तिश्च।
पादादिचर्मरोगी मायावी भ्रातृबन्धुरहितश्च।।5।।

कृषिधान्याप्तिर्नीचाद्भ्रष्ठस्य शनेर्दशासमये।
पतनाद्यैः क्लेशाढ्यो नीचप्रायो निरुत्साहः।।6।।

वृषभे सौरिदशायां विशिष्टनामान्वितोऽतिमेधावी।
राजा राजसमो वा युद्धेषु कृतश्रमोऽतिधर्मरतः।।7।।

मिथुने क्षमाविहीनो मन्ददशायां सुतार्थभोगरतः।
स्त्रीचोरतोऽर्थहानिः परकार्यरतो रणार्दितो मनुजः।।8।।

मन्ददशायां शनिभे चिन्तायुक्तोऽस्वतन्त्रश्च।
मातृसुतबन्धुहीनो नेत्रश्रवणादिदुर्बलो धीमान्।।9।।

सिंहे सिंहांशे वा मन्ददशायामनेकरोगयुतः।
सुतदारबन्धुकलहो गोमहिषाश्वादिवित्तवान् भवति।।10।।

कन्याश्रितमन्ददशा ददाति विद्याधनं श्रमोत्पत्तिम्।
भूरुहजलप्रमाथी गुरुद्विजाचार्ययोगिनां दयितः।।11।।

उच्चाश्रितमन्ददशा ज्ञानधनैश्वर्यसम्पन्नम्।
जनयति लोके श्रुतवान् स्वभावतोऽर्थागमं सुखं लभते।।12।।

मन्ददशायां कीटे वधबन्धरतो वृथाटनोऽनृतवान्।
कृपाणो दयाविहीनो नीचजनानुग्रहोपजीवी स्यात्।।13।।

चापे मन्ददशायां स्वस्थो नृपसंमतो नृपेन्द्रो वा।
जीवधनादिप्राप्तिः सुतदारसमन्वितो रणोत्साही।।14।।

मकरे मन्दशायां बहुश्रमोत्पन्नवित्तवान् सुभगः।
वन्ध्याजराङ्गनानां दयितो विश्वासतोऽर्थहानिः स्यात्।।15।।

मूलत्रिकोणसंस्थितशनेर्दशायां सुखानि सिध्यन्ति।
स्वकुशश्रेष्ठो मतिमान् कृषिपशुधनधान्यपुत्रवान् भवति।।16।।

मीने मन्ददशायामल्पोत्साहाद्धनानि सिध्यन्ति।
श्रेणीग्रामपुराणामीशो वनितादृतोऽपि मोक्षार्थी।।17।।

आयव्ययतुल्यधनो मूढदशायां शनेरसन्तोषः।
क्षणङ्गुरातिकीर्तिर्विविधै: क्लेशैश्च पीडितो भवति।।18।।

राश्यंशकफलमेवं प्रोक्तं बलवत्तरं तयोः कथितम्।
राश्यंशकबलसाम्यं समानरूपं वदेत्प्राज्ञः।।19।।

एवं ग्रहाणां विविधैः प्रकारैर्दशाफलान्यत्र मयेरितानि।
ज्ञात्वा नराणां प्रकृतिं समग्रां समादिशेत्तत्र समानरूपम्।।20।।

इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे शनिदशाफलाध्यायः पञ्चदशः।।