अथ शुक्रदशाफलम्
सामान्य्सर्वराशिषु शुक्रस्य दशाफलं समाचक्षे।
स्त्रीभूषणाम्बरसुखप्रमोदसत्कारमानधनलाभः।।1।।
कन्दर्पशास्त्रनिपुणो नानाविद्याश्रितोऽतिमेधावी।
नृत्तादिगीतकुशलो दाक्षिण्यताप्तोऽन्नदानशीलश्च।।2।।
क्रयविक्रयेषु कुशलो गोमन् बहुदारवान् सुतार्थयुतः।
पूर्वार्जितधनभोक्ता गुणविख्यातः क्रियोद्युक्तः।।3।।
वातकफपित्तरोगी भ्रातृसुतस्नेहतो महादुःखी।
नीचैर्वैरं लभते कष्टमथो धर्मवैरिभिः प्रीतिः।।4।।
राशीनां प्रत्येकं शुक्रस्य दशाफलानि वक्ष्यन्ते।
रिपुनीचांशकराशीन् निश्चित्य सत्फलं ब्रूयात्।।5।।
शुक्रदशायां मेषं स्त्रीकृतसुखवित्तमानहानिः स्यात्।
अटनोऽसहोऽल्पजीवी प्रभुशीलो राजयोषितो दयितः।।6।।
वृषभे शुक्रदशायां कृषिपशुदारान्वितो मतिमान्।
बहुशास्त्रवित्सुदान्तः कन्याजनको नरेन्द्रदयितश्च।।7।।
मिथुने शुक्रदशायामनेककार्यान्वितो महोत्साही।
विस्मयकथाभिलाषी विदेशनिरतोऽर्थवान् भवति।।8।।
चन्द्रगृहस्थस्य भृगोर्दशाविपाके स्वकार्य उद्युक्तः।
द्विस्त्रीभरणसुशीलो बहुप्रकारैर्हि जीवनं कुरुते।।9।।
सिंहे शुक्रदशायां प्रवरस्त्रीसंश्रयाद्धनानि स्युः।
परवित्तरतो धीमानल्पसुतो गोगणा विनश्यन्ति।।10।।
कन्याश्रितशुक्रदशाप्रवर्तने पूर्ववृत्तसुखहीनः।
भग्नोत्साही चपलो विदेशवासी स्वदारसंत्यक्तः।।11।।
वर्गोत्तमभृगुजदशापाके नृपचोरतोऽर्थहानिः स्यात्।
अस्वथो बलहीनो भिक्षाशनवान् सदाटनो भवति।।12।।
मूलत्रिकोणसंस्थितभृगोर्दशायां विशिष्टनामयुतः।
कृषिपशुधनधान्याद्यैः सम्पन्नो ज्ञानिनो धनाप्तिर्वा।।13।।
अटनो बहुप्रलापी परकर्मरतो निमित्तकलहाढ्यः।
बहुऋणभागी पुरुषो वृश्चिकराशौ भृगोर्दशायां च।।14।।
चापे शुक्रदशायां विनाशितारिः कुलाधिको मानी।
काव्यकलास्वतिनिपुणो नृपदयितो दारपुत्रसन्तुष्टः।।15।।
मकरे शुक्रदशायां क्लेशसहिष्णुः सुखी रिपुनिहन्ता।
वातश्लेष्मप्रकृतिः कुत्सितदारो विगर्हितकुटुम्बः।।16।।
कुम्भे शुक्रदशयामुद्वेगी रोगवान्नयज्ञश्च।
परयुवतिगो व्रतघ्नो नीचाचारोऽल्पकर्मनिरतश्च।।17।।
मीने शुक्रदशायां वंशधरो ज्ञानवान्नेरन्द्रधनी।
कृषितो धनभागी स्यात् कमनीयवपुः प्रधानतां याति।।18।।
मीने वर्गोत्तमगे भृगोर्दशायां स्वमानगुणयुक्तः।
रोगैर्निपीडितात्मा जलप्रतिष्ठादियत्नतो धर्मः।।19।।
सवोच्चस्थितो भृगुसुतो व्ययकर्मगो वा
लाभेऽपि पापरहितो न तु पापदृष्टः।
तस्याब्दपाकसमये बहुरत्नपूर्णो
धीमान् विशालनयनो निजवंशनाथः।।20।।
इति श्रीवराहमिहिरसुत श्रीपृथुयशोविरचिते होरासारे शुक्रदशाफलाध्यायश्चर्तुदशः।।