।।श्रीगणेशाय नमः।।
पृथुयशविरचितम्
होरासारः

गुरुदशाफलोऽध्यायः

अथ गुरुदशाफलम्

जीवस्य दशां प्राप्य प्रशस्तवेदार्थशास्त्रपाठरतः।
धर्मादिवर्गचिन्ता प्रधानजनवल्लभोऽतिमेधवी।।1।।

अध्ययनदेवतार्चागदजययज्ञक्रियदिभिर्वित्तम्।
जन्मप्रभावतोऽर्थान् नृपप्रसादाद्धनं समाप्नोति।।2।।

अश्वादिवाहनाप्तिं भूम्यम्बरदारपुत्रसम्पन्नः।
सत्सङ्गतिः कुलाढ्यो बलाढ्यता भूपतित्वं वा।।3।।

कार्येषु सूक्ष्मबुद्धिस्त्रिकालविद् ज्ञानकर्मकुशलश्च।
प्ल्हिविद्रधिगुल्माद्यैर्निपीडितश्चोर्ध्‍वरोगी स्यात्।।4।।

एतानि सर्वराशिषु जीवस्य दशाफलानि निर्दिश्य।
प्रत्येकं राशिफलं तस्मादूर्ध्‍वं समदिशेत्तज्ज्ञः।।5।।

जीवदशायां मेषे गणनाथो ज्ञानवान् नरेन्द्रधनी।
दारसुतमित्रभोगैः समन्वितो विगतशोकश्च।।6।।

वृषभाश्रितजीवदशाप्रवर्तने शत्रुपीडितो दुःखी।
देशेऽन्यत्र निवासः स्वल्पोत्साहाद्धनं समाप्नोति।।7।।

मिथुने जीवदशायां स्त्रीद्वेषी वित्तवान् कृषिप्रायः।
कुलजगुणप्रद्वेषी मातुरनिष्टोऽङ्गहीनो वा।।8।।

उच्चाश्रितदेवगुरोर्दशाविपाके स्वजन्मवृत्तिकरः।
राज्यसुखभोगवृद्धिर्विशुद्धनामान्वितो धनी विद्वान्।।9।।

उच्चातिक्रान्तदशा जीवस्य सदाटनं कुदाररतम्।
पितृमातृदुःखतप्तं पूर्वार्जितवित्तविक्रयं कुरुते।।10।।

सिंहे जीवदशायां धर्माध्यक्षो नृपाच्च सम्पत्तिम्।
लभते गुणातिरेकात्पशुसुतदारादिवित्तवान् भवति।।11।।

कन्याश्रितजीवदशा नृपदारसमाश्रयाद्धनं कुरुते।
शूद्रादिनीचकलहप्रवर्तते स्थानसंभ्रमं कुरुते।।12।।

पशुजां वृद्धिं वित्तं विद्याम्बरवाहनावाप्तिम्।।13।।

तौलिनि जीवदशायां मन्दोत्साही स्वारपुत्रघ्नः।
दुष्टव्रणाप्तदेहो दिवसे दिवसे मिताशनो भवति।।14।।

अष्टमजीवदशायां सुरकार्यरतोऽटनो महोत्साही।
ऋणवाननेकभावैः प्रजानुरक्तो नियमशीलः।।15।।

मूलत्रिकोणसंस्थितगुरोर्दशायां जनाधिको धीमान्।
मन्त्री मण्डलपो वा प्रमदावशगो धनी सुखी भवति।।16।।

चापगतस्य दशायां गुरोः प्रवासाद्धनं सुखं लभते।
यज्ञक्रियासु निरतो गोमान् कृषिवित्तसंग्रहं कुरुते।।17।।

नीचे जीवदशायां प्रवर्तते बन्धुशोकसन्तापी।
परकार्यकृद्दरिद्रो जठरामयकर्णगुह्यरोगी स्यात्।।18।।

मृगमुखजीवदशायां वनवासनिषादधनलाभौ।
कृष्याश्रयोपजीवी भूरुहजलवञ्चनादिभिः क्लेशः।।19।।

कुम्भाश्रितदेवगुरोर्दशाविपाके स्वनामशौर्यधनम्।
पिशुनोऽल्पकर्मजीवी स्वजनद्वेषोऽर्थनाशः स्यात्।।20।।

मीनाश्रितदेवगुरोर्दशाविपाके कुलाधिको धीमान्।
विद्याकथाप्रभेदैर्धनवान् प्रमदाप्रियो विनीतश्च।।21।।

वर्गोत्तमदशायां देवाचार्यस्य पूजितो लोके।
बहुलं धनं च लभते सुतदारसमाश्रयी कृशाङ्गः स्यात्।।22।।

मूढस्य देवेन्द्रगुरोर्दशायां प्रवर्तते दुःखसुखं च तुल्यम्।
नीचारिभेष्वात्मजदारवित्तनाशाश्च रोगा बहवो भवेयुः।।23।।

इति श्रीवराहमिहिरसुत श्रीपृथुयशोविरचिते होरासारे गुरुदशाफलाध्यायो त्रयोदशः।।