।।श्रीगणेशाय नमः।।
पृथुयशविरचितम्
होरासारः

बुधदशाफलोऽध्यायः

अथ बुधदशाफलम्

सौम्यदशायां लभते विद्याविनियोगमिश्रबन्धुधनम्।
कृषियज्ञयाजनाद्यैः स्ववृत्तिकार्यैर्धनं समाप्नोति।।1।।

शिल्पादिकर्मकुशला गीतज्ञो गेयवाद्यसन्तुष्टः।
गृहभाजनादियुक्तश्चेङ्गितवेत्ता कुतूहलाभाषी।।2।।

भार्याप्रियो विनीतो विद्वान् गुरुसंमतोऽल्परोगश्च।
बन्धुपरिव्राण्मित्रैर्नखायुधैर्वा भवेत्पीडा।।3।।

सुभगो न संचितार्थो मारुतकफपित्तरुग्विकारी स्यात्।
पीडां कुरुते नित्यं मन उपतापं च कष्टदशाम्।।4।।

अथ ऊर्ध्‍वं प्रत्येकं राश्यंशदशाफलानि सौम्यस्य।
वक्ष्यन्तेऽत्र समासात् पूर्वाचार्यैश्च कथितानि।।5।।

मेषगतज्ञदशायां विज्ञानोत्साहसंगतो धीमान्।
शौर्यानृतशाट्यरतो निजधनहीनोऽन्यभाग्यरतः।।6।।

सौम्यदशायां वृषभे मातुरनिष्टो धनान्वितः ख्यातः।
ऋणवान् बन्धुनिमित्तैः कुदारतनयान्वितो गलार्तिः स्यात्।।7।।

मिथुने सौम्यदशायामनेकवित्तान्वितोऽतिभोगी स्यात्।
नैकसुतदारनाथो द्विमातृको ज्ञातिवल्लभो धीमान्।।8।।

बन्धुजनपीडितात्मा विदेशनिरतोऽल्पसौख्यसम्पन्नः।
काव्यकालार्जितवित्तश्चन्द्रगृहे बुधदशायां तु।।9।।

सिंहाश्रितसौम्यदशा ज्ञानधनैश्वर्यवर्जितं जनयेत्।
भ्रातृसुखबन्धुहीनः स्त्रीद्वेषी लोकविश्रुतो भवति।।10।।

उच्चाश्रितासौम्यदशा ज्ञानधनैश्वर्यसम्पदं कुरुते।
लिपिलेख्यकाव्यनिरतो नीतिज्ञो निर्जितारिपक्षश्च।।11।।

मूलत्रिकोणभागेषूद्यत्सु दशा बुधस्य विख्यातम्।
कुरुते विदेशसक्तं स्वगुणबलाभ्यां धनं लभते।।12।।

क्षेत्रांशकस्थितदशा कन्यायां सोमजस्य विकलाङ्गम्।
जनयति च बन्धुवैरं सुखपशुधनवर्जितं जनयेत्।।13।।

सप्तमराशौ बौध्यां वाग्मी विकलेक्षणो न शान्तमतिः।
शिल्पादिकर्मकुशलो विपण्यजीवी गजाश्वदुःखकरः।।14।।

कीटे सौम्यदशायामादानरतोऽल्पसन्तुष्टः।
प्रेष्याङ्गनानुरक्तो स्वगृहश्रमसंयुतो दरिद्रश्च।।15।।

कार्मुकसंस्थदशायां बुधस्य गणनायकोऽथवा मन्त्री।
नामद्वयं च लभते कृषिपशुधनधान्यसंयुतो भवति।।16।।

सौम्यस्य मृगदशायामृणवान् परकार्यकृत्कुदेशरतः।
अटनोऽल्पजनस्निग्धो मायामोहेन तापितशरीरः।।17।।

कुम्भगतज्ञदशायां तेजोहानिर्मिताशनो निःस्वः।
बन्धुजनपीडितात्मा दुष्टस्त्रीनायको विदेशरतः।।18।।

मीनाश्रितसौम्यदशा प्रशस्तवेदार्थशास्त्रपारगतम्।
धर्मादिचिन्तनपरं प्रधानजनवल्लभं कुरुते।।19।।

नीचगसौम्यदशयामालोलो बन्धुसत्वगुणहीनः।
कृष्याशनोऽल्पजीवी मृदुरोगसमाश्रितोऽन्यगेहस्थः।।20।।

नीचाष्टमगस्य दशा सौम्यस्य विषायुधादिपश्वाद्यैः।
जनयति पीडां नित्यं कुकर्मनिरतोऽल्पसत्वगुणयुक्तः।।21।।

अस्तगसौम्यदशा तु क्षेत्रत्यागं सदा मनोदुःखम्।
पाण्ड्वामयकासाद्यैः पीडां कुरुते धनक्षयं चापि।।22।।

वर्गोत्तमदशायां सौम्यस्य शुभाशुभानि वर्धन्ते।
उक्तफलाद्वित्रिगुणं सर्वत्र शुभाशुभैश्च मिश्रफलम्।।23।।

कर्मायोदयबन्धुषु मिश्रफला सोमजस्य दशा।
लभते स्वकुलाधिक्यं ज्ञानसुखार्थादिसंयुतं जनयेत्।।24।।

सर्वत्र बुधदशायां मिश्रफलं प्राक्तनैर्विनिर्दिष्टम्।।25।।

इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे बुधदशाफलाध्यायो द्वादशः।।