।।श्रीगणेशाय नमः।।
पृथुयशविरचितम्
होरासारः

मङ्गलदशाफलोऽध्याय:

अथ कुजदशाफलम्

आदित्यपूर्वषट्कस्था ये ग्रहास्तेऽप्यधोमुखाः।
अपरास्थाश्च ये भानोरूर्ध्‍वास्यास्ते सुखप्रदाः।।1।।

वक्रो यदावरोही स्यादारोही चानुवक्रगः।
वक्रः स्वोच्चफलं दद्यादशा तस्य तु मध्यमा।।2।।

वक्रानुवक्रानुद्वीक्ष्य दशाफलमुदीरयेत्।
ताराग्रहाणां सर्वेषामेवं ज्ञातवा विचक्षणः।।3।।

भौमस्य स्वदशाफलानि हुतभुग्भूवाहनाद्यैर्धन
भैषज्यानृतवञ्चनैश्च विविधैः क्रौर्यैर्धनस्यागमः।
पित्तसृग्ज्वरबाधितश्च सततं नीचाङ्गनासेवितो
विद्वेषी सुतदारबन्धुगुरुभिर्नष्टोऽन्यभाग्ये रतः।।4।।

मूलत्रिकोणसंस्थस्यारस्य दशा कुलान्वितं जनयेत्।
सुतदारधनप्राप्तिः साहसकारी रतिप्रियो धीमान्।।5।।

मेषाश्रितभौमदशां प्राप्य नरो ख्यातिमान् महोत्साही।
पित्तादिचोरबाधा बाह्वायासेन सन्तप्तः।।6।।

वृषभे भौमदशायां स्थितिहीनो रोगशोकसन्तप्तः।
वाग्व्यसनी नातिसुतः परिवित्तरतो न देवगुरुभक्तः।।7।।

मिथुने भौमदशायां विदेशवासी च कामसन्तप्तः।
स्वजनेष्वमितविरोधी बहुव्यथातोंऽनिलाग्निसन्तप्तः।।8।।

भौमदशायां शशिभे तोयोद्यानाग्निवित्तवान् गुणवान्।
दारसुतबन्धुहीनो विकलाङ्गो लोकधूर्तः स्यात्।।9।।

नीचादूर्ध्‍वदशायां भौमस्य गुणातिरेकविख्यातः।
बलवान् प्रधानवैरी गुह्यरुगार्तो गजाश्वसम्पन्नः।।10।।

सिंहाश्रितभौमदशा कुरुते जननायकं महोत्साहम्।
सुतदारवित्तहीनं पुरुषं शस्त्राग्निपीडितं जनयेत्।।11।।

कन्याश्रितभौमदशां प्राप्य स्थानं धनं सुखं लभते।
यज्ञक्रियासु निपुणो विषमाक्षो भूमिदारपुत्राप्तः।।12।।

तौलिनि भौमदशायां मेढ्रुजा स्त्रीकृतार्थपरिहीणः।
परिजनकलहोद्रिक्तो गजाश्वहीनोऽङ्गहीनो वा।।13।।

अलिगतभौमदशायां पुरुषः स्यात् सर्वतत्वविद्येशः।
कृषितो धनधान्याप्तिर्मित्रद्वेषी विषाग्निशस्त्रहतः।।14।।

चापे भौमदशायां द्विजदेवनृपादिभिर्धनं लभते।
दुःसाध्यकार्यकर्ता कलहप्रायोऽतिमान्यश्च।।15।।

भौमात्युच्चदशायां वाहनसुखराज्यरत्नसम्पन्नः।
अनिवारितरणवेगः प्रधानजनबन्धुमान् भवति।।16।।

अत्युच्चाक्रान्तदशा मकरे भौमस्य यत्नतोऽर्थाप्तिम्।
व्यालमृगोरगशस्त्रः पीडां कुरुतेऽल्पजातिसन्तोषम्।।17।।

कुम्भे भौमदशायामाचारविवर्जितोऽतिमानी स्यात्।
दारिद्यदुःखतप्तो दुर्मार्गरतिर्विनष्टतनयश्च।।18।।

मीने भौमदशायां रोगी विगतात्मजा व्ययार्तश्च।
ऋणवान् विदेशवासी विचर्चिकाद्यर्र्सणैश्च परिभूतः।।19।।

वर्गोत्तमगस्य दशा भौमस्य करोति लोकविख्यातम्।
तद्भावफलं द्विगुणं लभते संग्रामविश्रुतो बलवान्।।20।।

नीचांशगभौमदशा सदाटनं वितनुते मनोदुःखम्।
फलसंनिकर्षनाशं श्रेष्ठं त्यक्त्वाऽधमं भजते।।21।।

भौमस्यास्तदशायां सर्वोपद्रवयुता विनाशमतिः।
क्रमयोगोदयराशिषु राश्युक्तफलानि सिध्यन्ति।।22।।

अष्टमभौमस्य दशा शत्रुविरोधं मृतिं विवादं वा।
जनयति च सर्वविघ्नं बन्धुनिमित्तात्स्वमानहानिं वा।।23।।

ऊर्ध्‍वास्तुङ्गभवनस्थितभूमिजस्य कर्मायगस्य हि दशा विदधाति राज्यम्।
जित्वा रिपून्विपुलवाहनसैन्ययुक्तां राज्यश्रियं वितनुते निधिकृन्न दाता।।24।।

इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे कुजदशाफलाध्याय एकादशमः।।