।।श्रीगणेशाय नमः।।
पृथुयशविरचितम्
होरासारः

चन्द्रदशाफलोऽध्यायः

अथ चन्द्रदशाफलम्

सामान्येन तु षोढा चन्द्रदशा कथ्यते मणित्थाद्यैः।
शुक्लस्य प्रथमतिथेरारभ्यारोहिणी दशा शशिनः।।1।।

कृष्णाद्वितिथिप्रभृतिकदर्शान्ता चावरोहिणीन्दुदशा।
जलधिजलोत्थितिकाले नॄणां सूतौ दशा शशाङ्कस्य।।2।।

आरोहिणीति विदिता विपरीता सावरोहिणी ख्याता।
नीचाच्च्युतस्य हि दशा हिमगोरारोहिणी कथिता।।3।।

तुङ्गाच्च्युतस्यं तु दशाऽवरोहिणी निगदिता शशिनः।
रोहावरोहभेदः सम्यक् त्रिविधः पुरातनैः कथितः।।4।।

आरोहत्रययुक्ता चन्द्रदशा सर्वसिद्धिकरी।
आरोहदशारूढो मर्त्य: स्यात्सर्वलोकविख्यातः।।5।।

अवरोहदशाप्राप्तौ पुरुषस्य यथाक्रमं क्षयो भवति।
चन्द्रे प्रोक्तबलारूढे शशिहोरागता ग्रहाः।।6।।

अशुभास्ते शुभं दद्यू रवेरेवं शशी यथा।
चन्द्रदशान्वितकाले मन्त्री नृपसंमतोऽतिमानी स्यात्।
देवद्विजमन्त्राद्यैर्धनवान्विनयान्वितः कलाज्ञश्च।।7।।

मधुमधुरगन्धकुसुमैः फलवृक्षैर्वित्तवाननियतार्थः।
ख्यातो बहुप्रतापः सदाटनः स्त्रीप्रजान्वितो धीमान्।।8।।

देवद्विजार्चनरतः परोपकारी मृदुस्वभावश्च।
नृत्यादिकर्मकुशलः कफानिलात्मा जलादिधर्मपरः।।9।।

बलवान् स्वजनविरोधी निद्रालस्यं मदान्वितः क्षीणे।
सामान्यमेतदुक्तं प्रतिराशिफलं यथाक्रमं वक्ष्ये।।10।।

मेषाश्रितचन्द्रदशा स्त्रीसुतलाभं विदेशकर्मरतिम्।
सहजविनाशं कुर्यादद्रव्यव्ययशिरोरुहं जनयेत्।।11।।

स्वोच्चगतस्य हिमांशोर्दशाधिरोहे नृपस्य राज्याप्तिः।
बहुसुतरत्नसमृद्धः स्त्रीणां वशगो गजाश्वपशुमांश्च।।12।।

मूलत्रिकोणगेन्दोर्दशाभियातो नरो विदेशरतः।
कृषिविक्रयाद्धनाप्तिः स्वजनद्वेषी कफानिलार्त्त: स्यात्।।13।।

वयसो मध्यमभागे चन्द्रदशायां महासुखी धनवान्।
द्विजदेवमन्त्रिभावैः सम्पन्नो युवतिवल्लभो भवति।।14।।

पूर्वार्द्धे सम्भूतो जननीमृत्युकरोऽतिपापरतः।
पश्चादर्द्धे वृषभे पितुर्वियोगं शशी कुरुते।।15।।

द्विजदेवाश्रितकार्यो मतिमान् धनवस्त्रभोगसम्पन्नः।
मिथुने चन्द्रदशायां स्थानात् स्थानान्तरं व्रजति।।16।।

चन्द्रदशायां क्षेत्रे जलकृषिपशुधान्यवित्तवान् भवति
ज्योतिर्ज्ञानकलाज्ञो गुह्यरुगार्तो वनाद्रिदुर्गचरः।।17।।

सिंहे चन्द्रदशायां ज्ञानधनाप्तिर्मनोरथं लभते।
स्वजनश्रेष्ठो मतिमान् विकलाङ्गो नातिपुत्रवान् सुभगः।।18।।

कन्यायां चन्द्रदशा विदेशगमन परस्त्रियालाभम्।
काव्यकलास्वतिनिपुणं कुरुते स्वल्पार्थकार्यसिद्धिकरम्।।19।।

चन्द्रदशायां जूके स्त्रीकृतदोषाश्च मानहानिः स्यात्।
भग्नोत्साही चपलो दारिद्यवशो मनोदुःखी।।20।।

नीचदशायां मरणं हिमगुर्याद्धिं त्वनेकविधम्।
कुरुते दारवियोगं सन्नोत्साहं स्वबुद्धिपरिपातम्।।21।।

नीचोन्मुक्तदशायां शशिनः कथितोऽल्पवित्तयुवतीशः।
क्रयविक्रयाद्धनाप्तिर्मर्मस्वतिरोगवान् स्वपक्षघ्नः।।22।।

चन्द्रदशायां चापे गजाश्वनाथो निवासबहुलः स्यात्।
पूर्वार्जितधननाशो पुत्रसुखी बहुधनी भवति।।23।।

मकरे चन्द्रदशायां स्पर्धावान् दीननृत्यगृहवासी।
स्त्रीमेदिनीप्रजीर्णो लोके श्रुतवान् न चातिधनपुत्रः।।24।।

कुम्भे चन्द्रदशायां प्रवर्तते क्षीणावृत्तिरभ्यासे।
बहुऋणभोगी चपलः कुस्त्रीसक्तो गुदोदरार्तिः स्यात्।।25।।

वर्गोत्तमांशगविधोर्दाये बलवद्विरोधितो निःस्वः।
दन्ताक्षिकर्णपीडाः स्वपुत्रदारैः परित्यक्तः।।26।।

मीने चन्द्रदशायां जलार्थभोगी सदाटनो धीमान्।
गोमहिषदारपुत्रैः समन्वितो विगतशत्रुगणः।।27।।

मीनसवर्गोत्तमशशिदाये निधिसंग्रहं सुखं लभते।
कन्यापिताङ्गहीनो मातापितृवर्जितो भवेद्बाल्ये।।28।।

वर्गोत्तमदशायां मुक्तस्थानेष्वभीष्टफललाभः।
स्वकुलश्रेष्ठो मतिमान् बलधर्मपरोऽतिविद्वांश्च।।29।।

चन्द्रे व्ययभवनस्थे सर्वोपायैर्धनागमः पूर्णे।
क्षीणे रिपुनीचस्थे पूर्वोक्तफलं क्षणात् क्षणं नश्येत्।।30।।

क्षीणाष्टमगहिमांशोर्दाये व्याध्यादिपीडितो मनुजः।
स्त्रीकृतदोषनिमित्तैर्दारिद्याध्दुन्नतिं लभते।।31।।

नीचाष्टमविधुदाये मरणं व्याध्यादिमाप्नुयात्सततम्।
तादशविधै सपापे निधनं वा जातिविभ्रंशः।।32।।

मौढ्यं गते हिमांशौ राज्याच्चैव च्युतिर्मनोदुःखी।
पाण्ड्वामयादिरोगैर्निपीडितो वारिजं भयं भवित।।33।।

षष्ठदशा व्यसनकरी क्षीणे नॄणां स्वबन्धुनाशकरी।
पूर्णे नृणां धनाप्तिं जनयति खलु केवलं नियतम्।।34।।

उदयगते राज्याप्तिः कर्मगते स्त्रीप्रजार्थसम्पत्तिः।
एवं चन्द्रदशाफलमंशकचारैस्तथैव वक्तव्यम्।।35।।

इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे चन्द्रदशाफलाध्यायो दशमः।।