अथ सूर्यदशाफलम्
भानोर्दशानुभूतो विदेशवासी वनाद्रिदुर्गाचरः।
द्विजदेववह्निभूपैः शास्त्रैर्भैषज्यतो धनप्राप्तिः।।1।।
मन्त्राभचारकुशलो विघातकुशलश्चूपतिश्चण्डः।
विख्यातकर्मनिरतो धीमान्विस्पष्टवागनिष्टश्च।।2।।
व्यालमृगोरगहन्ता दारसुतस्थानबर्जितश्चपलः।
ऋणवानदीनवचनो नेत्रोदरदन्तकर्णरोगी स्यात्।।3।।
नृपतस्करादिपीडा बन्धुद्वेषः स्वगोत्रनाशार्थः।
सामान्यमेतदुक्तं राशिविशेषान्वितं फलं वक्ष्ये।।4।।
भानोरुच्चदशायां बहुप्रतापः स्वधर्मकर्मरतः।
नृपजनितार्तिंःश लभते पित्रार्जितवित्तदेशकर्माढ्यः।।5।।
उच्चातिक्रान्तदशा भानोरुदरामयं शिरोरोगम्।
स्वजनविरोधं कुरुते चतुष्पदाद्यैर्भयं समाप्नोति।।6।।
भानोर्दशा वृषस्था कृषिपशुसुतदारवर्जितं जनयेत्।
हृद्गुह्यनेत्ररोगी बन्धुशान्वितोऽपि मानी स्यात्।।7।।
मिथुने भानुदशायां शास्त्रकलाकाव्यगोष्ठशिल्परतः।
कृषिपशुधनधान्याद्यैः संयुक्तो ज्ञातितो धनप्राप्तिः।।8।।
दिवसकरस्य दशायां चन्द्रगृहे ख्यातिमान् नृपात्तधनः।
स्त्रीनिर्जितोऽनिलात्मा पितृबन्धुविवर्जितोऽतितीक्ष्णश्च।।9।।
क्षेत्रदशायां भानोरनेकवित्तान्वितो नृपसमो वा।
दुर्गेऽरण्ये कृषिमान् सुतदारसमन्वितोऽतिविख्यातः।।10।।
कन्यारूढदशायां भानोः पशुमार्गतः सिद्धिः।
द्विजदेवधनप्राप्तिः स्त्रीजननं लोकमान्यश्च।।11।।
अतिनीचदशा भानोः कृषिसुतमित्रार्थदारनाशकरी।
लभते विदेशगमनं चोरानलसाध्वसं जनयेत्।।12।।
नीचातिक्रान्तदशा सूर्यस्य नृपाद्धनं सुखं कुरुते।
स्त्रीद्वेषजनितदुःखं जनयति परवञ्चना धनप्राप्तिम्।।13।।
अज्ञो रणप्रतापी वृश्चिकराशिस्थभास्करदशायाम्।
विषतोयशस्त्रपीडा पितुर्जनन्याश्च दुर्गमो भवति।।14।।
कार्मुकभानुदशायां स्वपुत्रदारान्वितो धनाढ्यश्च।
द्विजनृपतिजनितपूजा शास्त्रश्रुतिगेयवाद्यसन्तुष्टः।।15।।
मकरे भानुदशायां परकार्यरतो न याति धनपुत्रौ।
स्त्रीदोषजनितदुःखी पाण्ड्वामयपीडिऽतोऽङ्गहीनो वा।।16।।
कुम्भे भानुदशायां हृद्रोगसमन्वितो विनष्टसुतः।
पिशुनः परान्नभोजी भार्याजनवन्धुवैरी स्यात्।।17।।
भानुदेशायां मीने स्त्रीप्रीत्या लब्धमानधनसौख्यः।
विषमज्वरपीडा स्यात् सुतचिन्तावान् नरेन्द्रसमः।।18।।
अष्टमसंस्थस्य दशा भानोरुच्चेऽपि दोषवृद्धिकरी।
षष्ठदशा व्रणपीडां कुरुते पितृमातृदोषवृद्धिकरी।।19।।
पुरुषप्रथमदशायां फलं तु वाच्यं शुभाशुभं वाऽपि।
सद्यो मरणं योगै रुणद्धि स दशाफलं न चायाति।।20।।
मातापितृदोषभ्यां क्वचिन्निरुद्धं दशाफलं ज्ञेयम्।
तस्माद्योगान् सम्यक् परीक्ष्य पश्चाद्दशाफलं चिन्त्यम्।।21।।
यस्यादौ भानुदशा मातापितृदोषदा सपक्षघ्नी।
लग्नदशा क्लेशकरी चन्द्रदशा ज्ञानविघ्नकरी।।22।।
इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे सूर्यदशाफलाध्यायो नवमः।।