आत्मकर्म गुण श्रेष्ठं पुरुषं पुरुषं प्रति ।
अल्पग्रन्थं महार्थं च प्रवक्ष्यामि भृगोर्मतम् ।।१।।
पृथक् पुरुषविज्ञेयं नक्षत्राणां शुभाशुभम् ।
आत्मसम्पत्करं ज्ञेयमात्मन ऋद्धिमिच्छताम् ।।२।।
नवानां त्रिवर्गाणामाधाने जन्मकर्मणि ।
अधमोत्तमवर्गेषु सम्वदतीह भागशः ।।३।।
जन्मसम्पद्विपक्षेभ्यः प्रत्वरः साधकस्तथा ।
नैधनो मित्रवर्गश्च परमो मैत्र एव तु ।।४।।
दशमं जन्मनक्षत्रात् कर्मनक्षत्रमुच्यते ।
एकोनविंशतिं चैव गर्भाधानकमुच्यते ।।५।।
द्वितीयमेकादशं विंशमेष सम्पत्करो गणः ।
तृतीयमेकविंशं तु द्वादशं तु विपत्करम् ।।६।।
क्षेम्यं चतुर्थं द्वाविंशं भवेद्यच्च त्रयोदशम् ।
प्रत्वरं पञ्चमं विद्यात्त्रयोविंशं चतुर्द्दशम् ।।७।।
साधकं तु चतुर्विंशं षष्ठं पञ्चदशं तु यत् ।
नैधनं पञ्चविंशं तु षोडशं सप्तमं तथा ।।८।।
मैत्रे सप्तदशं विद्यात् षड्विंशमिति चाष्टमम् ।
सप्तविंशं परं मैत्रं नवमष्टादशं च यत् ।।९।।
नवनक्षत्रके वर्गे प्रथमं तृतीयं तु वर्जयेत् ।
पञ्चमं सप्तमं चैव शेषैः कार्याणि कारयेत् ।।१॰।।
आधाने जन्मकर्मणि ज्ञेयास्त्वेतानुपूर्वशः ।
त्रिनक्षत्रा नवगणास्तेषां कर्मफलं श्रृणु ।।११।। ।।९।।
आधाने जन्मनक्षत्रे नैधने प्रत्वरेषु च ।
प्रवासे प्राणसन्देहे क्षुरकर्मविवर्जयेत् ।।१।।
पराजयं प्रवासं च विवादं गृहकर्म च ।
वर्जयेन्मङ्गलं कार्यं शान्तिः स्वस्त्ययनानि च ।।२।।
क्षौरं विवाहं भैषज्यं यात्रां सेनां च योजयेत् ।
सर्वमङ्गलकार्येषु त्रिषु कर्म च वर्जयेत् ।।३।।
विद्यारम्भं तपो दानं मार्जनं भेषजं क्रिया ।
भरणं च सुभृत्यानां कुर्यात् सम्पत्करे गणे ।।४।।
अनृतमधर्मसंयुक्तं शत्रूणां चाभिचारकम् ।
विपत्करे गणे कुर्यात् प्रहरेताददाति च ।।५।।
क्षेम्येऽध्वानं प्रपद्येत गोप्यार्थाश्चात्र गोपयेत् ।
वाहनानि च पोषे च बहुशोऽर्थाश्च योजयेत् ।।६।।
प्रत्वरे तु न कर्त्तव्याः सर्वारम्भाः कदाचन ।
दुर्गं च न प्रवेष्टव्यं न च किञ्चित्समारभेत् ।।७।।
असाध्यान्यपि कार्याणि साधयेत्साधके गणे ।
सर्वार्थास्तस्य सिध्यन्ति न वानर्थान्समश्नुते ।।८।।
नैधने तु न गन्तव्यं येषु जाताश्च शत्रवः ।
तेभ्यो रक्षेत चात्मानमत्यन्तं च न विश्वेसत् ।।९।।
मैत्रे विवाहानड्वाहंश्चूडोपनयनानि च ।
कुर्यात्परममैत्रे तु यतस्तंभनमात्मकम् ।।१॰।।
परं परममैत्रे तु नरो ह्यभिलषेत्फलम् ।
प्राप्नुयादर्थसिद्धिं च क्षिप्रमेव न संशयः ।।११।। ।।१॰।।
ग्रहोल्का शनिनिर्घातैः कम्पैर्दाहैस्तु पीड्यते ।
यद्यद्भयं भवत्यत्र तत्प्रवक्ष्याम्यशेषतः ।।१।।
आधाने विद्रवन्त्यर्था व्याधयो जन्मनि ध्रुवम् ।
न च सिध्यन्ति कार्याणि कदाचिद्दशमे हते ।।२।।
संपत्करे हते हानिर्वृद्धिश्चैव विपत्करे ।
क्षेम्ये हते न प्रवसेत् साधकेऽर्थान्न साधयेत् ।।३।।
प्रत्वरे तु हते विद्यान् महारोगप्रनाशनम् ।
नैघने तु हते विद्यान् महानरिवधो भवेत् ।।४।।
मित्रवर्गाश्च मैत्रे तु न भवन्ति यथा पुरा ।
हते परममैत्रे तु मनो नित्यं न तुष्यति ।।५।।
यद्यत्पीड्यते नक्षत्रं यस्मिन्यस्मिन् यदा गणे ।
तत्तत्कर्म न कुर्वीत पुरस्ताद्यत्र चोदितम् ।।६।।
वर्गान्तं यत्तु नक्षत्रं वर्गाद्यं यत्पुनर्भवेत् ।
आनुपूर्वेण वर्गाणामेवं तेन वकास्त्रयः ।।७।। ।।११।।
ब्राह्मणी त्रयोदशाहं स्नाता पुष्पमधारयत् ।
क्षत्रिणी द्वादशाहं तु वैश्यी त्वेकादशस्तथा ।।१।।
शूद्रीणामथ सर्वासां दशरात्रौ विधीयते ।
वर्णक्रमेण नारीणामेष पुष्पविधिः स्मृतः ।।२।।
भूमौ स्तीर्णेषु दर्भेषु नियता ब्रह्मचारिणी ।
स्वपेत पुष्पमासाद्य त्र्यहं भुंक्ते नालङ्कृता ।।३।।
हस्तयोर्भूतले वापि पर्णे वाप्यशनं मितम् ।
नारी पुष्पवती पुष्पान् गंधांश्चैव न धारयेत् ।।४।।
ऋतुकाले तु नारीणां नान्यत्पुरुषदर्शनम् ।
संभाषं न च कुर्वीत यदीच्छेत् सन्ततिं शुभम् ।।५।।
भ्रातरं पितरं पुत्रं मातुलं श्वशुरं गुरुम् ।
न संभाषितमिच्छेत न चास्याप्युपवेशिनम् ।।६।।
यादृशेन हि भावेन संभाषन्तैः समाचरेत् ।
तादृशो जायते गर्भस्तस्माद्रक्षेद्रजस्वलाम् ।।७।।
रजसा विप्लुतां नारीं द्विजस्य ह्यपसेविनः ।
प्रज्ञा तेजो बलं चक्षुरायुश्चैव़ प्रहीयते ।।८।।
तां विवर्जयतरतस्य रजसा समविप्लुताम् ।
प्रज्ञा तेजो बलं चक्षुरायुश्चैव वर्द्धते ।।९।।
निष्ठीविता गौरिव मन्दचारी तन्द्री प्रहृष्टा हृदयव्यथा च ।
तृप्तिस्तु बीजग्रहणे च योन्यां गर्भस्य सद्यो निर्गतस्य लिङ्गम् ।।१॰।।
षष्ठे सम्भवते गर्भस्तद्वै षष्ठः प्रशस्यते ।
अब्दार्द्धे चक्षुनिष्पत्तिस्त्रिभिर्मासैस्तु जायते ।।११।। ।।१२।।
ऋतुः स्वाभाविकः स्त्रीणां रात्रय षोडशः स्मृताः ।
चतुर्भिरितरैः सार्द्धमहोभिः सद्विगर्हितैः ।।१।।
तासामाद्याश्चतस्रस्तु निन्दितैकादशी तु या ।
त्रयोदशी तु शेषा स्युः प्रशस्ता दश रात्रयः ।।२।।
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
तस्माद्युग्मासु पुत्रार्थी संविशेदार्त्तवे स्त्रियम् ।।३।।
पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियः ।
समेऽपुमान् पुंस्त्रियो वा क्षीणे चाल्पे विपर्ययः ।।४।।
चतुर्थ्यां जायते पुत्रो अल्पायुर्गुणंवर्जिताः ।
विद्याचारपरिभ्रष्टो दरिद्र क्लेशभाजिनः ।।५।।
पञ्चम्यां पुत्रिणी नारी षष्ठ्यां पुत्रस्तु पुत्रवान् ।
सप्तम्यामप्रजां कन्यामष्टम्यामीश्वरः सुतः ।।६।।
नवम्यां सुभगा नारी दशम्यां प्रवरः सुतः।
एकादश्यामधर्मा स्त्री द्वादश्यां पुरुषोत्तमः ।।७।।
त्रयोदश्यां शठा पापा वर्णसंकरकारिणी ।
जायते सर्वदुष्टा स्त्री दुःखशोकभयप्रदा ।।८।।
धर्मज्ञश्च कृतज्ञश्च शासितात्मा तपोनिधिः ।
जायते च चतुर्द्दश्यां पितेव जगतः पतिः ।।९।।
राजपत्नी महाभागा राजवंशगता स्त्रियः ।
जायते पञ्चदश्यां तु बहुभोगा पतिव्रता ।।१॰।।
विद्यालक्षणसम्पन्नः सत्यवादी जितेन्द्रियः ।
आधारः सर्वभूतानां षोडश्यां यः प्रजायते ।।११।। ।।१३।।
कन्या तु विकले ज्ञेया युग्मे भवति मानवः ।
तृतीया सन्ततिर्यस्य तद्रक्षेत्कुलदूषणम् ।।१।।
सप्तमे म्रियते जन्तुस्तन्मुहूर्त्तं विवर्जयेत् ।
स्नातायां दशमीं तस्यां श्राद्धं तत्र विवर्जयेत् ।।२।।
अङ्गादङ्गात् संभूतः स्वमङ्गमधितिष्ठति ।
पिता पुत्रत्वमापन्नो जायते म्रियतेऽपि वा ।।३।।
एवमेव त्रिभिर्भावैः सन्ततिश्च पुनः पुनः ।
अछिन्नो दैवतस्तं तु प्रजास्तस्मात् प्रजायते ।।४।।
पतिसंयोगकाले तु कन्या विघ्नं करोति या ।
अपुंस्त्वं लभते जन्म यत्र तत्रोपजायते ।।५।।
धर्मार्थकामयुक्तानि क्रूराणि च मृदूनि च ।
सिद्ध्यर्थं योगयोगेषु कुर्यात् कर्माणि नित्यशः ।।६।।
एवं नक्षत्रयोगेषु उक्तं कर्म समारभेत् ।
धर्मार्थकर्मणामर्थे सर्वकर्मफलमश्नुते ।।७।।
शान्तिभिश्च यथान्यायमुपवासैर्व्रतादिभिः ।
येऽर्चयन्ति महात्मानं सर्वं प्रशमयन्ति तम् ।।८।।
उपवासैर्गवां दानैस्तर्पणैश्च मनीषीणाम् ।
ग्रहनक्षत्रजा दोषाः प्रशाम्यन्तीहं देहिनाम् ।।९।।
नक्षत्राणि ग्रहश्चैव देवताः पितरो द्विजाः ।
पूजिताः प्रतिपूज्यन्ते निर्द्दहन्त्यपमानिताः ।।१॰।।
आत्मज्योतिषमित्युक्तं स्वयमुक्तं स्वयंभुवा ।
तत्वतः पृच्छमाणस्य काश्यपस्य महात्मनः ।।११।।
य इदं पठते विप्रो विधिवच्च समाहितः ।
यथोक्तं लभते सर्वमाम्नायविधिदर्शननाद् आम्नायविधिदर्शनादिति ।।१२।।।।१४।।
एवं शौनकशाखायां ब्रह्मवेदस्याङ्गंज्योतिषग्रन्थं
ब्रह्मकाश्यपानुवादं समाप्तम् ।।