।।ओम्।।
[आथर्वण-ज्योतिषम्]

[वारप्रकरणम् ]
[८ ]

आदित्यः सोमो भौमश्च तथा बुधबृहस्पती ।

भार्गवः शनैश्चरश्चैवैते सप्तदिनाधिपाः ।।१।।   

नृपाभिषेकं नृपतिप्रयाणं नृपस्य कार्यं नृपदर्शनं च ।

यच्चाग्निकार्यं भुवि किञ्चिदुक्तं तत्सर्वमादित्यदिने प्रशस्तम् ।।२।।   

पानं रसानां मधुसोमपानं सौभाग्यकर्माण्यनुलेपनानि ।

क्षेत्रे च बीजानि वपेत् वृक्षान् सोमस्य कुर्याद्दिवसे विधिज्ञः ।।३।।

भेदाभिघातो नगरे पुरे वा सेनापतित्वं च तथैव राज्ये ।

व्यायामशस्त्राभ्यसनं च चौर्यं भूमेःसुतस्याह्नि सदा प्रशस्तम् ।।४।।    

दूतप्रवेशो रणकारणार्थं कन्याप्रजार्थं रिपुसन्धिकार्यम् ।

भिन्ने च मन्त्रि प्रतिसन्धनीयं क्षिप्रं प्रशंसन्ति दिने बुधस्य ।।५।।    

स्वाध्यायदेवार्चनवेश्मकार्यं संस्कारदीक्षाश्च तथा यतीनाम् ।

वस्त्राणि दारा श्रियभूषणानि कृषिं कुर्याद्देवगुरोर्दिने च ।।६।।    

अश्वप्रवाह्यं प्रथमं प्रशस्तं योगप्ररोहो गजरोहणं च ।

कन्याप्रदानं क्रयविक्रयौ च तेषां सदा शुक्रदिने प्रशस्तम्  ।।७।। 

स्थाप्यं च कर्मक्रतुभिश्च यूपो गृहप्रवेशो गजबन्धनं च ।

ग्रामेऽथ वासो नगरे पुरे वा शनैश्चरे सर्वमिदं प्रशस्तम् ।।८।।    ।।८।।