आदौ वर्जयेद्धीरः प्रस्थाने प्रथमां तिथिम् ।
द्वितीया सम्प्रयातस्य सिद्धिमर्थं विनिर्द्दिशेत् ।।१।।
तृतीया क्षेममारोग्यं चतुर्थीं मरणाद्भयम् ।
पञ्चमी विजया श्रेष्ठा सा वै सर्वार्थसाधकी ।।२।।
षष्ठी तनयलाभाय सप्तमी त्वन्नभाग्भवेत् ।
अष्टमी रोगलाभाय नवम्यां न निवर्त्तते ।।३।।
दशम्यां प्रस्थितो राजा भूमिलाभाय कल्पते ।
एकादशी तु सर्वत्र प्रशस्ता सर्वकर्मसु ।।४।।
द्वादशी त्वर्थनाशाय.... कुर्यात्त्रयोदशी ? ।
चतुर्द्दशी चलत्कर्म कौतुकान्यत्र कारयेत् ।।५।।
अमावास्यां न यात्रा स्यात् पौर्णमास्यां तथा दिवा ।
पौर्णमास्यां प्रयातस्य न सिद्धिस्तस्य जायते ।।६।।
षडष्टौ नव चत्वारि पक्षछिद्राणि वर्जयेत् ।
अपि नक्षत्रसम्पन्नां वर्जयेत्तु चतुर्द्दशीम् ।।७।।
नन्दा भद्रा जया रिक्ता पूर्णा पक्षस्तु पञ्चमी ।
तिथयः पञ्च विज्ञेयाः पक्षयोरुभयोरपि ।।८।।
नन्दां प्रतिपदं विद्यात् षष्ठीमेकादशीमपि ।
द्वितीया सप्तमी भद्रा द्वादशी चोपपद्यते ।।९।।
तृतीया चाष्टमी चैव जया च स्यात्त्रयोदशी ।
चतुर्थी नवमी रिक्ता तथैव च चतुर्द्दशी ।।१॰।।
पञ्चमी दशमी पूर्णा तथा पञ्चदशीति च ।
तिथयो ह्येषु वारेषु सिद्धार्थास्तत्र तच्छृणु ।।११।।
नन्दां भृगौ सोमसुते च भद्रां भौमे जयां सूर्यसुते च रिक्ताम् ।
पूर्णां गुरौ पञ्चसु पञ्च एते जयावहाः सर्वफलप्रदाश्च ।।१२।।
सर्वं युग्मं छिद्रमाहुस्तिथिज्ञाः सामावास्यां न द्वितीयादशम्यौ ।
ओजः श्रेष्ठं तत्राग्रं तृतीयाः सर्वारम्भा वर्जनीया नवम्याम् ।।१३।। ।।६।।
नन्दायां भक्ष्यभोज्यानि भूषणानि वरस्त्रियः ।
आनन्दं चैव कुर्वीत मनः प्रियतमानि च ।।१।।
भद्रायां भद्रबाह्यानि यानि योगासनानि च ।
स्वस्तिवाचनकर्माणि कारयेदारभेति ? च ।।२।।
जयायां योजयेत् सेनां वणिजः क्षिप्रकारिणः ।
पण्यविक्रयणं कुर्युः शस्त्रकर्म च कारयेत् ।।३।।
रिक्तायां वर्जयेन्नित्यं तिथौ तिथिविचक्षणः ।
ध्रुवाणि सर्वकार्याणि स्थावराणि चलानि च ।।४।।
पूर्णायां सेतुबन्धांश्च कोष्ठान् कोशांश्च कारयेत् ।
वाहनानि च पोषे तु रथयानानि कारयेत् ।।५।।
एवमेव त्रिरम्यस्तं पक्षेण परिवर्जयेत् ।
ज्योतिःशास्त्रप्रयुक्तानां कर्मणां फलदं भवेत् ।।६।।
ऋतुक्षये चन्द्रमसः क्षये च पक्षक्षये ज्योतिषि सङ्ग्रहे च ।
नक्षत्रवर्गेषु विगर्हितेषु यात्राविधानं न वदन्ति तज्ज्ञाः ।।७।।
पक्षक्षयस्तु यः प्रोक्तः कियन्तं कालमादिशेत् ।
एकादश्यां व्यतीतायां विज्ञेयः पक्षसंक्षयः ।।८।।
शुक्रो धनक्षयं कुर्याद् बुद्धिमोहं बृहस्पतिः ।
लोहितांगो महाव्याधिं कुरुते नात्र संशयः ।।९।।
बुधो बन्धुपरिक्लेशं विप्रवासं शनैश्चरः ।
बन्धुपक्षक्षयं सूर्यो भयं सोमस्तथैव च ।।१॰।।
आत्मरक्षा तु नक्षत्रं तिथि स्यादर्थसाधकी ।
करणे कार्यनिष्पत्तिर्मुहूर्त्ते लाभमादिशेत् ।।११।।
चतुर्भिः कारयेत्कर्म सिद्धिहेतोर्विचक्षणः ।
तिथि-नक्षत्र-करण-मुहूर्त्तेनेति नित्यशः ।।१२।।
तिथेरपि च दूरत्वात्त्रिभिः कर्म समारभेत् ।
नक्षत्रेण करणेन मुहूर्त्तेनेति नित्यशः ।।१३।।
नक्षत्रस्य हि दूरत्वाद् द्वाभ्यां कर्म समारभेत् ।
करणेन मुहूर्त्तेन त्वरमाणस्तु बुद्धिमान् ।।१४।।
करणस्य हि दूरत्वान् मुहूर्त्तेनैव कारयेत् ।
मुहूर्त्तेन कृतं कर्म सिध्यते नात्र संशयः ।।१५।।
दूरस्थस्य मुहूर्त्तस्य क्रिया च त्वरिता यदि ।
द्विजपुण्याहघोषेण कृतं स्यात्सर्वसांपदम् ।।१६।।
नक्षत्रस्य मुहूर्त्तस्य तिथेश्च करणस्य च ।
चतुर्विधस्य ज्ञानस्य शकुनो दण्डनायकः ।।१७।।
शकुनः पवनश्चैव मनः परिजनस्तथा ।
यस्यैतान्यनुकूलानि सिद्धिरेव न संशयः ।।१८।।
न तत्र बलवती तारा यत्रेन्दुर्बलवत्तरः ।
न हि भर्तृस्थितां नारी क्वचित्स्वातन्त्र्यमर्हति ।।१९।।
न कृष्णपक्षे शशिनः प्रभावस्ताराबलं तत्र विचार्य देयम् ।
विदेशयाते विकले च पत्यौ सर्वाणि कार्याणि करोति पत्नी ।।२॰।।
तिथेरेकगुणः प्रोक्तो नक्षत्र च चतुर्गुणम् ।
वारस्याष्टगुणः प्रोक्तः करणं षोडशान्वितम् ।।२१।।
द्वात्रिंशद्गुणे योगस्ताराषष्टिसमन्वितः ।
चन्द्रः शतगुणः प्रोक्तस्तस्माच्चन्द्रं बलाबलम् ।।२२।।
समीक्ष्य चन्द्रस्य बलाबलानि ग्रहाः प्रयछन्ति शुभाशुभानि ।
मनःसमेतानि यथेन्द्रियाणि कर्माण्येतां यान्ति न केवलानि ।।२३।। ।।७।।