।।ओम्।।
[आथर्वण-ज्योतिषम्]

[करणप्रकरणम् ]
[४]

शुक्लप्रतिपदिरात्रौ दिवि पञ्चम्यां तथाष्टमीं रात्रौ ।

द्वादश्यामपि च दिवा प्रथमं प्रतिपद्यते करणम् ।।१।।

पौर्णमास्यां बवं रात्रौ तच्चतुर्थ्यां पुनर्द्दिवा ।

तद्धि तत्सप्तमीरात्रौ तच्चैवैकादशी दिवा ।।२।।

शुभाशुभनिबद्धानि करणानि निबोधत ।

तानि तत्वेन विज्ञाय नापदं प्राप्नुयान्नरः ।।३।।

एकादशभिः करणैर्मासः सम्प्रतिपद्यते ।

ध्रुवाणि तत्र चत्वारि चलान्यन्यानि सप्त च ।।४।।

बवं च बालवं चैव कौलवं तैतिलेति च ।

गराजि वणिजं चैव विष्टिर्भवति सप्तमम् ।।५।।

शकुनिं चतुष्पदं नागं चतुर्थं कौस्तुभं भवेत् ।

एकैकस्य तु यत्कर्म तद्वक्ष्यामि पृथक् पृथक् ।।६।।

आद्यं तु शकुनिं नाम रात्रौ कृष्णचतुर्द्दशी ।

आधाने हरणे चैव तथैव च पलायने ।।७।।

भृत्यानामथ योधानां पक्षिणां गृहपोषणे ।

चिकित्सायां तु युद्धे च सर्वत्रैतत्प्रशस्यते ।।८।।

भूततन्त्रं बलिं दद्याच्छत्रूणां परघातकम् ।

करणं चतुष्पदं नाम कृष्णपञ्चदशी दिवा ।।९।।

चतुष्पदानां सर्वेषां हितं सर्वेषु कर्मसु ।

श्राद्धमत्र च कुर्वीत प्रयतश्च भवेन्नरः ।।१॰।।

सोदकानि च कार्याणि सर्वाण्येतानि कारयेत् ।

कृष्णपञ्चदशी रात्रौ नागं करणमुच्यते ।।११।।

नष्टं नष्टं तथा बद्धं तदन्तमिति निर्द्दिशेत् ।

यानि प्रसह्य कार्याणि प्रमथ्यहरणानि च ।।१२।।

तानि नागे प्रयुक्तानि सिद्ध्यन्ति फलवन्ति च ।।१३।।    ।।४।।

[५]

शुक्लप्रतिपदि दिवा कौस्तुभं करणं भवेत् ।

वैश्वदेवमिति ख्यातं प्रशस्तं सर्वकर्मसु ।।१।।

बवेन ध्रुवकर्माणि क्षिप्राण्यपि च कारयेत् ।

प्रस्थाने च प्रवेशे च तद्धि सर्वार्थसाधकम् ।।२।।

बालवं ब्राह्मणानां तु सर्वारम्भेषु शोभनम् ।

चूडोपनयने यज्ञे विवाहे भूतिकर्मसु ।।३।।

त्रयाणामत्र वर्णानामनारम्भो विधीयते ।

अन्यत्र शोभने राज्ञे शान्तिकं पौष्टिकं प्रति ।।४।।

मैत्रयुक्तं तु यत्कर्म यच्च स्यात्सिद्धिकारकम् ।

स्थावराणि च कार्याणि कौलवे तानि कारयेत् ।।५।।

राजद्वारिकमारम्भं कारयेत्तैतिले दिने ।

एतद्धि करणं श्रेष्ठं नित्यं राज्ञोपसेविनाम् ।।६।।

अलङ्कारांश्च विविधान् दिव्यान्याभरणानि च ।

अन्यच्चापि तथा युक्तं युक्तानां तु प्रतिक्रियाः ।।७।।

गराजिना तु कुर्वीत यत्कर्म गृहमेधिनाम् ।

पशूनां पोषणं चैव प्रयोज्यं क्रयविक्रयम् ।।८।।

गृहप्रवेशं वास्तूनां गृहाणां रोपणानि च ।

विशेषेण तु कार्याणि कर्षणादीनि कारयेत् ।।९।।

वणिजं वणिजानां तु सर्वपण्येषु शोभनम् ।

विक्रेता रिध्यते तत्र क्रेता तत्र न रिध्यति ।।१॰।।

विष्टिना करणे कर्म न कुर्यान्नैव कारयेत् ।

कृच्छ्रेणापि कृतं कर्म भवेदल्पफलोदयम् ।।११।।

यदि सिद्ध्यति तत्कर्म विष्टिना तु कदाचन ।

न तच्चिरमशंकेन शक्यं भोक्तुं सुरैरपि ।।१२।।

आगतं धननाशाय आदौ कार्यविनाशनी ।

मध्ये प्राणहरा ज्ञेया विष्टि पुच्छे ध्रुवं जयः ।।१३।।

आगन्तु घटिकाः पञ्च वर्त्तमाने चतुर्द्दश ।

मध्ये चाष्टौ विजानीयाद्विष्टिपुच्छेत्रयः स्मृताः ।।१४।।

शकुनस्य गरुत्मान् वृषभो वै चतुष्पदे ।

नागस्य देवता नागाः कौस्तुभस्य धनाधिपः ।।१५।।

बवस्य देवता विष्णुर्बालवस्य प्रजापतिः ।

कौलवस्य भवेत्सोमस्तैतिलस्य शतक्रतुः ।।१६।।

गराजिर्वसुदेवत्सयो मणिभद्रोऽथ वाणिजे ।

विष्टेस्तु दैवतं मृत्युर्देवताः परिकीर्तिताः ।।१७।। 

कृत्रिरासदिवादरभूत दिवा शुचिरष्टदिवाकरपूर्णदिवा ।

इति विष्टिरहर्ग्रहण रात्रिचरान च कर्म भवेत्कृतमाशुशुभम् ।।१८।।    ।।५।।