।।ओम्।।
[आथर्वण-ज्योतिषम्]

।।मुहूर्त्तप्रकरणम्।।
[१]

अथ ब्रह्माणं स्वयम्भुवं गुरुं लोकपितामहम् ।

ब्रह्मलोके सुखासीनं काश्यपः परिपृच्छति ।।१।।

किं प्रमाणं मुहूर्त्तानां रात्रौ वा यदि वा दिवा ।

चन्द्रादित्यगतं सर्वं तन्मे प्रब्रूहि पृच्छतः ।।२।।

तस्य शुश्रूषमाणस्य काश्यपस्य महात्मनः ।

प्रोवाच भगवान् सर्वं मुहूर्त्तं ज्ञानमुत्तमम् ।।३।।

द्वादशाक्षिनिमेषस्तु लवो नाम विधीयते ।

लवाः त्रिंशत्कला ज्ञेया कलात्रिंशत्रुटिर्भवेत् ।।४।।

त्रुटीनां तु भवेत्त्रिंशन्मुहूर्त्तस्य प्रयोजनम् ।

द्वादशाङ्गुलमुच्छङ्कुं तस्य छाया प्रमाणतः ।।५।। 

नवती षडाङ्गुलाश्चैव प्रतीचीं तां प्रकाशयेत् ।

पुरस्तात्सन्धिवेलायां मुहूर्त्तो रौद्र उच्यते ।।६।।

श्वेतः षष्टिः समाख्यातो मैत्रो वै द्वादशाङ्गुलः ।

षट्सु सारभटो ज्ञेयः सावित्रः पञ्चसु स्मृतः ।।७।।

चतुर्षु तु वैराजस्त्रिषु विश्वावसुस्तथा ।

मध्याह्ने अभिजिन्नाम यस्मिन् छाया प्रतिष्ठिता ।।८।।

प्राचीं वै गामिनीं छायां रौहिणस्त्रिषु वर्तते ।

बलश्चतुर्षु विख्यातो विजयः पञ्चसु स्मृतः ।।९।।

नैर्ऋतस्तु षडङ्गुल्या वारुणो द्वादशाङ्गुलः ।

सौम्यः षष्टिः समाख्यातो भगस्तु  परमस्तथा ।।१॰।।

एते मुहूर्त्ता व्याख्याता दश द्वौ च तथा त्रयः ।

अहन्येव तु विज्ञेया रात्रावपि न संशयः ।।११।।

अत ऊर्द्ध्वं तु सर्वेषामानुपूर्व्या शुभाशुभम् ।

सर्वं विस्तरशस्तावत्तन्मे निगदतः श्रृणु ।।१२।।     ।।१।।

[२ ]

रौद्रे रौद्राणि कुर्वीत रुद्रकार्याणि नित्यशः ।

च्च रौद्रं भवेत्किञ्चित् सर्वमेतेन कारयेत् ।।१।।

श्वेते वासश्च स्नानं च ग्रामोद्यानं तथा कृषिः ।

आरम्भाश्चात्र सिध्यन्ति ये चार्थाश्चिन्तिताः क्वचित् ।।२।।

मैत्रे मैत्राणि कुर्वीत मित्रकार्याणि नित्यशः ।

यच्च मैत्रं भवेत्किञ्चित् सर्वमेतेन कारयेत् ।।३।।

अभिचारं तु शत्रूणां कुर्यात्सारभटेन तु ।

आत्मार्थे सुहृदर्थे वा नश्यन्ते तस्य शत्रवः ।।४।।

सावित्रेण मुहूर्त्तेन देवकार्याणि कारयेत् ।

यज्ञान् विवाहानड्वाहंश्चूडोपनयनानि च ।।५।।

वैराजेन मुहूर्त्तेन राजपौरुषमारभेत् ।

मर्माणि  परदानानि शस्त्रकर्म च कारयेत् ।।६।।

विश्वावसौ तु सर्वार्थानारम्भांश्चात्र कारयेत् ।

सर्वेषां च द्विजातीनां स्वाध्यायस्तु प्रशस्यते ।।७।।

ब्रह्मक्षत्रियवैश्यानां शूद्राणां चापि नित्यशः ।

सर्वेषामेव वर्णानां योगो मध्यन्दिनेऽभिजित् ।।८।।

अभिजित् सर्वकामाय सर्वकार्यार्थसाधनः ।

अर्थसञ्चयमानानामध्वानं गन्तुमिच्छताम् ।।९।।

रौहिणे वापिता वृक्षा बिल्वगुल्मलतास्तथा ।

अरोगाः पुष्पवन्तश्च फलवन्तश्च नित्यशः ।।१॰।।

बलेन तु बलं राजा स्वयमारुह्य योजयेत् ।

योगः सम्पत्तिकं कार्यं शत्रूंश्च विषमे जयेत् ।।११।।     ।।२।।

[३ ]

विजयेन प्रयातस्य विजयो नात्र संशयः ।

मङ्गलान्यत्र कुर्वीत शान्तिः स्वस्त्ययनानि च ।।१।।

नैर्ऋते द्योतयेत्सेनां परराष्ट्रं तु मर्द्दयेत् ।

कर्त्तुः सम्पत्करो ह्येष सर्वशत्रुनिबर्हणः ।।२।।

वारुणेन मुहूर्त्तेन वारुणानि प्रवापयेत् ।

गोधूमान् यवशालींश्च इक्षवश्चोत्पलानि च ।।३।।

सौम्ये सौम्यानि कुर्वीत सोमकार्याणि नित्यशः ।

यच्च सौम्यं भवेत्किञ्चित् सर्वमेतेन कारयेत् ।।४।।

सर्वासामेव नारीणां कन्यानां च विशेषतः ।

सौभाग्यानि प्रयुञ्जीत भगे भीमपराक्रमे ।।५।।

भगेन वरयेत् कन्यां ब्राह्मणीं कुलवर्द्धनीम् ।

भगेन वरिता कन्या नैव सान्यत्र गच्छति ।।६।।    ।।३।।